कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

प्रवेष्ट

praveṣṭaपुं · masc.

In 13 kośas: 14 synonym verses, 2 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.589 · p. 26
भुजो बाहुः प्रवेष्टो दोर्वाहाथ भुजकोटरः ।दोर्मूलं खण्डिकः कक्षा पार्श्वं स्यादेतयोरधः ॥ ५८९ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.140
भुजबाहू प्रवेष्टो दोः स्यात्कफोणिस्तु कूर्परः ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.522 · p. 60
दोः प्रवेष्टो भुजो बाहुर्भुजा च स्मर्यते बुधैः ।गण्डो गल्लः कपोलश्च हनुस्तुल्यार्थवाचकाः ॥ ५२२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.169 · p. 39
दोरस्त्रियां स्त्रियां दोषा भुजापि स्याद्भुजः पुमान् ।प्रवेष्टो नाकुलिर्बाहुर्बाहा बाहू स्त्रियां पुमान् ॥ १६९ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.77 · p. 127
प्रवेष्टोऽप्यथ दोर्मूलं खण्डिको भुजकोटरः ।अभ्युपा(?)च द्वयोः कक्षा पार्श्वमश्री तयोरधः ॥ ७७ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.95 · p. 252
प्रवेष्टं दन्तमांसं स्याद्वराङ्गं गजमस्तकम् ।कुम्भौ तु शिरसः पिण्डौ तयोर्मध्यं विदुः पुमान् ॥ ९५ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.251 · p. 132
वीतनौ कृकपार्श्वौ तु कृकः स्यात्कन्धरान्तरम् ।स्कन्धो भुजशिरोंऽसोऽथ दोः प्रवेष्टो भुजोऽपि च ॥ २५१ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.145 · p. 44
तुन्दं पिण्डश्च (पिचण्डः?) कुक्षौ स्यादंशे स्कन्ध इतीरितः ।बाहौ प्रवेष्टः पुंसि स्याद्दोरस्त्री परिकीर्तितः ॥ १४५ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.679 · p. 144
बाहुर्बाहा भुजो दोश्च प्रवेष्टः कथ्यते पुनः ।
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.288 · p. 101
द्वयोर्बाहुभुजौ दोषा प्रवेष्टो दोश्च वाहवत् ।द्वयोः कफोणिः कफणिः कपोणिः कूर्परोऽपि च ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.167 · p. 202
सन्धौ तु जत्रु षण्ढे स्यात् तकार-रेफयोगवत् ।प्रवेष्टो दोर्दोषा बाहुर्बाहा बाहो भुजो भुजा ॥ १६७ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable); pāda 3, syllable 5 र्दो (wrong syllable)
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव क्षत्त्रियवर्गः Trikāṇḍaśeṣa 2.8.38 · p. 67
शङ्खः कटो दन्तमध्ये प्रवेष्टः पृष्ठतल्पने ।आयस्कारः प्रजङ्घाग्रे प्रोहश्चरणपर्वणि ॥ ३८ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.72 · p. 110
आकर्षः परिकर्षश्च बहिष्कर्षस्य पार्श्वयोः ।किरीटी दंतमूलं स्यात् प्रवेष्टस्तु ततः परम् ॥ ७२ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.72 · p. 179
प्रवेष्टश्च कफोण्यां तु कूर्परः कफणिर्न षण् ।प्रगण्डः कूर्परादूर्ध्वं प्रकोष्ठः कूर्परादवाक् ॥ ७२ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुंल्लिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.2.137 · p. 23
रक्तस्रुत्यात्मके दीर्णौ प्रपञ्चस्तु विपर्यये ।विस्तारे सञ्चये च स्यात् प्रवेष्टस्तु भुजे भवेत् ॥ १३७ ॥
अनुष्टुप्
meaningsभुज
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुंल्लिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.2.138 · p. 23
गजस्य दन्तमूलाच करीर्याख्यात् परे भवेत् ।प्रदेशेऽथ प्रकोष्ठः स्यादलिन्दे राजसद्मनाम् ॥ १३८ ॥
अनुष्टुप्
doubtful