कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अग्नि

agniपुं · masc.

In 27 kośas: 39 synonym verses, 6 as a nānārtha head word, 177 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.169 · p. 11
तिर्यग्दिशां तु पतय इन्द्राग्नियमर्नैरृताः ।वरुणो वायुकुबेरावीशानश्च यथाक्रमम् ॥ १६९ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 म (wrong syllable); pāda 3, syllable 6 कु (wrong syllable)
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य तेजस्कायः Abhidhānacintāmaṇi 4.3.1 · p. 43
वह्निर्बृहद्भानुहिरण्यरेतसौ धनंजयो हव्यहविर्हुताशनः ।कृपीटयोनिर्दमुना विरोचनाशुशुक्षणी छागरथस्तनूनपात् ॥ १०९७ ॥कृशानुवैश्वानरवीतिहोत्रा वृषाकपिः पावकचित्रभानू ।अप्पित्तधूमध्वजकृष्णवर्त्मार्चिष्मच्छमीगर्भतमोघ्नशुक्राः ॥ १०९८ ॥शोचिष्केशः शुचिहुतवहोषर्बुधाः सप्तमन्त्र-ज्वालाजिह्वो ज्वलनशिखिनौ जागृविर्जातवेदाः ।बर्हिःशुष्मानिलसखवसू रोहिताश्वाश्रयाशौबर्हिर्ज्योतिर्दहनबहुलौ हव्यवाहोऽनलोऽग्निः ॥ १०९९ ॥विभावसुः सप्तोदर्चिः स्वाहाग्नेयी प्रियास्य च ।
upajati 12
वह्निपुंबृहद्भानुपुंहिरण्यरेतस्पुंधनंजयपुंहव्यहविस्पुंहुताशनपुंकृपीटयोनिपुंदमुनस्पुंविरोचनपुंआशुशुक्षणिपुंछागरथपुंतनूनपात्पुंकृशानुपुंवैश्वानरपुंवीतिहोत्रपुंवृषाकपिपुंपावकपुंचित्रभानुपुंअप्पित्तपुंधूमध्वजपुंकृष्णवर्त्मन्पुंअर्चिष्मत्पुंशमीगर्भपुंतमोघ्नपुंशुक्रपुंशोचिष्केसपुंशुचिपुंहुतवहपुंउषर्बुधपुंसप्तमन्त्रज्वालाजिह्वपुंज्वलनपुंशिखिन्पुंजागृविपुंजातवेदस्पुंबर्हिःशुष्मन्पुंअनिलसखपुंवसुपुंरोहिताश्वपुंआश्रयाशपुंबर्हिस्पुंज्योतिस्क्लीदहनपुंबहुलपुंहव्यवाहपुंअनलपुंअग्निपुंविभावसुपुंसप्तोदर्चिस्पुंस्वाहास्त्रीआग्नेयीस्त्री
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.56
अग्निर्वैश्वानरो वह्निर्वीतिहोत्रो धनञ्जयः ।कृपीटयोनिर्ज्वलनो जातवेदास्तनूनपात् ॥ ५३ ॥बर्हिः शुष्मा कृष्णवर्त्मा शोचिष्केश उषर्बुधः ।आश्रयाशो बृहद्भानुः कृशानुः पावकोऽनलः ॥ ५४ ॥रोहिताश्वो वायुसखः शिखावानाशुशुक्षणिः ।हिरण्यरेता हुतभुग्दहनो हव्यवाहनः ॥ ५५ ॥सप्तार्चिर्दमुनाः शुक्रश्चित्रभानुर्विभावसुः ।शुचिरप्पित्तमौर्वस्तु वाडवो वडवानलः ॥ ५६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वा (wrong syllable)
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.62 · p. 8
सप्तार्चिर्बहुलः शिखी हुतवहो वैश्वानरोऽग्निर्वसु-र्वह्निर्वायुसखः सितेतरगतिः स्वाहाप्रियः पावकः ।अर्चिष्मान् ज्वलनः कृशानुरनलो धूमध्वजो हव्यवाट्,बर्हिर्ज्योतिरुषर्बुधश्च दहनः स्याच्चित्रभानुः शुचिः ॥ ६२ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर प्रथमोपदेशः Bālaprabodhikā 1.20 · p. 67
अग्निर्वैश्वानरो वह्निर्वीतिहोत्रो धनञ्जयः ।सर्वभुग्जलजो ज्वाली वाशिर्वातसखः शुचिः ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
गणितनाममाला Gaṇitanāmamālā · हरदत्त एकाद्यङ्कानां सञ्ज्ञा Gaṇitanāmamālā 3.21 · p. 2
कृशानुगुणरामाग्निपावकानलवह्नयः ।हुताशनास्त्रयास्तिस्रः प्रोक्ताश्च शिखिना बुधैः ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.47 · p. 12
अग्निर्वैश्वानरो वह्निर्वीतिहोत्रो धनञ्जयः ।रोहिताश्वो बृहद्भानुर्दहनो हव्यवाहनः ॥ ४७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.353 · p. 172
अग्निव्याघ्राभिधश्चापि चित्रकः शंवरः कुटः ।कृष्णे व्यालः कालमूलो मार्जारोप्यतिदीप्यकः ॥ ३५३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.495 · p. 187
त्रिपञ्चा एवमेकद्वाः षट्सप्ता अपि पञ्चषाः ।भूचन्द्रभुजनेत्राग्निगुणवेदयुगा अपि ॥ ४९५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव भूस्थदेवप्रकाण्डः Kalpadrukośa 2.2.1 · p. 376
धनंजयोऽग्निर्ज्वलनो वीतिहोत्रोऽञ्चतिः शिवः ।जुहुराणः शुष्म घासिर्हव्यवाड्दमुना वसुः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.31 · p. 409
अहिर्बुध्न्योऽथ पूषाऽपि कुबेरोऽथ सदागतिः ।दस्रादथ यमोऽग्निश्च विधाता त्वष्टमस्ततः ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.155 · p. 434
निर्वाणमपि कैवल्यमक्षरं च महासुखम् ।अथ स्युः पञ्च भूतानि व्योमेराग्न्यम्बुभूमयः ॥ १५५ ॥
अनुष्टुप्
genderपुंmasc.doubtful
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.50 · p. 466
शोणमासद्रुमादीनां धान्याग्न्यध्वरदेहिनाम् ।महतां सभिदां नाम मानहायनयोरपि ॥ ५० ॥
अनुष्टुप्
genderपुंmasc.doubtful
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.123 · p. 20
वह्निर्वैश्वानरो* ज्वलन-हुतभुजौ वीतिहोत्रोऽप्सुयोनिःशोचिष्केशः शिखावान्पवि-पचन-शुचि-ज्वाल-जिह्वानलाः स्युः ।सप्तार्च्चिः शुन्ध्यु-शुक्राद्यनि-वनि-दहनोदर्चिरर्चिष्मदग्नि-स्वाहानाथाश्रयाशानिलसख-शिखिनश्चित्रभानुः कृशानुः ॥ १२३ ॥
स्रग्धराmetre not read in every linenearly स्रग्धरा
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंलिङ्गाधिकारः Koṣakalpataru 4.1.3 · p. 93
बाधते प्रतिपदोक्तविधानंलिङ्गसंग्रहविधिं हि समस्तम् ।पुंसि नाम सभिदां निधि-नाक-भूभृदम्बुधि-मुखाग्नि-शराणाम् ॥ ३ ॥
स्वागता
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंलिङ्गाधिकारः Koṣakalpataru 4.1.18 · p. 96
फेनो जनोऽप्यभिजनो ध्वनिरर्दनिश्चस्थेमोष्म-पाप्म-परिघातन-वह्नयोऽश्मा ।आत्माग्निरह्नचरमास्त्वपरादहीनाःप्लीहा च यक्ष्मसहितोऽपि च देवनोऽक्षैः ॥ १८ ॥
वसन्ततिलका
genderपुंmasc.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.135 · p. 74
अभिमुखी बहुपत्रो भल्ली सूर्याग्निसंज्ञकः ।अरिष्टे स्यात्कृष्णबीजो रक्षाबीजोऽर्थसाधनः ॥ १३५ ॥
metre not recognisednearly अनुष्टुप्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज स्वर्गादिनामधेयप्रकरणम् Nāmamālikā 1.17 · p. 3
अग्नौ पुरोहितः स्वैरी स्वाहानाथो मखी शिखी ।हरिश्च शमने तु स्युरद्रिजक्षुद्रमुद्रकाः ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 64 · p. 33
तत्सखाऽग्निः शिखी वह्निः पावकश्चाशुशुक्षणिः ।हिरण्यरेता सप्तार्चिर्जातवेदास्तनूनपात् ॥ ६४ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.3 · p. 52
अग्निश्छागरथो वह्निः कृशानुः पावकः शिखी ।चित्रभानुश्च दमुना धनंजयहुताशनौ ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंलिङ्गसंग्रहः Paramānandīyanāmamālā 6.1.8 · p. 212
वर्षश्वेतप्लवाः शोणः पङ्कमन्थजलाशयाः ।मुरजात्मासिमासाद्रिबाणध्वानाध्वराग्नयः ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.doubtful
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंलिङ्गसंग्रहः Paramānandīyanāmamālā 6.1.28 · p. 214
वह्न्यग्निदीदिविग्रन्थिकृमयो वमतिस्तथा ।गिरिजायू दृतिः शिश्रुरर्दनिः कलिरञ्जलिः ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.82 · p. 12
जलगो जलकोऽग्निश्च बर्हिष्केशस्तनूनपात् ।शुष्मा कृष्णः कृष्णवर्त्मा रेटिकेतुः शिखी तथा ॥ ८२ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त तेजोभानुः Pañcatattvaprakāśa 4.310 · p. 22
द्विजराजः पक्षजन्मा कुह्वन्तो? रोहिणीधवः ।वह्निरग्निर्वायुसखः कृष्णवर्त्मा तनूनपात् ॥ ३१० ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 र्वा (wrong syllable)
genderपुंmasc.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण स्वर्गादिलोकपालाधिकारः प्रथमस्सर्गः Śabdacandrikā 1.6 · p. 34
अनिर्वायुखः श्रीमान् प्रभावान्मेषवाहनः ।हिरण्यरेताः सर्वाशः कपर्दी तिलकः कविः ॥ ६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.doubtful
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.166 · p. 18
अग्निर्वह्निर्बृहद्भानुर्दहनो ज्वलनोऽनलः ।वैश्वानरः कृष्णवर्त्मा चित्रभानुर्धनंजयः ॥ १६६ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.71 · p. 11
असुराश्चैव नागाश्च विद्युतोऽनु सुपर्णकाः ।अग्नयो वायवश्चैव स्तनिता श्वोदधीश्वराः ॥ ७१ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.178 · p. 25
इन्द्रश्चाग्निर्यमश्चैव नैर्ऋतो वरुणस्तथा ।वायुस्तया कुबेरः स्याद् ईशानश्च यथाक्रमम् ॥ १७८ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि तेजस्कायनामानि Suśīlanāmamālā 5.3.1917 · p. 315
अग्निर्वह्निः स्वनिः शिखी शुक्रः शुष्मा शुचिर्वसुः ।आशयाशः शमीगर्भः शोचिष्केशस्तथाऽऽशिरः ॥ १९१७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 शि (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.128 · p. 9
इत्येवमादिगन्धर्वो गान्धर्वोऽपि निगद्यते ।अग्निर्वायुरथो वह्निः कृष्णवर्त्मा विभावसुः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.171 · p. 12
दिग्भवं सर्वमेव स्यात् दिथ्यं त्रिषु निगद्यते ।महेन्द्रोऽग्निर्धर्मराजो निर्ऋतिर्वरुणोऽनिलः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.111 · p. 227
आवालोऽस्त्री, उत्स उत्सुः स्रवः प्रस्रवणं झरः ।झरी झरा निर्झरश्च, वह्नावग्निस्तु पुं-स्त्रियोः ॥ १११ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.96 · p. 13
अग्निर्हव्यवहः कृशानुरनलो वैश्वानरः पावकःशोचिष्केश उषर्बुधो हुतवहः स्वाहासहायः शुचिः ।सप्तार्चिर्दहनः समीरणसखो वह्निस्त्रिधामा शिखीशुक्रः शुष्मकृपीडयोनिहुतभुग्बर्हिर्बृहद्भानवः ॥ ९६ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मातृकानिघण्टु Tantrābhidhāna 5.55 · p. 40
वातो मरुच्चाग्निवह्निधरा क्ष्मा जल-वारिणी ।विभुः खञ्च चरः शुचिर्भूर्वनं स्वञ्च शक्तियुक् ॥ ५५ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 7 शु (wrong syllable)
genderपुंmasc.
झिण्टीश ऊर्ध्वदन्ताख्यो ह्यग्निर्वाग्भव एव च ।भगश्च दक्षदन्तश्च ज्ञान-शक्ती च जङ्घकः ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
माधवः सूक्ष्मविद्याऽग्निर्द्विबिन्दुर्दक्षलोचनः ।गन्धर्वः पाञ्चजन्यस्तु इकारस्तु मखाङ्कुरः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात क्ष Tantrābhidhāna 8.52.57 · p. 60
अग्निर्वह्निः शुचिस्तेजः प्रभा दावः शिखी द्युतिः ।दाहो ग्रासश्च संज्ञोक्ता वह्न्यर्णानां क्रमादियम् ॥ ५७ ॥
अनुष्टुप्
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात अग्निवर्णाः Tantrābhidhāna 9.2.1 · p. 60
अग्निः-इ, वह्निः-ई, शुचिः-ऐ, तेजः-ख, प्रभा-छ, दावः-ठ, शिखी-थ, द्युतिः-फ, दाहः-र, ग्रासः-क्ष
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश लोकपालाध्यायः Vaijayantī 1.2.15 · p. 10
दहनो ज्वलनः शुष्मा रोहिताश्व उषर्बुधः ।शोचिष्केशस्त्रिधामाग्निरुदर्चिः पावकोऽनलः ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.6 · p. 247
वह्निर्हुताशे नरि चित्रके चभल्लातके वह्निसमोऽपि चाग्निः ।पृश्निर्मयूखे मिथुने जनन्यांविष्णोः स्त्रियामल्पतनौ तु भेद्ये ॥ ६ ॥
इन्द्रवज्रा
meanings
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.27 · p. 247
अगस्ति वृक्षे च
उपजातिःmetre not read in every line
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुल्लिँङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.2.2 · p. 21
गुग्गुलूलूककुटजेष्विन्द्रस्याग्नेस्तु चित्रके ।भल्लातकेऽप्यथार्कस्य भल्लातक्यर्कपर्णयोः ॥ २ ॥
अनुष्टुप्
doubtful
शिवकोष Śivakoṣa · शिवदत्तमिश्र नान्ताः Śivakoṣa 16.243 · p. 22
अग्निर्भल्लातके चित्रे घनो मुस्ते घनं त्वचि ।ज्योत्स्नी पटोलिकायां स्याज्ज्योत्स्ना श्यामलघोषयोः ॥ २४३ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नान्ताः Śabdaratnāvalī 7.20.2 · p. 234
अग्निश्चिताख्यकोषध्यां वीतिहोत्रे भवेत्पुमान् ।अन्नं भक्ते च भुक्ते स्यादिनः सूर्ये नृपे प्रिये ।उन्नञ्च सुरते क्लिन्ने कृत्स्नं सर्वाम्बुकुक्षिषु ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पर्यायसंयोगन्यायप्रदर्शनाध्यायः Vaijayantī 8.6.2 · p. 281
गुग्गुलूलूककुटजेष्विन्द्रस्याग्नेश्च चित्रके ।भल्लातकेऽप्यथार्कस्य भल्लातक्यर्कपर्णयोः ॥ २ ॥
अनुष्टुप्
doubtful

अग्नि as a meaning in nānārtha verses