बाहु
bāhuपुं · masc.In 21 kośas: 25 synonym verses, 3 as a nānārtha head word, 22 as a meaning of another word.
भुजो बाहुः प्रवेष्टो दोर्वाहाथ भुजकोटरः ।दोर्मूलं खण्डिकः कक्षा पार्श्वं स्यादेतयोरधः ॥ ५८९ ॥
अनुष्टुप्
genderपुंmasc.
भुजबाहू प्रवेष्टो दोः स्यात्कफोणिस्तु कूर्परः ।
अनुष्टुप्
genderपुंmasc.
दोः प्रवेष्टो भुजो बाहुर्भुजा च स्मर्यते बुधैः ।गण्डो गल्लः कपोलश्च हनुस्तुल्यार्थवाचकाः ॥ ५२२ ॥
अनुष्टुप्
genderपुंmasc.
बाहुर्बाहश्च बाहा च दोर्दोषापि निगद्यते ।कफोणिश्च कफणिः स्यात् कफोनी कफनी अपि ॥ १८० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 फ (wrong syllable)
genderपुंmasc.
द्विनेत्रलोचनः पक्षादस्राक्षियमवाहवः ।यमलाश्विभुजापाणिकरयुग्मादयो मताः ॥ २० ॥
अनुष्टुप्
genderपुंmasc.doubtful
दोरस्त्रियां स्त्रियां दोषा भुजापि स्याद्भुजः पुमान् ।प्रवेष्टो नाकुलिर्बाहुर्बाहा बाहू स्त्रियां पुमान् ॥ १६९ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
स्कन्धो भुजशिरोंऽसोऽस्त्री संधी तस्यैव जत्रुणी ।वाहो बाहु - भुजे द्वंद्वे दोषा स्त्री दोस्तु तत्स्त्रियाम् ॥ ७६ ॥
अनुष्टुप्
genderपुंmasc.
गण्डूषो रभसो भाश्च वेतसो लालसो मसिः ।दोष्णि बाहुश्च बाहोऽहिर्हीहाद्याः प्रत्ययान्तरैः ॥ ३१ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
कण्ठस्तनबाहूनां सञ्ज्ञा पुंसि स्त्रियां भवेद्ग्रीवा ।पृष्ठललाटांशोदरजत्रूणि नपुंसकानि स्युः ॥ १५ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कण्ठसञ्ज्ञाः स्तनसञ्ज्ञाः बाहुसञ्ज्ञाश्च पुंसि भवन्ति । अयं कण्ठः । गल इत्यादिः । स्तनसञ्ज्ञाश्च । अयं स्तनः कुचः पयोधर इत्यादिः । बाहुसञ्ज्ञाश्च भुजस्तरणः धरणः चालन इत्यादिः । कण्ठसञ्ज्ञत्वाद्ग्रीवाशब्दस्यापि पुंसि प्रयोगः प्राप्नोतीत्याह । स्त्रियां भवेद्ग्रीवा । ग्रीवाशब्दस्य स्त्रीलिङ्गता भवति । इयं ग्रीवा शिरोधरा कन्धरा इत्येवमादयः । पृष्ठादयः शब्दा नपुंसके स्युः । तद्यथा । इदं पृष्ठं पार्श्वयोर्यष्टिः । इदं ललाटं भ्रुवोरुपरिस्थानम् । इदमंसः[श] स्तनयोरुपरिस्थानम् । इदमुदरं जठरः । इदं जत्रु स्कन्धसम्बन्धि । इत्येवमादयः ।ऊर्म्मिध्वन्यञ्जलयः पुंस्योष्ठकपोलगुल्फसञ्ज्ञाश्च ।घञ्चैरच्च ऋदोरप्च स्याद्बहुलमन्धकारश्च ॥ १६ ॥
metre not recognised
genderपुंmasc.
रुशब्दान्तास्तुशब्दान्तास्तु कशेरुदारुजतुवस्तुमस्तुभिस्त्यक्ता रहिताः । सग्रन्थिप्रस्था पुंसि भवेयुरित्यर्थः । यथाऽयं त्सरुः खड्गमुष्टिः । भरुर्भर्त्ता । मरुर्निर्जलो देशः । चरुर्मन्त्रतप्तपाकः । शत्रुः रिपुः । तरुर्वृक्षः । मरुर्मृगः । मेरुः पर्वत इत्यादिः । अयं केतुरुत्पातः । सेतुः बन्धः । हेतुः कारणम् । तन्तुः षट्प्रकृतिः । धातुः श्लेष्मादिः । कशेरुप्रभृतयो नपुंसके भवन्ति । इदं कशेरु भूसम्भवम् । इदं दारु काष्ठम् । जतु लाक्षा । वस्तु वाक्यप्रबन्धहेतुः । मस्तु दधिसम्भवम् । ग्रन्थिप्रस्थौ च पुंसि भवतः । अयं ग्रन्थिः गाण्ठिरिति प्रसिद्धः । प्रस्थः परिमाणम् । इसन्तानामुसन्तानां च घ्यञन्तानां च नपुंसकता स्यात् । इदं सर्पिः घृतम् । हविर्देवान्नम् । बर्हिः पवित्रमित्यादि । इदं वपुः शरीरम् । आयुः जीवितपरिमाणम् । धनुः शस्त्रमित्यादिः । ष्य[घ्य]ञ्ग्रहणेन "वर्णदृढादिभ्यः ष्य[घ्य]ञि"ति गृह्यते । न ब्राह्मणादिभ्यः । सौकुमार्य्यं शौक्ल्यं[क्यं] कार्ष्ण्यं[र्त्स्न्यं] दाक्ष्यमित्यादि ।पुंसि स्त्रियां च पाटलिगोमुष्ट्यशनिबाहुसिन्धुमणयः ।आशीर्धूःपूक्षुत्तृ[तृ]ड्गिरः स्त्रियां मुद्रुषौ च ॥ ४६ ॥
metre not recognised
त्सरुपुंभरुपुंमरुपुंचरुपुंशत्रुपुंतरुपुंमेरुपुंकेतुपुंसेतुपुंहेतुपुंतन्तुपुंधातुपुंकशेरुक्लीदारुक्लीजतुक्लीवस्तुक्लीमस्तुक्लीग्रन्थिपुंप्रस्थपुंसर्पिस्क्लीहविस्क्लीबर्हिस्क्लीवपुस्क्लीआयुस्क्लीधनुस्क्लीसौकुमार्यक्लीशौक्ल्यक्लीकार्ष्ण्यक्लीदाक्ष्यक्लीपाटलिपुंस्त्रीगोपुंस्त्रीमुष्टिपुंस्त्रीअशनिपुंस्त्रीबाहुपुंस्त्रीसिन्धुपुंस्त्रीमणिपुंस्त्रीआशिस्स्त्रीधुर्स्त्रीपुर्स्त्रीक्षुध्स्त्रीतृष्स्त्रीगिर्स्त्रीमुद्स्त्रीरुष्स्त्री
genderपुंस्त्रीm. f.
एते शब्दाः पुंसि स्त्रियां भवन्ति । अयं पाटलिः इयं पाटलिः वृक्षविशेषः । अयं गौः इयं गौः । अयं मुष्टिरियं मुष्टिः । अयमशनिरियमशनिः । अयं बाहुरियं बाहुः । अयं सिन्धुरियं सिन्धुः । अयं मणिरियं मणिः । एते शब्दाः स्त्रियां भवन्ति । इयमाशी इष्टाशं[सं]सा । इयं धूः भारः कीलश्च । इयं पूः पुरी । इयं क्षुद्बुभुक्षा । इयं तृट् पिपासा । इयं गीर्वाणी । इयं मुत् हर्षः । इयं रुट् रोषः ।
अनुष्टुप्metre not read in every line
genderपुंस्त्रीm. f.
दोर्दोषा च भुजो बाहुः पाणिर्हस्तः करस्तथा ।प्राहुर्बाहुशिरोऽंसश्च हस्तशाखा कराङ्गुलिः ॥ १०१ ॥
अनुष्टुप्
genderपुंmasc.
बाहुर्बाहाथ दोर्मूलं भुजकोटर एव सः ।कक्षा स्यात्खण्डिका चाथ पार्श्वं स्यादंसयोरधः ॥ २५२ ॥
अनुष्टुप्
genderपुंmasc.
एर्वारुः काकुकिष्कू च गवेधुर्बाहुना सह ।राभागौरेवमाद्याः स्युः शब्दाः पुंसि स्त्रिया(8)मपि ॥ ११७ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
हस्तः करः शयः पाणिर्बाहुः पञ्चशिफो भुजः ।अङ्गुष्ठोऽङ्गुलिभूपालः तर्जन्याद्या प्रदेशिनी ॥ ९१ ॥
अनुष्टुप्
genderपुंmasc.
जिह्वा रसज्ञा रसना कण्ठो निगरणो गलः ।अंशः स्कन्धो भुजशिरो बाहुर्बाहा च दोर्भुजः ॥ ३४ ॥
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
द्वयोर्बाहुभुजौ दोषा प्रवेष्टो दोश्च वाहवत् ।द्वयोः कफोणिः कफणिः कपोणिः कूर्परोऽपि च ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
सन्धौ तु जत्रु षण्ढे स्यात् तकार-रेफयोगवत् ।प्रवेष्टो दोर्दोषा बाहुर्बाहा बाहो भुजो भुजा ॥ १६७ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable); pāda 3, syllable 5 र्दो (wrong syllable)
genderपुंmasc.
स्कन्धोंऽसोऽस्त्री तयोः सन्धिर्जत्रुणी दोर्नपुंसके ।भुजबाहू द्वयोर्मूले तयोः कक्षौ तयोरधः ॥ १०७० ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
जूटो वराटः कर्कन्धूः शाल्मलिर्बलिडाडिमौ ।मृत्युः कुम्भो भुजो बाहुर्ज्वालः कीलोऽशनिः फणः ॥ २३२६ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
भुजा बाहा च बाहौ स्यात्कुलिर्हस्तो भुजादलः ।कुचौ वक्षोरुहौ प्रोक्तौ हस्तपुच्छं तु कल्पुषम् ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
ऊर्म्मिर्गभस्तिरशनिवैपार्ष्णीषुधिराशयः ।वस्तिश्च किष्कुः कन्दुश्चरेणुतन्वीबाहवः ॥ १६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंस्त्रीm. f.
स्कन्धो दोः शिखरोंऽसोऽस्त्री बाहा बाहुभुजौ न षण् ।दोर्न स्त्री करपोणिर्ना हरणः करणः प्लवः ॥ ७१ ॥
अनुष्टुप्
genderपुंmasc.
अशिरस्कौ बाहुरुण्डाववलोर्णोऽस्फुटापि वाक् ।आशोचनी तु वह्नीन्दू आत्मयोनी स्मरानिलौ ॥ १६ ॥
अनुष्टुप्
meaningsअशिरस्क
बाहु as a meaning in nānārtha verses
- धरणिकोश भुजव्रजा गोष्ठाध्वसंघाता न्युब्जोऽधोमुखकुब्जयोः । भुजः पाणौ च बाहौ च गिरिजो व्याधिवृक्षयोः ॥ Dharaṇikośa 7.1.2
- कोषकल्पतरु वाहईहा द्वयोरुद्यमवाञ्छ[92b]योः स्या- त्स्कन्दे गुहो योषिति सिंहपुच्छ्याम् । दर्यां च वाहो मिथुने भुजायां ना मानबाह्वश्ववृषेषु दिष्टा ॥ ४३ ॥ Koṣakalpataru 6.32.43
- नानार्थार्णवसंक्षेप कीलकश्चिन्नद्यामिति प्राह कीलस्तु नरयोषितोः । ज्वालाशङ्कुकफोणीषु बाहौ पुंसि तु शङ्करे ॥ २१३ ॥ Nānārthārṇavasaṃkṣepa 2.5.213
- नानार्थार्णवसंक्षेप देष्णगुडूचीस्पृक्कयोर्देवी सुरे तु द्वे पुमान् पुनः । देष्णो बाहौ द्वयोस्तु स्याद् यजमानेऽथ स त्रिषु ॥ ६१७ ॥ Nānārthārṇavasaṃkṣepa 2.5.617
- नानार्थार्णवसंक्षेप भुजभूर्जसंज्ञद्रुमे नृस्त्री बाहौ भूमानगोचरे । पदार्थभेदे च भुरिक् पुनः स्त्री बाहुकन्दयोः ॥ ९११ ॥ Nānārthārṇavasaṃkṣepa 2.5.911
- नानार्थार्णवसंक्षेप शक्वरीनद्यां विद्युति काञ्च्यां च बाहौ छन्दोन्तरे तथा । षट्पञ्चाशत्स्वरे स्त्री तु शङ्खिनी स्थावरान्तरे ॥ १३३५ ॥ Nānārthārṇavasaṃkṣepa 2.5.1335
- नानार्थार्णवसंक्षेप शाखाआशुगत्यां द्वयोस्तु स्याच्छुनि शाखा पुनः स्त्रियाम् । तरोर्लतायां देहस्य पादे बाहौ तथाङ्गुलौ ॥ १३४९ ॥ Nānārthārṇavasaṃkṣepa 2.5.1349
- नानार्थार्णवसंक्षेप अभीशुअभीशुः प्रग्रहेऽश्वस्य बाहौ चाथाङ्गुलौ स्त्रियाम् । अविष्ठस्तु द्वयोरश्वे पुंल्लिङ्गस्त्वपहोतरि ॥ १५५ ॥ Nānārthārṇavasaṃkṣepa 4.155
- नानार्थार्णवसंक्षेप गभस्तिरश्मौ गभस्तिर्बाहौ तु ना गणेरुः पुनः स्त्रियाम् । वशायामपि वेश्यायां कर्णिकारे पुनः पुमान् ॥ ६६१ ॥ Nānārthārṇavasaṃkṣepa 4.661
- नानार्थार्णवसंक्षेप शकोटआरभ्य पञ्चमे भागे शकुटाथ शकोटवाक् । बाहौ ना भेद्यवच्छक्ते शताङ्गस्तु रथे पुमान् ॥ १७८५ ॥ Nānārthārṇavasaṃkṣepa 4.1785
- नानार्थार्णवसंक्षेप अशिरस्कअशिरस्कः कबन्धे ना बाहौ चामूर्ध्नि तु त्रिषु । अबलोर्णं तु शण्डे स्यात् ताम्बूलस्य विचर्विते ॥ ५४ ॥ Nānārthārṇavasaṃkṣepa 6.54
- नानार्थार्णवसंक्षेप करपल्लव[ आढकीसंज्ञधान्ये चाप्यथो ना करपल्लवः । बाहौ किसलयप्रख्यकरे त्वेष नृशण्डयोः ॥ ] Nānārthārṇavasaṃkṣepa 6.416
- नानार्थार्णवसंक्षेप करपल्लवपितृणामपि वह्नौ स्यादथ स्यात् करपल्लवः । बाहौ किसलयाकारपाणौ चाथ महेश्वरे ॥ ५ ॥ Nānārthārṇavasaṃkṣepa 7.5
- परमानन्दीयनाममाला भुजभुजो मूल्ये करे बाहौ भानुः सूर्यदिनांशुषु ॥ ३२६ ॥ Paramānandīyanāmamālā 5.20.326
- परमानन्दीयनाममाला शाखाशृङ्गी गिरौ पशौ शूरे शोषो यक्ष्मणि शोषणे । शाखा बाहौ द्रुमाङ्गे च वेदाङ्गे तालभिद्यपि ॥ ३५८ ॥ Paramānandīyanāmamālā 5.25.358
- शब्दरत्नावली शाखाशङ्खोऽस्त्री कम्बुके पुंसि भालास्थिनिधिभिन्नखे । शाखा द्रुमाङ्गे वाहौ च पक्षिभिद्वेदभागयोः ॥ Śabdaratnāvalī 7.2.6
- शब्दरत्नावली भुजभुजं द्वयोः करे वाहौ प्रजा सन्ततिलोकयोः । मर्ज्जः स्त्रियान्तु श्रुद्धौ ना रजके पीठमर्दके ॥ Śabdaratnāvalī 7.8.13
- तन्त्राभिधान दस्वस्तिकः कुटिला रूपं कृष्णश्चोमा जितेन्द्रियः । धर्महृद्वामदेवश्च भ्रमिर्बाहुः सुचञ्चला ॥ १११ ॥ Tantrābhidhāna 2.35.111
- तन्त्राभिधान शबाहुर्हंसो वियत् वक्त्रं हृदनङ्गाङ्कुशः खलः । वामोरुः पुण्डरीकात्मा कान्तिः कल्याणवाचकः ॥ १५५ ॥ Tantrābhidhāna 2.47.155
- त्रिकाण्डशेष प्रकोष्ठअम्ललोण्यां दन्तशठा ना जम्बीरकपित्थयोः । प्रकोष्ठौ बाहुगेहांशौ वरिष्ठं मरिचेऽपि च ॥ १०८ ॥ Trikāṇḍaśeṣa 3.3.108
- वैजयन्ती शाखाशाखा वेदप्रभेदेषु बाहौ पादद्रुमांगयोः । श्यामा कन्या निशा चाथ शान्तिः प्रशममंगले ॥ ३९ ॥ Vaijayantī 6.2.39
- वैजयन्ती कीलकिष्कुर्वितस्तावनपुं सप्रकोष्ठकरे पुमान् । कीलोऽक्ली कफणौ ज्वाले बाहौ ना शंकुशर्वयोः ॥ १९ ॥ Vaijayantī 6.5.19