कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Paryāyaśabdaratna

पर्यायशब्दरत्न Paryāyaśabdaratna

981 verses · 5,697 words tagged · 1,066 marked doubtful (dashed)

मध्यमलोकसर्गः (2/7)

छर्दिरोगे वमः प्रोक्तो ज्वररोगे तु विद्रतिः(धिः?) ।बहुमूत्रे तु मेहः स्याद्बदरश्च भगंदरः ॥ १२१ ॥
2.121 · p. 40
अनुष्टुप्
शिश्नपाषाणरोगे स्यादश्मरी मूत्रकृच्छ्रकृत् ।रोगहार्यगदंकारश्चिकित्सायां(त्सुर्यः?) प्रकीर्तितः ॥ १२२ ॥
2.122 · p. 41
अनुष्टुप्
त्यक्तरोगे तु कल्यः स्याद्वार्तश्चोल्लाघ उल्लघः ।रोगग्रस्ते त्वामयावी चामयी ग्लान इत्यपि ॥ १२३ ॥
2.123 · p. 41
अनुष्टुप्
ग्लौ(ग्ला?)स्नुश्चाभ्यमितो रोगी विकृतोऽपटुरित्यपि ।पामनः कच्छुरश्चैव चर्चिकारोगसंगते ॥ १२४ ॥
2.124 · p. 41
अनुष्टुप्
दर्द्रुरोगिणि दर्द्रूः स्याद्दर्द्रुणो दर्द्रुरित्यपि ।अर्शसश्चार्शरोगे स्यादतिसारेऽतिसारकी ॥ १२५ ॥
2.125 · p. 41
अनुष्टुप्
क्लिन्नाक्षे स्युश्चिल्लचुल्लपिल्लगिल्लविगिल्लकाः ।वायुना मूतदेहे स्यान्न्युब्जः सब्जश्च कुब्जकः ॥ १२६ ॥
2.126 · p. 41
अनुष्टुप्
दीर्घनाभौ तु तुन्दी स्यात्तुन्दिलस्तुन्दिभश्च सः ।किलासी सिध्मलः सिध्मरोगयुक्तेऽथ मूर्च्छिते ॥ १२७ ॥
2.127 · p. 41
अनुष्टुप्
मूर्च्छालो मूर्च्छको मूर्च्छः सम्मूर्च्छित इतीरितः ।मायुः पित्तं पित्तरोगे कफः श्लेष्मा च श्लेष्मणि ॥ १२८ ॥
2.128 · p. 41
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 च (wrong syllable)
असृग्धरा त्वचि प्रोक्ता मांसे वल्लूरमिष्यते ।वल्लुरं तरसं क्रव्यमुत्तप्तं तप्तमिष्यते ॥ १२९ ॥
2.129 · p. 42
अनुष्टुप्
श्रेष्ठमांसे तु वृक्का स्यात् स्त्रियः(यां?) पश्चिमभागगा ।सिरा मन्येति संप्रोक्ता मान्या मानवतीति च ॥ १३० ॥
2.130 · p. 42
अनुष्टुप्
गर्भे दक्षिणभागस्थे लोहिते मांसखण्डके ।तिलकं क्लोममिति च मस्तमांसे तु गोर्दभम् ॥ १३१ ॥
2.131 · p. 42
अनुष्टुप्
गोर्दं मस्तिष्कमस्तिष्यमस्तकालयमस्तिकाः ।वसा शुक्रमसृङ्मज्जा मूत्रं विट्कर्णविण्नखाः ॥ १३२ ॥
2.132 · p. 42
अनुष्टुप्
श्लेष्माश्रुदूषिकास्वेदा द्वादशैते नृणां मलाः ।पुरीतत्पुरितदिति स्यादान्त्रे चाथ इष्यते ॥ १३३ ॥
2.133 · p. 42
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 त्पु (wrong syllable)
हृदये वामभागस्थपीतमांसदले प्लिहा ।त्वगन्तरस्थिते त्वान्त्रे वस्नसा स्नायुरित्यपि ॥ १३४ ॥
2.134 · p. 42
अनुष्टुप्
कालखण्डं यकृच्चापि मांसखण्डान्तरे मतम् ।लालायां सृणिका प्रोक्ता स्यन्दिनी स्रवणापि च ॥ १३५ ॥
2.135 · p. 42
अनुष्टुप्
दूषिका स्यान्नेत्रमले मूत्रे स्रावः प्रकीर्तितः ।पुरीषेऽवस्करः प्रोक्तः शमलं शकृदित्यपि ॥ १३६ ॥
2.136 · p. 42
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 न्ने (wrong syllable)
वर्चस्कं गूथमुच्चारो विष्ठा विट् चापि कथ्यते ।कपाले कर्परोऽथास्थ्नि कुल्यं शल्यं च कीकसम् ॥ १३७ ॥
2.137 · p. 43
अनुष्टुप्
शरीरशल्यराशौ तु कङ्काल इति कथ्यते ।कशेरुका तु पृष्ठास्थ्नि करोटिः शिरसोऽस्थ्नि सः ॥ १३८ ॥
2.138 · p. 43
अनुष्टुप्
पार्श्वास्थ्नि पर्शुका प्रोक्तापघनोऽवयवे मतः ।शरीरे स्यात्संहननं पादाग्रे प्रपदं मतम् ॥ १३९ ॥
2.139 · p. 43
अनुष्टुप्
पादोपरिस्थितग्रन्थौ घुटिका घटिकापि च ।अधोभागे गुल्फयोस्तु पार्ष्णिः स्यादथ प्रसृता ॥ १४० ॥
2.140 · p. 43
अनुष्टुप्metre not read in every line
जङ्घा च गुल्फोपरिभागे स्यादिति समीरिता ।जङ्घोरुसन्धिभागे स्यादूरुपर्व च जानु च ॥ १४१ ॥
2.141 · p. 43
अनुष्टुप्
अष्ठीवच्चाथ चोरौ तु सक्थीति परिकीर्तितम् ।वङ्क्षणं तूरुसन्धौ स्याद्गुदे पायुरिति स्मृतः ॥ १४२ ॥
2.142 · p. 43
अनुष्टुप्
नाभेरधोभागदेशे वस्तीति परिकीर्तितम् ।ककुद्मती तु स्यात्काञ्चीबन्धदेशे कटोऽपि च ॥ १४३ ॥
2.143 · p. 43
अनुष्टुप्
ककुन्दरी नितम्बस्थनिम्नदेशे प्रकीर्तिता ।मुष्ककोशौ तु वृषणेऽप्युपस्थो भगशिश्नयोः ॥ १४४ ॥
2.144 · p. 44
अनुष्टुप्
तुन्दं पिण्डश्च (पिचण्डः?) कुक्षौ स्यादंशे स्कन्ध इतीरितः ।बाहौ प्रवेष्टः पुंसि स्याद्दोरस्त्री परिकीर्तितः ॥ १४५ ॥
2.145 · p. 44
अनुष्टुप्
बाहुमध्यग्रन्थिदेशे कपोणिः कूर्परोऽपि च ।तद्ग्रन्थ्युपरिभागे तु प्रगण्डः परिकीर्तितः ॥ १४६ ॥
2.146 · p. 44
अनुष्टुप्
प्रगण्डाधोभागदेशे प्रकोष्ठः कोष्ठ इत्यपि ।सर्वाङ्गुलीविशिष्टे तु बाह्वग्रे शय इष्यते ॥ १४७ ॥
2.147 · p. 44
अनुष्टुप्
पञ्चशाखश्च शाखश्च पाणिः पाणश्च सम्मतः ।नखे पुनर्भवः प्रोक्तस्तर्जन्यां तु प्रदेशिनी ॥ १४८ ॥
2.148 · p. 44
अनुष्टुप्
विस्तृताङ्गुलिपाणौ स्याद्वितस्तिः प्रतलोऽपि च ।चपेटश्च प्रहस्तश्च चस(?) इत्यपि कथ्यते ॥ १४९ ॥
2.149 · p. 44
अनुष्टुप्
संयोगनिबिडे विस्तृताङ्गुलौ पाणिभेदके ।स्मृतः सिंहा(ह?)तलः किं च स्यात्संहतल इत्यपि ॥ १५० ॥
2.150 · p. 44
अनुष्टुप्
प्रसृतैककरे वै तु प्रसृतिः प्रसृतः स्मृतः ।उक्तपाणिद्वये प्रोक्तश्चाञ्जलिश्चाञ्ज इत्यपि ॥ १५१ ॥
2.151 · p. 44
अनुष्टुप्
बद्धमुष्टौ स रत्निः स्यादरत्निस्तदभावके ।व्यामस्तिर्यक्संप्रसारिबाह्वन्तरपरीणता ॥ १५२ ॥
2.152 · p. 45
अनुष्टुप्
शिरोधिः कन्धरायां स्याद्रेखात्रयसमाहिते ।कम्बुग्रीवेति कथिता कम्बुकण्ठ इति द्वयम् ॥ १५३ ॥
2.153 · p. 45
अनुष्टुप्
ग्रीवापश्चाद्भागदेशे त्ववटुश्च कृकाटिका ।घाटा च घटनं घाटी घटका घटिकापि च ॥ १५४ ॥
2.154 · p. 45
अनुष्टुप्
जिघ्राणं गन्धवाहश्च(-वाहा च?) नासिकायां प्रकीर्तितौ ।तालौ तु काकुदं प्रोक्तं सृक्व्यां तु सृक्विणी मता ॥ १५५ ॥
2.155 · p. 45
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
गोधिः स्त्रियां ललाटे स्यात्कूर्चं भ्रूमध्यदेशके ।शिखण्डके काकपक्षो नेत्राम्बावस्रमस्रु च ॥ १५६ ॥
2.156 · p. 45
अनुष्टुप्
कबरी संनिवेशश्च केशानां रचनाभिदि ।शीर्षण्यश्च शिरस्यश्च निर्मले स्याच्छिरोरुहे ॥ १५७ ॥
2.157 · p. 45
अनुष्टुप्
आकल्पवेषौ नेपथ्ये संस्कृतप्रचुरावपि ।स्मृतस्तिलकपत्रे तु प्रतिकर्म प्रसाधनम् ॥ १५८ ॥
2.158 · p. 45
अनुष्टुप्
भ्राजिष्णुश्चापि रोचिष्णुर्भूषाशोभायुते स्मृतौ ।केशपाशस्य शोभार्थं वलये मौक्तिके स्थिते ॥ १५९ ॥
2.159 · p. 45
अनुष्टुप्
वालपाश्या पारितथ्या परिष्कारस्तु भूषणे ।ललाटभूषणे पत्रपाश्या चापि ललाटिका ॥ १६० ॥
2.160 · p. 46
अनुष्टुप्
कर्णपत्रे कर्णिका स्यात्कुण्डले कुण्डमिष्यते ।प्रालम्बिका तु ग्रैवेये ललन्ती च ललन्तिका ॥ १६१ ॥
2.161 · p. 46
अनुष्टुप्
स्यादुरःसूत्रिका चाथ छन्दः शतसरे पुमान् ।द्वात्रिंशत्सरहारे तु गुच्छ इत्यभिधीयते ॥ १६२ ॥
2.162 · p. 46
अनुष्टुप्
चत्वारिंशत्सरे हारे गोस्तनः परिकीर्तितः ।चतुष्पञ्चाशत्सरके त्वर्धहारः प्रकीर्तितः ॥ १६३ ॥
2.163 · p. 46
अनुष्टुप्
स्याद्विंशतिप्रसरके पुमान्माणवकोऽपि च ।कङ्कणे पारिहार्यः स्यादावापक इति स्मृतः ॥ १६४ ॥
2.164 · p. 46
अनुष्टुप्
रशनायां सारसनं सप्तकी मेखलेति च ।स्त्रीणां स्यात्पुरुषाणां तु शृङ्खलं परिकीर्तितम् ॥ १६५ ॥
2.165 · p. 46
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सा (wrong syllable)
तुलाकोटिर्हंसकश्च नूपुरे परिकीर्तितौ ।तस्यामेव स्वल्पघण्ट्यां किङ्किणी परिकीर्तिता ॥ १६६ ॥
2.166 · p. 46
अनुष्टुप्
वस्त्रं तु दशधा प्रोक्तं वाल्कं कार्पासमेव च ।बादरं चापि कौशेयं राङ्कवं चाप्यनाहतम् ॥ १६७ ॥
2.167 · p. 46
अनुष्टुप्
निष्प्रवाणि तन्त्रकं च स्यादुद्गमनि(नी?)यं तथा ।पत्रोर्णं चाथ च क्षौमे बहुमूल्यं महाधनम् ॥ १६८ ॥
2.168 · p. 46
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 णि (wrong syllable)
प्रच्छादितपटे प्रोक्तं निवीतं प्रावृतं तथा ।वस्त्रप्रान्ते दशाः प्रोक्ताः वस्तयश्चापि सम्मताः ॥ १६९ ॥
2.169 · p. 47
अनुष्टुप्
पटादिदैर्घ्ये त्वानाय(त्वायाम?)श्चानाह इति कथ्यते ।विशालता परीणाहो जीर्णवस्त्रे पटच्चरम् ॥ १७० ॥
2.170 · p. 47
अनुष्टुप्
शैथिल्यतन्तुसंयोगवस्त्रे नक्तककर्पटौ ।आच्छादनं तु वस्त्रे स्यान्निचोलः शयनांशुके ॥ १७१ ॥
2.171 · p. 47
अनुष्टुप्
कम्बले रल्लकः प्रोक्तो रामको राम इत्यपि ।अधोंऽशुकेऽन्तरीयं स्यादुपसंव्यानमित्यपि ॥ १७२ ॥
2.172 · p. 47
अनुष्टुप्
परीधानमथ प्रोक्तं संव्यानं चोत्तरीयके ।प्रावार उत्तरासङ्गस्तथा बृहतिकाप्यथ ॥ १७३ ॥
2.173 · p. 47
अनुष्टुप्
स्यान्नीशारः शितानीलवस्त्रे चण्डातकं त्विह ।वेश्यादिरमणीनां स्यादर्धोरुच्छादनांशुके ॥ १७४ ॥
2.174 · p. 47
अनुष्टुप्
कथितं चाप्रपदिनमापदं प्रपदं तथा ।वारस्त्रीणां च पादाग्रलम्बिवस्त्रेऽथ इष्यते ॥ १७५ ॥
2.175 · p. 47
अनुष्टुप्
उल्लोचस्तु वितानेऽथ दूष्यं पटगृहे स्मृतम् ।काण्डवस्त्रे जवनिका स्यात्तिरस्करिणीति च ॥ १७६ ॥
2.176 · p. 47
अनुष्टुप्
प्रतिसारः प्रतिसि(सी?)रा स्नाने त्वाप्लाव आप्लवः ।शिष्टा चाथ तु चर्चिक्यं चर्चा स्थान(स?)क इत्यपि ॥ १७७ ॥
2.177 · p. 48
अनुष्टुप्
गजाद्यङ्गीकृते पाणिप्रतिबिम्बन इष्यते ।काश्मीरगन्धाभिव्यञ्जकतैलादौ प्रबोधनम् ॥ १७८ ॥
2.178 · p. 48
अनुष्टुप्
पत्राङ्गुलिरथ प्रोक्तं कुङ्कुमे पीतनं तथा ।रक्तं संकोचकाश्मीरजन्मनी धीरमित्यपि ॥ १७९ ॥
2.179 · p. 48
अनुष्टुप्
द्रुमामयश्च यावश्च लाक्षायां परिकीर्तितौ ।लवङ्गे देवकुसुमं कालेये जायकं तथा ॥ १८० ॥
2.180 · p. 48
अनुष्टुप्
कालानुसार्यं चाथास्त्री लोहं चागुरु वंशकम् ।राजार्हं क्रिमिजं दिव्यमगरूत्तमजोङ्गके ॥ १८१ ॥
2.181 · p. 48
अनुष्टुप्
कृष्णागरावथ श्वेतागरौ माङ्गल्यमिष्यते ।मल्लिगन्धि च रालः स्याद्यक्षधूपो विरोचकः ॥ १८२ ॥
2.182 · p. 48
अनुष्टुप्
बहुधूपः सर्वरसो निर्यासः सज्जकोऽपि च ।रसोऽपि स्यात्सज्जु(र्ज?)रसे चाथ पिण्डकयावकौ(नौ?) ॥ १८३ ॥
2.183 · p. 48
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स (wrong syllable)
तुरुष्कः शीलहः कल्लो बहुलः सरसः प्रियः ।सल्लकी त्वङ्मुख्यवस्तुसंपादितसुधूमनि ॥ १८४ ॥
2.184 · p. 48
अनुष्टुप्
स्याद्देवदारुनिर्यासकृतधूमे तु पायसः ।वृकधूपः श्रीनिवासः श्रीवेष्ट्यः(ष्टः?) श्रीकरः करः ॥ १८५ ॥
2.185 · p. 49
अनुष्टुप्
सिताभ्रो घनसारश्च कर्पूरे हिमवालुका ।चन्दने तु श्रीविशालो भद्रश्रीश्चन्दनोऽपि च ॥ १८६ ॥
2.186 · p. 49
अनुष्टुप्
गन्धसारो मलयजोऽप्यथ गोशीर्षमिष्यते ।स्यात्तैलपर्णिकं पीतं हरिचन्दनमित्यपि ॥ १८७ ॥
2.187 · p. 49
अनुष्टुप्
पीतवर्णसमायुक्ते चन्दने चाथ रञ्जनम् ।पत्राङ्गं रक्तकं रक्तचन्दनं तु कुचन्दनम् ॥ १८८ ॥
2.188 · p. 49
अनुष्टुप्
सुन्दरं युवतीमोद्यं नन्द्यं लोहितचन्दने ।कर्पूरागरुकस्तूरीत(क?)क्कोलैर्मिश्रिते शुभे ॥ १८९ ॥
2.189 · p. 49
अनुष्टुप्
गन्धद्रव्ये तु कथितौ यक्षकर्दमकर्दमौ ।सुगन्धवर्त्यां वर्ती स्यात्किं च गात्रानुलेपिनी ॥ १९० ॥
2.190 · p. 49
अनुष्टुप्
चन्दनादिसुवस्तूनां लेपने वर्णकं मतम् ।समस्तगन्धसंयोगे चूर्णानी परिकीर्तिता ॥ १९१ ॥
2.191 · p. 49
अनुष्टुप्
सुगन्धवासितद्रव्ये भावितं वासितं स्मृते ।गन्धपुष्पादिसंस्कारेऽधिवासनमितीष्यते ॥ १९२ ॥
2.192 · p. 49
अनुष्टुप्
केशमध्यस्थमालायां गर्भकं गर्भभासुरम् ।शिखावलम्बमानायां प्रभ्रष्टकमितीष्यते ॥ १९३ ॥
2.193 · p. 50
अनुष्टुप्
ललाटोपरि मुक्तानां जालवद्भासमानके ।रचिते माल्यभेदे तु ललामकमिति स्मृतम् ॥ १९४ ॥
2.194 · p. 50
अनुष्टुप्
कण्ठे ऋजुविलम्बिन्यां प्रालम्बं लम्बनं तथा ।यज्ञोपवीतवदुरस्तिर्यक्क्षिप्ते तु कक्षकम् ॥ १९५ ॥
2.195 · p. 50
अनुष्टुप्
वैकक्षकं च वैकक्षं कक्ष्यं कामप्रबोधनम् ।विवाहादी ललाटस्थयोग्यदामनि शेखरः ॥ १९६ ॥
2.196 · p. 50
अनुष्टुप्
माल्यानां विविधप्रोक्तरचनायां तु कथ्यते ।परिस्पन्दोऽथ चाभोगो रचनायां प्रचोदितम् ॥ १९७ ॥
2.197 · p. 50
अनुष्टुप्
तूलगर्भितवस्त्रादिरचिते तु शिरोधरे ।उपधानं चोपबर्हं चोपकारि शिरःसुखम् ॥ १९८ ॥
2.198 · p. 50
अनुष्टुप्
शय्यायां शयनीयं च शय्या च शयनं मतम् ।खट्वायां मञ्चपर्यङ्कपल्यङ्काः सन्दिनीति च ॥ १९९ ॥
2.199 · p. 50
अनुष्टुप्
समुद्गकः संपुटकः कस्तूर्यादिकरण्डके ।प्रसाधनी कङ्कतिका केशशोधकदन्तके ॥ २०० ॥
2.200 · p. 50
अनुष्टुप्
पतद्ग्रहे प्रतिग्राहः पिष्टातस्तालवृन्तके ।वीटिकापेटिकायां तु कल्मानी चूर्णमन्दने ॥ २०१ ॥
2.201 · p. 50
अनुष्टुप्
तुखानी मन्दिनी चाथ वस्त्रके वासिनी मता ।कर्पूरादिप्रघटके खासा कालादिनी खनी ॥ २०२ ॥
2.202 · p. 51
अनुष्टुप्
बीज्यः सभ्यः सज्जनश्च सत्कुलोत्पन्न इष्यते ।द्विजातिर्ब्राह्मणे प्रोक्तः षट्कर्मा तद्युते स्मृतः ॥ २०३ ॥
2.203 · p. 51
अनुष्टुप्
पण्डिते तु कृती कृष्टिर्लब्धवर्णो विचक्षणः ।दूरदर्शी दीर्घदर्शी प्रदर्श्यतिदृगित्यपि ॥ २०४ ॥
2.204 · p. 51
अनुष्टुप्
यायजूकस्तु यज्वा स्यात्सोमपीथी तु सोमपाः ।विश्वजिन्मुख्ययागादिकर्ता सर्वद इष्यते ॥ २०५ ॥
2.205 · p. 51
अनुष्टुप्
सर्ववेदाः सर्वमोदकारकः सर्वसम्मतः ।अनूचानः साङ्गवेदमधीयाने प्रकीर्तितः ॥ २०६ ॥
2.206 · p. 51
अनुष्टुप्
विवाहे गुर्वनुज्ञाते समावृत्त इतीष्यते ।सुत्वा त्वभिषवे कर्तुर्यजमानस्य नामनि ॥ २०७ ॥
2.207 · p. 51
अनुष्टुप्
प्रथमाभ्याससंप्राप्तशिष्ये शैक्ष्यः प्रकीर्तितः ।शिक्षावान् शिक्षितः शैक्षी चाटुः प्रथमकल्पिकः ॥ २०८ ॥
2.208 · p. 51
अनुष्टुप्
एकवेदस्याध्ययनं ये कुर्वन्त्येकदा जनाः ।सब्रह्मचारिणस्ते स्युः समानब्रह्मचारिणः ॥ २०९ ॥
2.209 · p. 51
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्या (wrong syllable)
स्यादेकगुरुशिष्येषु सतीर्थाः सगुरुप्रियाः ।पारम्पर्योपदेशे स्यादविभिन्ना च संततिः ॥ २१० ॥
2.210 · p. 51
अनुष्टुप्
इतिहाव्ययमैतिह्यमिति शब्दत्रयं तथा ।अज्ञानकृदु(आद्यं ज्ञानमु?)पज्ञा स्याज्ज्ञात्वारम्भ उपक्रमः ॥ २११ ॥
2.211 · p. 52
अनुष्टुप्
ब्रह्मयज्ञो देवयज्ञो मर्त्ययज्ञस्तथापि च ।पितृयज्ञो भूतयज्ञ इति यज्ञास्तु पञ्च हि ॥ २१२ ॥
2.212 · p. 52
अनुष्टुप्
प्रथमो वेदपाठः स्याद्वैश्वदेवं ततस्तथा ।तृतीयस्त्वतिथेः पूजा चतुर्थः पितृतर्पणम् ॥ २१३ ॥
2.213 · p. 52
अनुष्टुप्
पञ्चमो बलिहरणमिति यज्ञाः प्रकीर्तिताः ।सभायां समितिः संस्था परिषत्संसदित्यपि ॥ २१४ ॥
2.214 · p. 52
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ब (wrong syllable)
आस्थानी च समज्या चाप्यास्थानं सद इत्यपि ।क्रियाकलापबोद्धारः सदस्या विधिदर्शिनः ॥ २१५ ॥
2.215 · p. 52
अनुष्टुप्
सामाजिकाः सभास्ताराः सभ्याः स्युश्च सभासदः ।स्याद्यूपकटके पुंसि चषालश्चष इत्यपि ॥ २१६ ॥
2.216 · p. 52
अनुष्टुप्
तीक्ष्णयूपाग्रभागे तु तर्म इत्यभिधीयते ।परिचाय्यश्चोपचाय्यश्चाग्निहोत्रक्रियाकरे ॥ २१७ ॥
2.217 · p. 52
अनुष्टुप्
गार्हपत्यात्समानीय दक्षिणाग्नौ तु संस्कृते ।अग्नावानाय्य आनय्यः संस्कृतप्रसृता अपि ॥ २१८ ॥
2.218 · p. 52
अनुष्टुप्
अग्निप्रकाशनार्थाय विहिते याजके स्मृता ।आधानी चापि धाय्या(सामिधेनी?) च नकारान्तौ प्रकीर्तितौ ॥ २१९ ॥
2.219 · p. 52
अनुष्टुप्
पक्वोष्णक्षीरदधिसंयोगतो जातवस्तुनि ।आमिक्षा चापि चामीक्षा प्रक्षिप्तप्रकरावपि ॥ २२० ॥
2.220 · p. 53
अनुष्टुप्
प(ध?)वित्रं व्यजने प्रोक्तं रचिते मृगचर्मणा ।उपाकृतः स्यादामन्त्र्य यूपे बद्धपशौ हते ॥ २२१ ॥
2.221 · p. 53
अनुष्टुप्
परंपराकं शसनं प्रोक्षणं पशुहिंसने ।हिंसिते तु प्रमीतः स्यादुपसंपन्न इत्यपि ॥ २२२ ॥
2.222 · p. 53
अनुष्टुप्
प्रोक्षितोऽप्यथ संन्नाय्यो हविर्भेदे प्रकीर्तितः ।अग्नौ हुतहविर्नाम्नि वषट्कृतमिति स्मृतम् ॥ २२३ ॥
2.223 · p. 53
अनुष्टुप्
अन्तर्वेद्यादिदत्तं यदिष्टं तदभिधीयते ।वापीकूपतटाकादि देवतायतनानि च ॥ २२४ ॥
2.224 · p. 53
अनुष्टुप्
अन्नप्रदानमारामः पूर्तमायाः प्रचक्षते ।प्रोक्तो(क्तं?) भोजनशेषे तु विघसं विघसोऽपि च ॥ २२५ ॥
2.225 · p. 53
अनुष्टुप्
त्यागे विहायितं दानमुत्सजर्नविसर्जने ।विश्राणनं स्पर्शनं चाप्यपवर्जनमंहतिः ॥ २२६ ॥
2.226 · p. 53
अनुष्टुप्
प्रावे(दे?)शनं निर्वपणं प्रतिपादनमित्यपि ।अमावास्याश्राद्धनाम्नि चान्वाहार्यं च मासिकम् ॥ २२७ ॥
2.227 · p. 53
अनुष्टुप्
श्राद्धार्थं ब्राह्मणान्वेषणे स्यादन्वेषणापि च ।पर्येषणा परीष्टिश्च परिषेचनमित्यपि ॥ २२८ ॥
2.228 · p. 54
अनुष्टुप्
स्याच्छ्राद्धप्रार्थनायां तु सनिश्चाध्येषणा मता ।प्रार्थनायां तु याच्ञा स्यादभिशस्तिरपि स्मृता ॥ २२९ ॥
2.229 · p. 54
अनुष्टुप्
अतिथावावेश(शि?)कः स्यात्पूजायामर्हणा मता ।गमने व्रजनं व्रज्या शुश्रूषायामुपासनम् ॥ २३० ॥
2.230 · p. 54
अनुष्टुप्
स्यात्सन्मार्गस्थितावीर्या चर्या चरणमित्यपि ।उपस्पर्शस्त्वाचमने पर्यायस्तु क्रमे स्मृतः ॥ २३१ ॥
2.231 · p. 54
अनुष्टुप्
त्यात्क्रमोल्लङ्घने तूपात्ययः पर्यय इत्यपि ।औपवस्तं तूपवासे व्रतं पुण्यकमिष्यते ॥ २३२ ॥
2.232 · p. 54
अनुष्टुप्
स्यान्निकृष्टस्वरूपे तु विवेकः परिकीर्तितः ।समृद्धरूपे तु ब्रह्मवचनं(र्चसं?) परिकीर्तितम् ॥ २३३ ॥
2.233 · p. 54
अनुष्टुप्
ब्रह्माञ्जलिर्वेदपाठसमये प्रकृताञ्जलौ ।कल्पस्तु विधिषु प्रोक्तः स्यात्पादग्रहणं नतौ ॥ २३४ ॥
2.234 · p. 54
अनुष्टुप्
कर्मन्दी मस्करी पाराशरी संन्यासिनि स्मृताः ।तपस्वी तापसः पारिकाङ्क्षी वाचंयमो मुनौ ॥ २३५ ॥
2.235 · p. 54
अनुष्टुप्
सत्यं(त्य?)वचाश्च दान्तश्च ऋषौ वर्णीति च स्मृतः ।पाषण्डः सर्वलिङ्गी स्यात्स्यात्कुण्डी तु कमण्डलौ ॥ २३६ ॥
2.236 · p. 55
अनुष्टुप्
सोमाभिलाषमानुष्यानुष्ठानदिवसे स्मृता ।सुत्याभिषव आनायः सवनं च निषेवणम् ॥ २३७ ॥
2.237 · p. 55
अनुष्टुप्
अङ्गुल्यग्रगतीथ तु दैवं तु परिकीर्तितम् ।एवं कायं च पैत्र्यं च ब्राह्मं च ब्रह्मभूयकम् ॥ २३८ ॥
2.238 · p. 55
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 थ (wrong syllable)
ब्रह्मत्वं ब्रह्मसायुज्यं तीर्थमुन्नेयमिष्यते ।सर्वसङ्गपरित्यागदीक्षायां प्राय इष्यते ॥ २३९ ॥
2.239 · p. 55
अनुष्टुप्
उत्सर्गकेष्टिं कृत्वा तु स्वेच्छयोत्सृष्टवह्निके ।वीरहेति समाम्नातो वीरहोऽपि च दृश्यते ॥ २४० ॥
2.240 · p. 55
अनुष्टुप्