कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

धनंजय

dhanaṃjayaपुं · masc.

In 9 kośas: 15 synonym verses, 1 as a nānārtha head word, 3 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.481 · p. 30
अर्जुनः फाल्गुनः पार्थः सव्यसाची धनंजयः ॥ ७०८ ॥राधावेधी किरिट्यैन्द्रिर्जिष्णुः श्वेतहयो नरः ।बृहन्नलो गुडाकेशः सुभद्रेशः कपिध्वजः ॥ ७०९ ॥बीभत्सः कर्णजित्तस्य गाण्डीवं गाण्डिवं धनुः ।
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य तेजस्कायः Abhidhānacintāmaṇi 4.3.1 · p. 43
वह्निर्बृहद्भानुहिरण्यरेतसौ धनंजयो हव्यहविर्हुताशनः ।कृपीटयोनिर्दमुना विरोचनाशुशुक्षणी छागरथस्तनूनपात् ॥ १०९७ ॥कृशानुवैश्वानरवीतिहोत्रा वृषाकपिः पावकचित्रभानू ।अप्पित्तधूमध्वजकृष्णवर्त्मार्चिष्मच्छमीगर्भतमोघ्नशुक्राः ॥ १०९८ ॥शोचिष्केशः शुचिहुतवहोषर्बुधाः सप्तमन्त्र-ज्वालाजिह्वो ज्वलनशिखिनौ जागृविर्जातवेदाः ।बर्हिःशुष्मानिलसखवसू रोहिताश्वाश्रयाशौबर्हिर्ज्योतिर्दहनबहुलौ हव्यवाहोऽनलोऽग्निः ॥ १०९९ ॥विभावसुः सप्तोदर्चिः स्वाहाग्नेयी प्रियास्य च ।
upajati 12
वह्निपुंबृहद्भानुपुंहिरण्यरेतस्पुंधनंजयपुंहव्यहविस्पुंहुताशनपुंकृपीटयोनिपुंदमुनस्पुंविरोचनपुंआशुशुक्षणिपुंछागरथपुंतनूनपात्पुंकृशानुपुंवैश्वानरपुंवीतिहोत्रपुंवृषाकपिपुंपावकपुंचित्रभानुपुंअप्पित्तपुंधूमध्वजपुंकृष्णवर्त्मन्पुंअर्चिष्मत्पुंशमीगर्भपुंतमोघ्नपुंशुक्रपुंशोचिष्केसपुंशुचिपुंहुतवहपुंउषर्बुधपुंसप्तमन्त्रज्वालाजिह्वपुंज्वलनपुंशिखिन्पुंजागृविपुंजातवेदस्पुंबर्हिःशुष्मन्पुंअनिलसखपुंवसुपुंरोहिताश्वपुंआश्रयाशपुंबर्हिस्पुंज्योतिस्क्लीदहनपुंबहुलपुंहव्यवाहपुंअनलपुंअग्निपुंविभावसुपुंसप्तोदर्चिस्पुंस्वाहास्त्रीआग्नेयीस्त्री
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव भूस्थदेवप्रकाण्डः Kalpadrukośa 2.2.1 · p. 376
धनंजयोऽग्निर्ज्वलनो वीतिहोत्रोऽञ्चतिः शिवः ।जुहुराणः शुष्म घासिर्हव्यवाड्दमुना वसुः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.126 · p. 20
इषिरस्तिथशुष्णौ च राजन्यो जुहुराणवत् ।वाशिर्दक्षिणपूर्वेशः शमीगर्भो धनंजयः ॥ १२६ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.15 · p. 246
बकारिर्मागधारिश्च गणकृत्कीचकान्तकः ।किर्मीरारिश्चाथ पार्थः सव्यसाची धनंजयः ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.3 · p. 52
अग्निश्छागरथो वह्निः कृशानुः पावकः शिखी ।चित्रभानुश्च दमुना धनंजयहुताशनौ ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.338 · p. 143
अर्जुनो नरपार्थौ तु गुडाकेशधनंजयौ ।फाल्गुनः सव्यसाची च राधावेधी बृहन्नटः ॥ ३३८ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.87 · p. 12
वेदगर्भः स्वर्णरेता वण्टकः सूक्ष्मभेदकः ।कोसलः सङ्घलः सम्राट् चित्रभानुर्धनंजयः ॥ ८७ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.166 · p. 18
अग्निर्वह्निर्बृहद्भानुर्दहनो ज्वलनोऽनलः ।वैश्वानरः कृष्णवर्त्मा चित्रभानुर्धनंजयः ॥ १६६ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति राजवर्गः Śāradīyākhyanāmamālā 3.2.42 · p. 38
धनंजयोऽर्जुनः पार्थ इन्द्रपुत्रः कपिध्वजः ।श्वेताश्वः फाल्गुनो जिष्णुः सव्यसाची च कर्णजित् ॥ ४२ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1151 · p. 179
अर्जुनः कर्णजित् पार्थः राधावेधी धनञ्जयः ।सव्यसाची सुभद्रेशः किरीटी च कपिध्वजः ॥ ११५१ ॥
अनुष्टुप्
genderपुंmasc.doubtful
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.97 · p. 13
ज्वलनोदर्चिरर्चिष्मदाश्रयाशधनंजयाः ।हिरण्यरेतःस्रुग्जिह्वदमुनश्चित्रभानवः ॥ ९७ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ऋष्यध्यायः Śabdaratnākara 1.5.205 · p. 27
अक्षीलशण्डिलधनंजयवामदेव-कुत्सर्ष्टिषेणकुशिकच्यवनाप्नवानाः ।शक्त्यष्टकौ हरितमुद्गलपूतिमाष-शालावता अतिथिदेवलसोमवाहाः ॥ २०५ ॥
वसन्ततिलका
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.460 · p. 61
वीरद्रुश्च सुगन्धिः स्यादर्जुनश्च (नाख्यो ?) धनंजयः ।अश्वकर्णो लतावृक्षः कुशिको दीर्घवृन्तकः ॥ ४६० ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तशेषाध्यायः Śabdaratnākara 3.8.1838 · p. 223
अर्जुनः फल्गुनो जिष्णुः सव्यसाची धनंजयः ।कृष्णः किरीटी बीभत्सुः कर्णशत्रुः कपिध्वजः ॥ १८३८ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2211 · p. 267
दिवाकीर्तिस्तु चण्डाले नापितेऽथ धनंजयः ।फल्गुनेऽग्नौ पशुपतिः शंकरे जातवेदसि ॥ २२११ ॥
अनुष्टुप्

धनंजय as a meaning in nānārtha verses

  • धरणिकोश कृष्णकृष्णाः स्युः शस्त्रकव्यासविष्णुनीलधनंजयाः । कृष्णं च [म]रिचे कृष्णां पिप्पलीं द्रौपदीं विदुः ॥ Dharaṇikośa 14.3.8
  • कोषकल्पतरु श्वेतवाहनश्वेतवाहनः शशधरे धनंजये हरिवाहनः [24b] सुरपतौ विवस्वति । दहने च केतुषु च धूमकेतनः शिवकीर्तनो हरिगणे मुरद्विषि ॥ ५९ ॥ Koṣakalpataru 6.21.59
  • कोषकल्पतरु विजयविजयस्तु धनंजये जये गिरिजायां च तिथौ स्त्रियां भवेत् । विनयः प्रणतौ च शिक्षणे त्विह योषिद्विषयस्तु गोचरे ॥ ५५ ॥ Koṣakalpataru 6.26.55