इषु
iṣuपुं · masc.In 16 kośas: 19 synonym verses, 1 as a nānārtha head word, 11 as a meaning of another word.
बाणे पृषत्कविशिखौ खगगार्ध्रपक्षौ काण्डाशुगप्रदरसायकपत्त्रवाहाः ।पत्त्रीष्वजिह्मगशिलीमुखकङ्कपत्त्ररोपाः कलम्बशरमार्गणचित्रपुङ्खाः ॥ ७७८ ॥
वसन्ततिलका
genderपुंmasc.
पृषत्कबाणविशिखा अजिह्मगखगाशुगाः ॥ ८६ ॥कलम्बमार्गणशराः पत्री रोप इषुर्द्वयोः ।
अनुष्टुप्
genderपुंस्त्रीm. f.
कङ्कपत्त्रशरमार्गणबाणाश्चित्रपुङ्खविशिखेषुकलम्बाः ।सायकप्रदरकाण्डपृषत्काः पत्त्रिणः खगशिलीमुखरोपाः ॥ ४६६ ॥
स्वागता
genderपुंmasc.
शरमार्गणबाणेषुसायकानिलमारुतः ।समीरणाक्षपवनाः पंचवातास्तथाशुगाः ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
कदम्बसायकादम्बा वाजी च स्यादिषुर्द्वयोः ।प्रक्ष्वेडनो ना नाराचोप्यस्त्रं षण् सायकः पुमान् ॥ २७० ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
शरो बाण इषुः काण्ड उत्कटः सायकः क्षुरः ।इक्षुरिक्षुरिकापत्रो विशिखोऽथ महाशरः ॥ ३३८ ॥
अनुष्टुप्
genderपुंmasc.
मषीषुधृत्यहिजटिजाटलीनां सृणेरपि ।मरीच्यशनिमौलीनां हलीकेल्योर्मणेरपि ॥ १२३ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
कङ्कपत्रः पत्रवाहः पृषत्कः सायकश्च सः ।कलम्बः प्रदरोऽस्त्रीकौ बाण-काण्डाविषुस्त्रिषु ॥ २२ ॥
अनुष्टुप्
genderविadj.
पूलावहेलौ समृणालनालौसशृङ्खलौ मण्डल-कन्दलौ च ।तद्वत्प्रदिष्टः कलशस्तथेषुस्तथा कटाहं च समामनन्ति ॥ ९० ॥
उपजातिः
genderपुंस्त्रीक्लीm. f. n.
शिलीमुखः शरो बाणो मार्गणो रोपणः कणः ।इषुः काण्डं क्षुरप्रं च नाराचं तोमरं खगः ॥ ७८ ॥
अनुष्टुप्
genderपुंmasc.
लक्ष्यं शरव्यकं वेध्यं बाणनाम शराशुगौ ।काण्डः पत्रीषुनामाथ पत्रवाहश्च सायकः ॥ ३८३ ॥
अनुष्टुप्
genderपुंmasc.
उपासनं शराभ्यासे शरः पत्री पुमान्खगः ।अजिह्मगः कलम्बश्च रोदो रोप इषुर्द्वयोः ॥ ३६१ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
सायकेषू कङ्कपत्रो नाराचो मार्गणाभिधः ।तूणीर इषुधिस्तूणी निषङ्गः सायकाश्रयः ॥ २२५ ॥
अनुष्टुप्
genderपुंmasc.
निषङ्गस्तूणतूणीरावुपासङ्गस्तथेषुधिः ।इषुर्बाणः शरः पत्री काण्डो विशिख आशुगः ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.
लक्षहा मार्गणो वारो विशिखश्च शिलीमुखः ।चित्रपुङ्खश्च पत्रीषुः प्रदरो मर्मभेदनः ॥ १२७३ ॥
अनुष्टुप्
genderपुंmasc.
कलम्वः स्याद्वीरतरो मार्गणोऽप्याशुगः खगः ।तूणक्ष्वेडः पृषत्केषुरोपकाण्डविपर्यकाः ॥
अनुष्टुप्
genderपुंmasc.
ज्याघातवारिणी गोधा धनुर्मध्ये तु लस्तकः ।जीवा ज्या शिञ्जिनी मौर्वी गुणः स्त्रीपुंसयोरिषुः ॥ १३२९ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
कशेषुधी इषुः पूगकृपाणशफरादयः ।
genderपुंस्त्रीm. f.
चित्रपुंखो वीरशंकुः शरो रोध इषुर्न षण् ।प्रक्ष्वेलनस्तु नाराच एषणश्चायसे शरे ॥ १८० ॥
अनुष्टुप्
genderपुंक्लीm. n.
इषु as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् गोस्वर्गेषुपशुवाग्वज्रदिङ्नेत्रधृणिभूजले । लक्ष्यदृष्ट्या स्त्रियां पुंसि गौर्लिङ्गं चिह्नशेफसोः ॥ २५ ॥ Amarakośa 3.3.25
- नामलिङ्गानुशासनम् वाजिन्प्रतियत्नावुभौ लिप्सोपग्रहावथ सादिनौ । द्वौ सारथिहयारोहौ वाजिनोऽश्वेषुपक्षिणः ॥ १०७ ॥ Amarakośa 3.3.107
- नामलिङ्गानुशासनम् किंशारुकिंशारू सस्यशूकेषु मरू धन्वधराधरौ ॥ १६३ ॥ Amarakośa 3.3.163
- नामलिङ्गानुशासनम् स्वरुमखेषुयूपखण्डेऽपि स्वरुर्गुह्येऽप्यवस्करः । Amarakośa 3.3.318
- कोषकल्पतरु आशुगआशुग इषौ च बाणे [वायावर्के] प्रसूनरेणौ च । स्नानीये च परागो गिरिभेदे चन्दने ग्रहणे ॥ १३ ॥ Koṣakalpataru 6.3.13
- नानार्थार्णवसंक्षेप आराग्रआख्यानं स्यात् कथायां च स्यादाराग्रं त्विषोर्भवेत् । अग्रे तथाग्र आरायां इन्द्रियं धनरेतसोः ॥ ११ ॥ Nānārthārṇavasaṃkṣepa 3.3.11
- नानार्थार्णवसंक्षेप इषिरइषोः क्षेप्तर्यथ पुमानिषिरो जातवेदसि । ऐषिराख्यस्य साम्नश्च द्रष्टरि स्यादिषावपि ॥ २२५ ॥ Nānārthārṇavasaṃkṣepa 4.225
- शब्दरत्नाकर काण्डपेषणे रजसि क्षोदः क्षारस्तु गुडभस्मनोः । काण्डोऽस्त्री दण्डवर्गेषुनालावसरवारिषु ॥ १८८७ ॥ Śabdaratnākara 4.1.1887
- शब्दरत्नाकर आशुगतदात्वे पात आपात आशुगोऽर्केषुवायुषु । आयोगो व्यापृतौ गन्धमाल्योपहरणेऽपि च ॥ २०४९ ॥ Śabdaratnākara 4.1.2049
- वैजयन्ती काण्डकांस्यं कंसोऽस्त्रियां पानपात्रे तैजस आढके । काण्डोऽस्त्रीषौ बले नाले गर्ह्येऽवसरवर्गयोः ॥ ११ ॥ Vaijayantī 6.5.11
- वैजयन्ती गोद्युपश्विष्वंशुवज्रांबुभूवाग्दिग्दृक्षु गौर्न षण् । दृक् स्त्री स्याद्दर्शने बुद्धौ नेत्रे द्रष्टरि तु त्रिषु ॥ ३७ ॥ Vaijayantī 8.5.37