कपोणि
kapoṇiपुं · masc.In 7 kośas: 7 synonym verses.
दाढिका द्राढिकाऽपि स्यात्कपोणिस्तु कफोणिवत् ॥ ४६ ॥
अनुष्टुप्
genderपुंmasc.
कपोणिः कपणिः पुंसि कफणी कफणिः स्त्रियौ ।कफोणिश्च कफाणिश्च द्वावेतौ पुंस्यपि स्त्रियाम् ॥ १७० ॥
अनुष्टुप्
genderपुंmasc.
कफोणिश्च कपोणिश्च कफणिर्युजि कूर्परः ।अरत्निपृष्ठं बाहूय(?)बाहुसंधिररत्निकः ॥ ७८ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
बाहुमध्यग्रन्थिदेशे कपोणिः कूर्परोऽपि च ।तद्ग्रन्थ्युपरिभागे तु प्रगण्डः परिकीर्तितः ॥ १४६ ॥
अनुष्टुप्
genderस्त्रीfem.
भुजामध्यं च बाहूयबाहुसन्धिश्च कूर्परः ।कपोणिः रत्निपृष्ठकं चेति नामानि मन्यते ॥ ९४९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 ष्ठ (wrong syllable)
genderपुंmasc.
द्वयोर्बाहुभुजौ दोषा प्रवेष्टो दोश्च वाहवत् ।द्वयोः कफोणिः कफणिः कपोणिः कूर्परोऽपि च ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
भुजामध्ये कपोणिः स्यात् कफोणी च कफोणियुक् ।कफणिः कफणी तद्वत्कुर्परः कूर्परोऽपि च ॥ १६८ ॥
अनुष्टुप्
genderपुंmasc.