तेजस्
tejasक्ली · neut.In 19 kośas: 25 synonym verses, 11 as a nānārtha head word, 35 as a meaning of another word.
प्रकाशस्तेज उद्योत आलोको वर्च आतपः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ग (wrong syllable)
genderक्लीneut.
शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च ।
अनुष्टुप्
genderक्लीneut.
अर्चिः कीला ज्वाला वर्चस्तेजस्त्विषस्तथा ज्योतिः ।हेतिद्युतिदीप्तिरुचः शिखाप्रभारश्मयः समानार्थाः ॥ ६५ ॥
गीतिः
genderक्लीneut.
प्राणः स्थाम बलं द्युम्नमोजः शुष्म तरः सहः ।प्रतापः पौरुषं तेजो विक्रमः स्यात्पराक्रमः ॥ ७२३ ॥
अनुष्टुप्
genderक्लीneut.
वाजं तेजः स्त्रियां शुक्रवर्द्धिनी कौशिकीत्यपि ।शुक्रमानन्दजं पुंस्त्वं तेजोवीर्यं च पौरुषम् ॥ २३२ ॥
अनुष्टुप्
genderक्लीneut.
गभस्तिश्च गभस्ती च पुंस्त्रियोः परिकीर्तिते ।क्लीबे तेजो महर्वर्चो ज्योतिर्धाम वपुः पुनः ॥ १८ ॥
अनुष्टुप्
genderक्लीneut.
उद्यो[द्द्यो]तः प्रद्योतः प्रकाश आलोक आतपो घर्मः ।भर्गस्तेजो द्योत्रं छाया स्यादातपाभावः ॥ ४६ ॥
metre not recognised
genderक्लीneut.
सुमनस् अप्सरस् इत्येताभ्यां विरहितमुज्झितमित्यर्थः । अस् अन्ते यस्य तदिदमसन्तं पुंसि भवेदित्यर्थः । अयमङ्गिराः चन्द्रमाः स्थूलशिराः । पुरूरवाः उच्चैःश्रवाः दुर्वासाः पृथुयशा इत्यादयः । सुमनसोऽप्सरसश्च स्त्र्यधिकारात्स्त्रियां प्रवृत्तिः । इमाः सुमनसः कुसुमानि । इमा अप्सरसो देवस्त्रियः । द्व्यच्कमसन्तं नपुंसकं भवति । इदमोजः तेजः वर्चः शिरः यशः छन्दः श्रोतः चेतः पयः तपः अम्भः । जरस्शब्दस्यापि नपुंसकता स्यादित्यत आहान्यत्र वै जरसः । नपुंसकात्प्रकृताच्च पुंल्लिङ्गादन्यस्मिन् जरस् शब्दो भवति । स्त्रियाम् । इयं जरा वृद्धभावः ।पुंसि क्षुरखुरबिन्द्विक्षुपायुमणिकीलकेलिबलयः ।निघसङ्घोद्घोपघ्नौघविघ्नघर्मार्घवर्णाश्च ॥ २५ ॥
metre not recognisedimpossible sibilant cluster: जरस्शब्दस्यापि
अङ्गिरस्पुंचन्द्रमस्पुंस्थूलशिरस्पुंपुरूरवस्पुंउच्चैःश्रवस्पुंदुर्वासस्पुंपृथुयशस्पुंसुमनस्स्त्रीअप्सरस्स्त्रीओजस्क्लीतेजस्क्लीवर्चस्क्लीशिरस्क्लीयशस्क्लीछन्दस्क्लीस्रोतस्क्लीचेतस्क्लीपयस्क्लीतपस्क्लीअम्भस्क्लीजरस्स्त्रीजरास्त्रीक्षुरपुंखुरपुंबिन्दुपुंइक्षुपुंपायुपुंमणिपुंकीलपुंकेलिपुंबलिपुंनिघपुंसङ्घपुंउद्घपुंउपघ्नपुंओघपुंविघ्नपुंघर्मपुंअर्घपुंवर्णपुं
genderक्लीneut.
दीधितिर्भानुरुस्रोंऽशुर्गभस्तिः किरणः करः ।पादो रुचिर्मरीचिर्भास्तेजोऽर्चिर्गौर्द्युतिः प्रभा ॥ ४५ ॥
अनुष्टुप्
genderक्लीneut.
अभीशुः शुचिभाभानुवसूपधृतयो विभा ।प्रकाशो वर्च आलोकोद्योतावातपतेजसी ॥ ९४ ॥
अनुष्टुप्
genderक्लीneut.
घृणिर्घृष्टिर्मयूखश्च रुगर्चिर्वर्च इत्यपि ।शोचिः केतुः पदः पादस्तेजः कान्तिर्भगो रुचिः ॥ ८८ ॥
अनुष्टुप्
genderक्लीneut.
शासनं नृपनिर्देश आज्ञा तेजः प्रतापकः ।प्रभावः कीर्त्तिः सच्छ्लोकः प्रशस्तिः शुभ्ररुग्यशः ॥ ३६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्त्तिः (wrong syllable)
genderक्लीneut.
फाण्टं तक्रं दधिसुता नवनीतं सुधासितम् ।आज्यं रेतो घृतं हव्यं तेजो ज्योतिः सुधान्तिकम् ॥ २५१ ॥
अनुष्टुप्
genderक्लीneut.
पादो गभस्तिरुस्रो गौर्ज्योतिर्धामांशुरश्मयः ।अर्चिः पृष्णिर्घृणिस्तेजो भाः प्रभा त्विट् छविर्द्युतिः ॥ ७१ ॥
अनुष्टुप्
genderक्लीneut.
प्रकाशश्तेज उद्योतः आलोकः छविरातपः ।अर्चिरंशुश्च भाः भानुः गभस्तिश्च विभा प्रभा ॥ ८५ ॥
अनुष्टुप्impossible sibilant cluster: प्रकाशश्तेज
genderक्लीneut.
किलासी सिध्मलश्चापि छोदयुक्तजने द्वयम् ।काणूकः काणकः काण एकनेत्रविहीनके ॥शुक्रं रेतस्तेजसी च वीजवीर्येन्द्रियाणि च ।मायुः पलज्वरः पित्तं कफे श्लेष्मा बलाशकः ॥
अनुष्टुप्
genderक्लीneut.
रुक्छविद्युतिभास्त्विड्भाप्रभागोरुचिदीप्तयः ।रोचिः शोचिर्महो वर्चो ज्योतिस्तेजश्च धाम च ॥ १६९ ॥
अनुष्टुप्
genderक्लीneut.
भेषजभैषज्यौषधमगदो जायुश्च शुक्रवीर्ये तु ।रेतस्तेजश्चेन्द्रियबीजे करणं समे हृद्धृदये ॥ १११२ ॥
गीतिःmetre not read in every line
genderक्लीneut.
स तु त्रिष्वषडक्षीणो यस्तृतीयाद्यगोचरः ।प्रतापश्च प्रभावश्च तेजो यत् कोशदण्डजम् ॥ १२७८ ॥
अनुष्टुप्
genderक्लीneut.
द्वन्द्वं तु बाहुयुद्धं स्यान्नियुद्धमथ पौरुषम् ।तेजः पराक्रमः प्राणो विक्रमः शक्तिरित्यपि ॥ १३७९ ॥
अनुष्टुप्
genderक्लीneut.
याहंकृतिः परस्परमहमहमिकेति सैव स्यात् ।ऊर्जः शुष्म सहो बलमोजो द्रविणं तरस्तेजः ॥ १३८१ ॥
उपगीतिःmetre not read in every line
genderक्लीneut.
प्राणस्तेजः स्थिरा वार्द्युर्वायुश्चापि प्रभा च ज्या ।कमभ्रं नाद-दावौ च कुः पाथो व्योम तो रयः ॥ ५६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 च (wrong syllable)
genderक्लीneut.
अग्निर्वह्निः शुचिस्तेजः प्रभा दावः शिखी द्युतिः ।दाहो ग्रासश्च संज्ञोक्ता वह्न्यर्णानां क्रमादियम् ॥ ५७ ॥
अनुष्टुप्
genderक्लीneut.
अग्निः-इ, वह्निः-ई, शुचिः-ऐ, तेजः-ख, प्रभा-छ, दावः-ठ, शिखी-थ, द्युतिः-फ, दाहः-र, ग्रासः-क्ष
genderक्लीneut.
सृदाकुर्भरथः पीथो जुहुराणेषिराशिराः ।तेजोऽप्पित्तमपांपित्तं स्वाहाग्नायी च तत्प्रिया ॥ १९ ॥
अनुष्टुप्
genderक्लीneut.
प्रभावे पौरुषे सत्त्वे ज्वलत्यन्नात्मनोरपि ।तोकं पुत्रे च पुत्र्यां च द्रव्यं त्वर्थे गुणाश्रये ॥ ३० ॥
अनुष्टुप्
doubtful
नवनीते बले वह्नौ तीक्ष्णं तिग्मे विषे रणे ।तूणी नील्यां निषङ्गे च तल्पं शय्याकलत्रयोः ॥ २२३ ॥
अनुष्टुप्
doubtful
तेजः क्लीबं पराक्रान्तिप्रभाववीर्यदीप्तिषु ।धनुः पियाले राशौ ना चापेऽस्त्री धन्वनि त्रिषु ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
धर्मेऽग्नौ नवनीते च तल्पं शयनजाययोः ।रत्नदोषे भये त्रासस्तनुः स्त्री त्वक्शरीरयोः ।त्रिष्वल्पे च कुशे चाथ तमो राहुस्तमः शुचि ॥ १९३३ ॥
अनुष्टुप्
doubtful
नवनीतेऽनले धर्मे दानं हस्तिमदेऽपि च ।द्रव्यं गुणानामाधारे भेषजे योगवित्तयोः ॥ १५ ॥
अनुष्टुप्
doubtful
तेजस् as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् वर्चस्तेजःपुरीषयोर्वर्चो महस्तूत्सवतेजसोः । Amarakośa 3.3.450
- हलायुधकोशः (अभिधानरत्नमाला) धामन्तेजस्यपि धाम स्यादाधारेऽप्याशयो घटा गोष्ठ्याम् । कुल्या कुलस्त्रियामपि तारो मुक्तागुणेऽप्युक्तः ॥ ७९८ ॥ Abhidhānaratnamālā (Halāyudha) 5.798
- धरणिकोश धामन्वर्ष्म देहे प्रमाणे स्यादाकारेऽप्यतिसुन्दरे । धाम शक्तौ प्रभावेऽपि तेजोमन्दिरजन्मसु ॥ Dharaṇikośa 19.2.8
- धरणिकोश प्रतापप्रतापस्तेजसि स्वेदे विकल्पौ पक्षसंशयौ । आकल्पः कल्पने वेशे उडुपश्चन्द्रभेलयोः । परिकम्पो भये कम्पे वृषाकपी हरीश्वरौ ॥ Dharaṇikośa 20.1.3
- धरणिकोश वीर्यवीर्यं शुक्रे प्रभावे च बले तेजसि च स्मृतम् । अर्घ्यं तु स्याद्यदर्घार्थमर्घ्योऽसौ योऽर्घमर्हति ॥ Dharaṇikośa 25.2.16
- धरणिकोश महस्महो हर्षो महस्तेजो मनो … । इष्वासो धन्विधनुषो रभसो वेगहर्षयोः ॥ Dharaṇikośa 31.1.7
- धरणिकोश महगुहा दरी पृश्निपर्णी कार्तिकेयो गुहो मतः । मही नदी मही भूमिर्मह उत्सवतेजसोः ॥ Dharaṇikośa 32.2.4
- कोषकल्पतरु शुष्मभद्रे लब्धकरक्षणे निगदितं स्याच्चौरकेऽथ स्त्रियां गौर्यां स्याद्गणहासके च, नगरे तूमं तथा घट्टके । सूर्ये यष्टरि पुंसि, शुष्ममुदितं तेजस्यशीतद्युतौ ना स्यूमस्तु मयूखसूत्रगुणयोर्दक्षे क्षमः क्षन्तरि ॥ ५९ ॥ Koṣakalpataru 6.25.59
- कोषकल्पतरु मायमायस्तु पीताम्बरदेवयोः स्यात् स्त्री शाम्बरीबुद्धिदयासु दम्भे । न पुंसि वीर्याऽतिशयप्रभावे शुक्रे तथा तेजसि संप्रदिष्टा ॥ १४ ॥ Koṣakalpataru 6.26.14
- कोषकल्पतरु व्यवायपर्यायोऽवसरे क्रमेऽर्थविवृतौ निर्माणवाची तथा संस्त्यायस्तु समूहविस्तृतिगृहे स्यात्संनिवेशे स्थितौ । अन्तर्द्धौ सुरते व्यवाय उदितस्तेजोर्थकस्त्वव्ययं । शालेयं शतपुष्पिकौषधभिदि क्षेत्रे च शाल्यर्हके ॥ ६५ ॥ Koṣakalpataru 6.26.65
- कोषकल्पतरु प्रभावशत्रौ तथा तेजसि च प्रभावो नाशेऽप्यसत्ताविषयेऽप्यभावः । विभाव उक्तो रसकारणेऽपि तथा प्रदिष्टः परिचित्यभिन्नः ॥ २७ ॥ Koṣakalpataru 6.29.27
- कोषकल्पतरु महस्महस्तथा तेजसि चोत्सवेऽन्त्ये *दस्तथाङ्कस्तु शरीरचिह्ने । पाथो जलेऽन्नेऽप्यथ पक्ष उक्तं छदे च वर्षार्धकपक्षयोश्च ॥ १० ॥ Koṣakalpataru 6.31.10
- नानार्थार्णवसंक्षेप गरुत्सन्धौ ग्रन्थनदेशे च रज्जुवस्त्रादिवस्तुनः । रोगभेदेऽप्यथ गरुत् पक्षिपक्षे च तेजसि ॥ ४५ ॥ Nānārthārṇavasaṃkṣepa 2.2.45
- नानार्थार्णवसंक्षेप धामलग्नाद्द्वितीयराशौ च स्वापतेये च गोव्रजे । धामं त्वदन्तं तिलकतेजसोर्धाम तु त्विषि ॥ ३४ ॥ Nānārthārṇavasaṃkṣepa 2.3.34
- नानार्थार्णवसंक्षेप भर्गस्स्वर्णवेतनयोर्भर्म भर्गस्तेजसि रेतसि । भुवः सूर्ये लोकभेदे महस्तूत्सवतेजसोः ॥ ४५ ॥ Nānārthārṇavasaṃkṣepa 2.3.45
- नानार्थार्णवसंक्षेप रजस्रजस्तु शरदि स्त्रीणां पुष्पे रेणौ जले स्रजि । सत्त्वाद्यन्यतमे रात्रौ लोहे तेजसि रेतसि ॥ ५० ॥ Nānārthārṇavasaṃkṣepa 2.3.50
- नानार्थार्णवसंक्षेप वर्चस्पदार्थमात्रेऽप्यस्यार्थं पण्डितः शाकटायनः । सदित्याह स्म वर्चस्तु विष्ठायामन्नतेजसोः ॥ ५७ ॥ Nānārthārṇavasaṃkṣepa 2.3.57
- नानार्थार्णवसंक्षेप गर्मुत्गर्मुत् तु गरुडे सूर्ये तेजस्यपि पुमानथ । द्वयोः स्यान्मक्षिकाभेदे पक्षिमात्रेऽप्यथ स्त्रियाम् ॥ ३४१ ॥ Nānārthārṇavasaṃkṣepa 2.5.341
- नानार्थार्णवसंक्षेप ताविषस्वर्गे स्यात् ताविषः स्त्री तु ताविषीन्द्रसुताभुवोः । वात्यायां देवकन्यायां क्ली तु तेजसि ताविषम् ॥ ८४४ ॥ Nānārthārṇavasaṃkṣepa 4.844
- परमानन्दीयनाममाला कीलप्लवे दिगम्बरे कीशः कीलः शङ्क्वग्नितेजसोः । कान्ता स्त्रियां प्रियङ्गौ च काली कीटे नवाम्बुदे ॥ ९७ ॥ Paramānandīyanāmamālā 5.7.97
- परमानन्दीयनाममाला धामन्धाम गेहे प्रभावे च स्थाने तेजसि विश्रुतम् । धुनी नद्यां समुद्रेऽथ धेनो धेनुः करिस्त्रियाम् ॥ २५१ ॥ Paramānandīyanāmamālā 5.17.251
- शब्दरत्नावली जजो विषे वेगिते भुक्तौ तेजः पिशाचजेतृषु । जूः स्याद्वियतिभारत्यां पिशाच्यां यवने स्त्रियाम् ॥ Śabdaratnāvalī 7.8.1
- शब्दरत्नावली आयस्तआस्फोता वनमाल्यान्तु गिरिकर्ष्यामपि स्त्रियाम् । आयस्तः क्लिशिते क्षिप्ते तेजसि कुपिते हते ॥ Śabdaratnāvalī 7.16.86
- शब्दरत्नावली दृशानतोदनं व्यथने तोत्रे दंशनं वर्मदंशयोः । दर्शनं दर्पणे शास्त्रे नयनस्वप्नबुद्धिषु ॥ दमनः कुसुमे वीरे उपशान्तेऽपि कुत्रचित् । दशनः शिखरे दन्ते कवचे तु नपुंसकम् ॥ दहनो दुष्टचेष्टाग्निभल्लाते चित्रकेऽपि च । दृशानं तेजसि क्लीबं स्यात्पुमांस्तु विरोचने ॥ देवनन्तु जिगीषायां स्यात्क्रीडाव्यवहारयोः । अक्षेषु देवनः पुंसि सेवायामपि देवना ॥ ध्वजी रथे च भूदेवे भये सर्पे धराधरे । धन्वी ककुभवृक्षे स्यादर्जुने च धनुर्धरे ॥ धन्व क्लीबे स्थले चापे धन्वा ना मरुदेशके । धमनो नालभेदे भस्त्राध्मापकक्रूरयोस्त्रिषु ॥ धमनी च शिराहट्टविलासिन्योरपि स्त्रियाम् । धावनन्तु गतौ शुद्धै पृश्नीपर्ण्यान्तु धावनी ॥ धाम गेहे तनौ रश्मौ स्थाने प्रभावजन्मनोः । नन्दनं वासवोद्यानं पुमानात्यजहर्षयोः ॥ नन्दी हरद्वारपाले कन्दवाले वटद्रुमे । नन्दिन्युमाधेनुभेदगङ्गाननान्दृषु स्त्रियाम् ॥ नलिन्याकाशगङ्गायां पद्मिन्यां कमलाकरे । अम्भोरुहे तु न पुमान् नीलिकायां नपुंसकम् ॥ निदानं वत्सदामादिकारणे क्षयकारणे । निधनं नाशकुलयोः प्रधनं युधि दारुणे ॥ पवनं स्यात्कुम्भकारपाकस्थाने नपुंसकम् । स्यात्पुमांस्तु जगत्प्राणे निष्पावे प्रयतेऽपि च ॥ प्रधानं प्रकृतिप्रज्ञामहामात्यपरात्मसु । एकत्वे चोत्तमे क्लीबं वाच्यलिङ्गन्तु कुत्रचित् ॥ पद्मिनी स्त्रीविशेषे स्यात्पद्मसङ्घे सरोऽम्बुजे । प्रसन्ना स्त्री सुरायां स्यात्सन्तुष्टामलयोस्त्रिषु ॥ प्रसूनं पुष्पफलयोः क्लीबं जाते तु वाच्यवत् । पत्री पत्ररथे श्येनेऽत्रिकाण्डे रथिके त्रिषु ॥ पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावचिह्नभेदयोः । स्याद्दर्शप्रतिपत्सन्धौ विषुवत्प्रभृतिष्वपि ॥ पक्ष्मसूत्रांशमुद्रादिकिञ्जल्कनेत्ररोमसु । पाठीनः पाठके मीनभेदे च गुग्गुलुद्रुमे ॥ Śabdaratnāvalī 7.20.57
- शब्दरत्नावली वीर्यप्रायस्तुल्ये च बाहुल्ये मृत्यावनशनेऽपि च । प्रियो वृद्धौषधे पुंसि हृदये स्यादभिधेयवत् ॥ पीयुर्यूके रवौ काले पुंसि क्लीबं रतस्वने । पुण्यं धर्मे च सुकृते क्लीबं स्याच्छोभने त्रिषु ॥ पुष्यो मासे ऋक्षभेदे तथा कलियुगे पुमान् । पूज्यस्तु श्वशुरे पुंसि वन्द्ये च भवति त्रिषु ॥ वन्ध्या स्यादप्रजस्त्रीषु पुमानफलभूरुहे । वर्या पतिम्बरायां स्त्री श्रेष्ठे त्रिषु पुमान् स्मरे ॥ बल्यं प्रधानधातौ स्यात्क्लीबं बलकरेऽन्यवत् । वीर्यं तेजसि सामर्थ्ये दीप्तौ शुक्रप्रभावयोः ॥ Śabdaratnāvalī 7.26.19
- शब्दरत्नावली रेतस्रन्घ्रं छिद्रे भूषणे च रुरुर्ना मृगदैत्ययोः । रेत्रसूतकपीयूषपटवासेषु तेजसि ॥ Śabdaratnāvalī 7.27.40
- शब्दरत्नावली प्रभावदीदिविः पुंसि गीर्वाणगुरौ भक्ते समुच्छिते । निष्पावः सूर्पपवने राजमाषे कडङ्गरे ॥ निह्नवः स्यादविश्वासे तथा गुप्तावलापयोः । पल्लवो विटपे षिङ्गे विस्तारे वलयेऽपि च ॥ शृङ्गोरेऽलक्तरागे च चापलेऽपि च न स्त्रियाम् । प्रभवो जन्महेतौ स्यात्स्थले चाद्योपलब्धये ॥ प्रसेवः स्यूतवीणाङ्गे प्रभावः शक्तितेजसोः ॥ Śabdaratnāvalī 7.29.30
- शब्दरत्नावली महस्महः क्लीबमुत्सवे स्यात्तेजस्यपि नपुंसकम् । मानसं चित्तसरसो रभसं हर्षवेगयोः ॥ Śabdaratnāvalī 7.32.28
- शब्दरत्नावली वर्चस्वर्चस्तेजोरूपविष्ठास्वपि क्लीबं बुधे पुमान् । बर्हिः पुमान् वीतिहोत्रे भवेद्दर्भेऽपि न स्त्रियाम् । वाहसोऽजगरे नीरनिर्याणे सुनिषण्णके ॥ Śabdaratnāvalī 7.32.32
- शब्दरत्नावली महमही भूम्यां नदीभेदे मह उत्सवतेजसोः । मोहो मूर्छाविद्ययोर्ना दुःखमात्रे क्वचिद्भवेत् ॥ Śabdaratnāvalī 7.33.9
- शब्दरत्नाकर वर्चस्हरे राहौ च वर्चोऽर्चीरूपविड्भाःसु तेजसि । वरो नावृतिजामात्रोर्देवताभ्यः समीप्सिते ॥ २००० ॥ Śabdaratnākara 4.1.2000
- शब्दार्णव स्निग्धस्निग्धं तु मसृणे सान्द्रे रम्ये क्लीबे च तेजसि ॥ २११ ॥ Śabdārṇava 211
- तन्त्राभिधान जलम्बोदरी स्मृतिः शाखा सुप्रभा कर्त्तृका धरा । दीर्घबाहू रुचिर्हंसो नन्दी तेजः सुराधिपः ॥ ८० ॥ Tantrābhidhāna 2.25.80
- तन्त्राभिधान लगो गणेशव्यापकार्थो लकारस्तेज और्मतः । दुःखहरार्थको बिन्दुर्गणेशं तेन पूजयेत् ॥ग्लौं॥ Tantrābhidhāna 11.18
- वैजयन्ती महस्भाग्यं कर्मण्यन्यजन्मकर्मण्यपि शुभाशुभे । भर्गसी रेतआलोकौ महसी तेजउत्सवौ ॥ २४ ॥ Vaijayantī 6.3.24