All kośas › Śabdaratnāvalī
शब्दरत्नावली Śabdaratnāvalī
4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)
भूमिकाण्डः · सिंहादिवर्गप्रकाशः (3/4)
अथ रोगाद्विमुक्ते स्यातुल्लाघः स्वच्छ इत्यपि ।ग्लानो ग्लास्नुः रोगात् क्षीणशरीरे द्वितयं भवेत् ॥
3.5.241 · p. 99
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 रो (wrong syllable)
व्याधितो विकृतोऽभ्यान्तोऽभ्यमितः पटुरातुरः ।आमयावी व्याधियुक्तजने स्यादिति सप्तकम् ॥
3.5.242 · p. 99
अनुष्टुप्
विचर्चिका रोगयुक्ते पामनः कर्बुरोऽपि च ।दद्रुणो दर्द्रुणोऽपि स्याद् दर्द्रुरो दर्द्रुरोगिणे ॥
3.5.243 · p. 99
अनुष्टुप्
वातकी वातरोगी स्यात् सातिसारोऽतिसारकी ।वातासहो वातसहो वातूलो वातुलोऽपि च ।अत्यन्तवायुयुक्ते तु भवेदेतच्चतुष्टयम् ॥
3.5.245 · p. 99
अनुष्टुप्
क्लिन्नाक्षे क्लिन्ननेत्रे च चिल्लचुल्लसपिल्लकाः ।उन्मत्तोन्मादवन्तौ च उन्मादव्याधिते जने ॥
3.5.246 · p. 99
अनुष्टुप्
अथ न्युब्जो रुजा भुनेऽप्यन्धो दृग्नेत्रहीनके ।वृद्धनाभिस्तुन्दिभः स्यात्तुन्दिलोऽत्युच्चनाभिके ॥
3.5.248 · p. 99
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 भु (wrong syllable)
किलासी सिध्मलश्चापि छोदयुक्तजने द्वयम् ।काणूकः काणकः काण एकनेत्रविहीनके ॥शुक्रं रेतस्तेजसी च वीजवीर्येन्द्रियाणि च ।मायुः पलज्वरः पित्तं कफे श्लेष्मा बलाशकः ॥
3.5.249 · p. 99
अनुष्टुप्
खटः खेटोऽपि तत्रैव बलहा वेगनाशनः ।त्वक् त्वचा च त्वचं चर्म छलीच्छलिरसृग्धरा ॥
3.5.250 · p. 99
अनुष्टुप्
मांसहासा वर्णलक्ष्यं खेटखल्ले च कुत्रचित् ।आमिषं मांसपिशिततरसं पललं पलम् ।क्रव्यञ्च त्रिषु वल्लूरमुत्तप्तं शुष्कमांसके ॥
3.5.251 · p. 99
अनुष्टुप्metre not read in every line
रुधिरासृक् पलङ्कारमस्रं क्षतजरोहितम् ।लोहितं शोनितञ्चेति रक्तं रङ्गकमित्यपि ॥
3.5.252 · p. 99
अनुष्टुप्
वुक्का वुक्काऽग्रमांसं हृत् हृदयं वुक्क इत्यपि ।वपा वसा च मेदस्तु मेद इत्यपि कुत्रचित् ॥
3.5.253 · p. 99
अनुष्टुप्
पश्चाद्ग्रीवा शिरामन्यामन्यकापि च निगद्यते ।नाडीशिरा शिरानाली धमनिर्धमनीति च ॥
3.5.254 · p. 99
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
क्लोमक्लोमन्तु तिलकं त्रयं धवलवुक्कके ।मस्तुलुङ्गन्तु मस्तिष्कं गोर्दञ्च मगजाह्वये ॥
3.5.255 · p. 100
अनुष्टुप्
अस्त्री मलः स्यात् कल्कञ्च किटुं किटुकमित्यपि ।जिह्वामलञ्च कुल्लोकं पिटुकं दन्तकिटुकम् ॥
3.5.256 · p. 100
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 कि (wrong syllable)
अन्त्रं पुरीतत् क्लीबे द्वे गुल्म प्लीहा च पुंस्यपि ।स्त्रियां स्नायुर्वस्नसा च चर्मनिर्मितरज्जुषु ॥
3.5.257 · p. 100
अनुष्टुप्
द्राविका स्यन्दिनी लाला सृणीका सृणिकापि च ।दूषिकोदूषिका दूषिः पिञ्चोट-पिञ्चटावपि ॥
3.5.259 · p. 100
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ट (wrong syllable)
अथ मूत्रन्तु प्रसावः स्त्रियौ विष्ठा विषौ शकृत् ।अमेध्यं शामलं दूर्यं गूथं वर्चस्कमस्त्रियाम् ॥
3.5.260 · p. 100
अनुष्टुप्
उच्चारावस्करौ कल्कं पुरीषं मलवर्चसा ।कर्परः स्यात् कपालोऽस्त्री ललाटास्थि च कल्वनः ॥
3.5.261 · p. 100
अनुष्टुप्
अस्थि कुल्यं कीकसञ्च कङ्कालो देहकीकसे ।कशेरुका कशेरुः स्त्री पृष्ठास्थनि भवेद्द्वयम् ॥
3.5.262 · p. 100
अनुष्टुप्
स्त्री करोटिः करोटी च करोटश्च शिरोऽस्थनि ।चन्द्री चन्द्रा चन्द्रिका स्यात् पार्श्वास्थनि तु पार्शुका ॥
3.5.263 · p. 100
अनुष्टुप्
तथाङ्गं स्यादपघनः प्रतीकावयवौ तथा ।शरीरं विग्रहं वर्ष्म गात्रं संहननं वपुः ॥
3.5.264 · p. 100
अनुष्टुप्
क्षेत्रं तलुः कुलं पिण्डं कन्धं स्कन्धं कलेवरम् ।द्वेऽस्त्रियौ कायदेहौ च तनूर्मूर्तिस्तनुः स्त्रियः ॥
3.5.265 · p. 100
अनुष्टुप्
अतिप्रशस्तदेहे तु पुङ्गलं पुङ्गलोऽपि च ।पादाग्रं प्रपदञ्चेति चरणाग्रे भवेद्द्वयम् ॥
3.5.266 · p. 100
अनुष्टुप्
द्वेऽस्त्रियां चरणः पादः पदङ्घ्रिरङ्घ्रिरित्यपि ।घुटिका स्याद्घुटो गुल्फः पादग्रन्थिर्घुटिर्घुटी ॥
3.5.267 · p. 100
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ङ्घ्रि (wrong syllable)
टङ्का टङ्कञ्च प्रसृता स्याज्जङ्घा टङ्किकापि च ।द्वेऽष्ठीवान् अस्त्रियामेव क्लीबे जानूरुपर्वणि ॥
3.5.269 · p. 100
अनुष्टुप्
क्लीबे सक्थि पुमानूरुरूरुसन्धौ तु वङ्घणः ।गुदं तलू हृदः पायुर्मार्गोऽप्यपानमित्यपि ॥
3.5.270 · p. 100
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प्य (wrong syllable)
चुतश्चूतश्चूतिश्चूतो गुद्द्वारं श्चुलिश्चूली ।वस्तिः स्त्रीपुंसयोर्नाभेरधोभागे निगद्यते ॥
3.5.271 · p. 100
अनुष्टुप्metre not read in every line
स्त्रियां कटिः कटी श्रोणिः श्रोणी चापि कुकुद्मती ।कलत्रं फलकं स्यात्तु कटीरश्च कटीप्रोथः ॥
3.5.273 · p. 100
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 प्रो (wrong syllable)
नितम्वं स्त्रीकटिपश्चाद्भागे तु जघनं पुरः ।नितम्वे कूपकद्वन्द्वं कुकुन्दर-ककुन्दरे ॥
3.5.274 · p. 101
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 टि (wrong syllable)
कटीप्रोथः कटिप्रोथः पूलकः स्थिक् स्त्रियां स्फिचा ।लिङ्गयोन्योरुपस्यः स्याद् वराङ्गं स्मरमन्दिरम् ।योनिर्द्वयोरतिगृहं जन्मवर्त्माधरंभगम् ॥
3.5.275 · p. 101
अनुष्टुप्
अवाच्यदेशः प्रकृतिरपथं स्मरकूपकः ।अप्रदेशः पद्धतिः स्यात् पुष्पी संसारमार्गकः ॥
3.5.276 · p. 101
अनुष्टुप्
संसारमार्गो गुह्यञ्च स्मरागारं स्मरध्वजम् ।रत्यङ्गं रतिकूहरञ्च कलत्रमध इत्यपि ॥
3.5.277 · p. 101
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
द्वयोः शिश्नः स्मरस्तम्भ उपस्थो मदनाङ्कुशः ।कन्दर्पमूषलः शेफः शेपो मेहनशेफसी ॥
3.5.278 · p. 101
अनुष्टुप्
मेट्रो लाङ्गुर्ध्वजो रागलता व्यङ्गोऽपि लिङ्गवत् ॥
3.5.279 · p. 101
कोषः कोषकं मुष्काण्डवृषणा अण्डकोषकः ।सीमा च पेलसीमानौ फलमित्यपि कुत्रचित् ॥
3.5.280 · p. 101
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 कं (wrong syllable)
मेरुदण्डः पृष्ठवंशस्तस्यैवाधो भवेत्त्रिकम् ।उदरं जठरं कुक्षिपिचिण्डौ तुन्दमित्यपि ॥
3.5.281 · p. 101
अनुष्टुप्
नाभिर्नाभी तुन्दकूपी तुन्दिस्तुन्दीदरुर्द्वयोः ।तुण्डिस्तुण्डी तुण्डिका च तुन्दिकापि च कुत्रचित् ॥
3.5.282 · p. 101
अनुष्टुप्
कुचः कूचः उरोजः स्याद् वक्षोजः स्यात् पयोधरः ।स्तनो वक्षोरुहश्चापि तथोरसिज इत्यपि ॥
3.5.283 · p. 101
अनुष्टुप्
चूचुकन्तु चुचूकं स्यात् चुचुकञ्च कुचाग्रके ।भुजयोर्मध्यभागे तु क्रोडा क्रोडं भुजान्तरम् ॥
3.5.284 · p. 101
अनुष्टुप्
अथ वक्षश्च वत्सं स्यादुरो वक्षःस्थले त्रयम् ।पृष्ठं पृष्ठिस्तु पृष्ठी च पश्चाद्भागे त्रयं तनौ ॥
3.5.285 · p. 101
अनुष्टुप्
स्कन्धो भुजशिरः क्लीबमंसोऽस्त्री कन्ध इत्यपि ।स्कन्धसन्धिद्वयं जत्रु जत्रुकञ्च नपुंसकम् ॥
3.5.286 · p. 101
अनुष्टुप्
कक्षौ द्वौ बाहुमूले स्यादस्त्री पार्श्वं तयोरधः ।अस्त्री मध्यो मध्यमञ्च विलग्नमवलग्नवत् ॥
3.5.287 · p. 101
अनुष्टुप्
द्वयोर्बाहुभुजौ दोषा प्रवेष्टो दोश्च वाहवत् ।द्वयोः कफोणिः कफणिः कपोणिः कूर्परोऽपि च ॥
3.5.288 · p. 101
अनुष्टुप्
कफोणेरुपरिस्थानं प्रगण्डः परिकीर्तितः ।प्रकोष्ठो मणिबन्धान्तं स्थानं यत्तु कफण्यधः ॥
3.5.289 · p. 101
अनुष्टुप्
मणिबन्धः करग्रन्थिः करग्रन्थिक इत्यपि ।करभस्तु कणिष्ठान्तं मणिबन्धात् करे वहिः ॥
3.5.290 · p. 101
अनुष्टुप्
हस्तः पाणिः पञ्चशाखः शयः कुलि-भुजादलौ ।बृद्धाङ्गुली स्यादङ्गुष्ठो बृद्धापि च समीरिता ॥
3.5.291 · p. 102
अनुष्टुप्
प्रदेशिनी तर्जनी स्यात् प्रदेशन्यपि देशिनी ।अथ मध्या मध्यमा स्यादनामा स्यादनामिका ॥
3.5.292 · p. 102
अनुष्टुप्
कणिष्ठिका कणिष्ठा च कणीयसी कणीनिका ।करशाखाङ्गुरिश्चाङ्गुर्यङ्गुलीऽङ्गुलिरङ्गुली ॥
3.5.293 · p. 102
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 य (wrong syllable)
मुयुटी मुकुटी चैव भवेदङ्गुलिमोटिने ।अस्त्रियो नखरनखौ पुनर्नव-पुनर्भवौ ॥
3.5.294 · p. 102
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 न (wrong syllable)
तर्जन्यङ्गुष्टविस्तारात् प्रादेशश्च प्रदेशकम् ।अङ्गुष्टमध्याविस्तारात् तलस्ताल इति द्वयम् ॥
3.5.296 · p. 102
अनुष्टुप्
अनामाङ्गुष्टविस्तारात् गोकर्ण इति कीर्तितः ।कणिष्ठाङ्गुष्ठयोः किष्कुर्वितस्तिर्द्वादशाङ्गुलम् ॥
3.5.297 · p. 102
अनुष्टुप्
चपेटः प्रतलस्तालश्चपेटी तालिका तलः ।प्रहस्तश्चपटो हस्ते समस्ताङ्गुलिविस्तृते ॥
3.5.298 · p. 102
अनुष्टुप्
चपेटौ द्वौ करौ संहतलः संहत इत्यपि ।एकहस्तो निम्नतलं प्रसृतं प्रसृतिः स्त्रियाम् ॥
3.5.299 · p. 102
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नि (wrong syllable)
प्रसृतं सजले हस्ते घनसंयोजिताङ्गुलौ ।तस्मिन् गण्डूषचुलुकचलुकानि चलु स्मृतम् ॥
3.5.300 · p. 102
अनुष्टुप्
मध्यनिम्नतलौ हस्तौ युक्तौ पार्श्वेऽञ्जलिः पुमान् ।प्रकोष्ठो विस्तृतकरो हस्त इत्यभिधीयते ॥
3.5.301 · p. 102
अनुष्टुप्
मुष्ट्या तु बद्ध्या हस्तः सरत्निरिह कीर्तितः ।भवेदरत्निस्तेनैव कणिष्ठेतरमुष्टिना ॥
3.5.302 · p. 102
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ब (syllables merged)
कणिष्ठानामिकामध्यातर्जनीतलसंयुता ।तासामुपरिवृद्धा चेत् स च मुष्टिरिह द्वयोः ॥
3.5.303 · p. 102
अनुष्टुप्
व्यासः सकरयोर्बाह्वोस्ततयोर्वक्रमन्तरम् ।ऊर्ध्वातते बाहुपाणौ नृमाने त्रिषु पौरुषम् ॥
3.5.304 · p. 102
अनुष्टुप्
कण्ठो गले शिरोधिः स्त्री ग्रीवा स्यात् कन्धरेत्यपि ।त्रिरेखासहिता ग्रीवा कम्बुग्रीवा च कम्बुका ॥
3.5.305 · p. 102
अनुष्टुप्
घाटो घाटा कृकाटी स्यादवटुश्च कृकाटिका ।मुखं वदनं तुण्डास्यवक्त्रं लपनमाननम् ॥
3.5.306 · p. 102
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नं (wrong syllable)
घोणा घ्राणञ्च नासिकयं नस्या नासा च नासिका ॥
3.5.307 · p. 102
गन्धनाली गन्धरन्ध्रा नक्रं गन्धवहेत्यपि ।सिङ्घाणकञ्च सिङ्घाणं सिङ्घणं नासिकामले ॥
3.5.308 · p. 103
अनुष्टुप्
ओष्ठाधरौ दन्तवस्त्रे वाग्दले रदनच्छदौ ।चिवुकन्तु चिवुक्लीबेऽधराधः स्थले द्वयम् ॥
3.5.309 · p. 103
metre not recognisednearly अनुष्टुप्
दन्तो द्विजश्च खरुः स्याद् दशनो रदनो रदः ।माटी दन्तशिरा माटिर्भवेत् तालु च काकुदम् ॥
3.5.311 · p. 103
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ख (wrong syllable)
जिह्वा रसज्ञा रसना रसाला रशना तथा ।सुधास्रवा च रसिका रसाङ्का प्रतिजिह्विका ॥
3.5.312 · p. 103
अनुष्टुप्
माध्वी रसनकाकुः स्त्री तथा स्यादलिजिह्विका ।ओष्ठप्रान्ते सृक्कनी च सृक्कसृक्कञ्च सृक्कि च ॥
3.5.313 · p. 103
अनुष्टुप्
पुंसि गोधिर्महाशङ्खः शङ्खः भालः कपालकम् ।ललाटमलीकाणिकं तत् प्रशस्तं ललाटकम् ॥
3.5.314 · p. 103
अनुष्टुप्metre not read in every line
भ्रूवौ स्त्रियां नयनयोरूर्ध्वलोमावली द्वयम् ।अस्त्री कूर्चं भ्रूवोरन्तस्तथा तारा तु तारका ॥
3.5.315 · p. 103
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 भ्रू (wrong syllable)
नयनं लोचनं नेत्रं चक्षुरक्षिविलोचनम् ।आत्मकं दृग्दृशादृष्टिर्वीक्षणं प्रक्षणेक्षणम् ॥
3.5.316 · p. 103
अनुष्टुप्
दैवदीपो दर्शनञ्च दृशिर्दृशी … ।अश्रू चास्रञ्च नेत्राम्वु रोदनं वाष्पमस्रू च ॥
3.5.317 · p. 103
metre not recognised
अथापाङ्गौ च नेत्रान्तौ कटाक्षोपाङ्गदृष्टिषु ।निमेषो निमिषश्चैव भवेद्दृष्टिनिमीलने ॥
3.5.318 · p. 103
अनुष्टुप्
कर्णः शब्दग्रहः श्रोत्रं स्त्री श्रूतिः श्रवणं श्रवः ।शब्दाधिष्ठानं श्रौतञ्च पैञ्जुषः श्रोत इत्यपि ॥
3.5.319 · p. 103
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नं (wrong syllable)
स्याद्वषः शष्कुली चेति द्वितयं कर्णरन्ध्रके ।पुंसि मूर्धाशिरः शीर्षं मुण्डं मस्तकमस्त्रियाम् ॥
3.5.320 · p. 103
अनुष्टुप्
उत्तमाङ्गं कं शिरञ्च कञ्चापि मान्तव्ययम् ।चिकुरः कचवालौ च केशकुन्तलकुञ्जराः ॥
3.5.321 · p. 103
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 4 मा (syllables merged)
शिरोरुहः शिरसिरुट् शिरोरुट् शिरोजा अपि ।केशौघे कैशिकं कैश्यमलकश्चूर्णकुन्तले ॥
3.5.322 · p. 103
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 रो (wrong syllable)
अथ भ्रमरकास्ते स्युरलकाश्चेत् कपालगाः ।शिशुकः काकपक्षश्च शिशुपार्श्वस्थकुन्तले ॥
3.5.323 · p. 103
अनुष्टुप्
कवरी कवरं केशवेशस्तु केशगर्भकः ।प्रसूनगर्भिता केशाबद्धा मुक्तादिभूषिताः ॥
3.5.324 · p. 103
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्तु (wrong syllable)
धम्मिल्लास्ते निगदिता मौलिर्मौली च तत्र हि ।शिखा चूडा केशपाशी जुटिका जूटिकेत्यपि ॥
3.5.325 · p. 103
अनुष्टुप्
शिरोमध्यबद्धचूडे भवेदेतत्तु पञ्चकम् ।जटा जटिर्जटी जूटो जूटकन्तु सटं सटा ॥
3.5.326 · p. 104
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ध्य (wrong syllable)
वेणिर्वेणी प्रवेणिः स्यात् प्रवेणी केशवेणीषु ॥
3.5.328 · p. 104
अथ पाशपक्षहस्ताः समूहार्थाः कचात् परे ।शिष्टप्रयोगादन्येऽपि केशवृन्दादयो यथा ॥
3.5.330 · p. 104
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 श (wrong syllable)
तनूरुहं तनुरुहं तनुरुट् लोम रोम च ।छेङि (?) श्मश्रू व्यञ्जनञ्च लोमबृद्धौ तु पुंमुखे ॥
3.5.331 · p. 104
अनुष्टुप्
वेशो वेषश्च नेपथ्यमाकल्पोऽपि प्रसाधनम् ।प्रतिकर्मस्वर्णपुष्पगन्धादिवेशमात्रके ॥
3.5.332 · p. 104
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 दि (wrong syllable)
अलङ्कर्तालङ्करिष्णुर्मण्डितश्च प्रसाधितः ।परिष्कृतोऽलङ्कृतश्च भूषितश्च प्रसारकः (?) ।विभ्राट् भ्राजिष्णुः रोचिष्णुः दीप्तियुक्तजने त्रयम् ॥
3.5.333 · p. 104
अनुष्टुप्metre not read in every line
अलङ्कर्तादिरोचिष्णुपर्यन्तं त्रिषु निश्चितम् ॥
3.5.334 · p. 104
मुकुटं मौलिर्मौली च कोटिरशेखरं (तथा) ।अवतंसो वतंसः स्यादुत्तंसोष्णीषकावपि ॥
3.5.336 · p. 104
अनुष्टुप्metre not read in every line
कौटीरकञ्च कौटीरं किरीटं पुनपुंसकम् ।चूडामणिः शिरोरत्नं शिरोमणिरपि द्वयोः ॥
3.5.337 · p. 104
अनुष्टुप्
उष्णीषो वेष्टनञ्चैव शिरोवेष्टनवेष्टकम् ।बालपाश्या पारितथ्या सीमन्तपटुके द्वयम् ॥
3.5.338 · p. 104
अनुष्टुप्
ललाटिका पत्रपाथ्या स्वर्णादि (भाल)भूषणे ।तालपत्रं कर्णिका च तथा ताडङ्किकापि च ॥
3.5.339 · p. 104
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 प (syllables merged)
अवतंसो वतंसश्च कर्णपूरश्च कुण्डलम् ।कर्णवेष्टनमुत्तंसो दन्तपत्रञ्च कर्णकम् ॥
3.5.341 · p. 104
अनुष्टुप्
ग्रैवेयकञ्च ग्रैवेयं ग्रैवञ्च कण्ठभूषणम् ।आनाभिलम्बिता कण्ठी लम्बनञ्च ललन्तिका ॥
3.5.342 · p. 104
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ञ्च (wrong syllable)
अथ स्वर्णेः कृताहारा ज्ञेया प्रालम्बिका स्त्रियाम् ।स्यादुरःसूत्रिका सैव रचिता मौक्तिकैर्यदि ॥
3.5.343 · p. 104
अनुष्टुप्
तरलस्तु भवेदेष मणिश्चेत् हारमध्यगः ।हारो मुक्ताबली हारा यष्टिर्यष्टी लतापि च ॥
3.5.344 · p. 105
अनुष्टुप्
अथ हारविशेषा स्युर्यष्टिभेदेन देशिताः ।देवछन्दो निगदितो हारो यः शतयष्टिकः ॥
3.5.345 · p. 105
अनुष्टुप्
द्वाविंशयष्टिके हारे गुच्छः गुत्स इति द्वयम् ।तदर्धेन तु गुच्छार्ध इत्याह मधुमाधवः ॥
3.5.346 · p. 105
अनुष्टुप्
गुच्छार्धः क्वचिदाख्यातश्चतुर्विंशतियष्टिकः ।चतुर्यष्टिकृतो हारः गोस्तनः समुदाहृतः ॥
3.5.347 · p. 105
अनुष्टुप्
चतुःषष्टियष्टिकृतो हारोऽर्धहार उच्यते ।अथ मानवको हारो भवेद्विंशतियष्टिकः ॥
3.5.348 · p. 105
अनुष्टुप्metre not read in every line
भवेदेकावलीहारो यदि स्यादेकयष्टिका ।नक्षत्रमाला सा ज्ञेया सप्तविंशतिमौक्तिकैः ॥
3.5.349 · p. 105
अनुष्टुप्
कण्ठीकाकश्च माला च कण्ठी च कण्ठिकेत्यपि ।दीनारोऽपि च निष्कोऽस्त्रीद्वयं हृदयभूषणे ॥
3.5.350 · p. 105
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
स्यादस्त्रियान्तु केयूरमङ्गदं ताडकाह्वये ।बलयोऽस्त्री पारिहार्यशङ्खकावापका अपि ॥
3.5.351 · p. 105
अनुष्टुप्
कटकञ्च कङ्कणोऽस्त्री कौतुकं करभूषणम् ।करसूत्रं प्रतिसरं चूडा या वाभटीति च ॥
3.5.352 · p. 105
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ञ्च (wrong syllable)
अङ्गुरीयमूर्मिका स्यादङ्गुलीयाङ्गुलीयकम् ।मुद्रा चाङ्गुलिमुद्रा च वेदिः स्यादक्षरान्वितम् ॥
3.5.353 · p. 105
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 य (wrong syllable)
कक्ष्या कक्षा सप्तकी स्यात् काञ्चिः काञ्ची च मेखला ।सारसनं सरसनं रसना रशना तथा ॥रसनं रशमञ्चेति स्त्रीकटीभूषणे भवेत् ।अथ पुंसः कटीदेशभूषणे शृङ्खला त्रिषु ॥
3.5.354 · p. 105
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 3 स (wrong syllable)
क्षुद्रघण्टी प्रतिसरा किङ्किनी काचकिङ्किनी ।कङ्कनी स्यात् कङ्कणिका क्षुद्रिका क्षुद्रघण्टिका ॥
3.5.355 · p. 105
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क (wrong syllable)
नूपुरोऽस्त्री तुलाकोटिस्तुलाकोटी च हंसकः ।मञ्जीरं पादकटकं पादाङ्गद-पदाङ्गदे ॥
3.5.356 · p. 105
अनुष्टुप्
फलवल्कलरोमणि कृमिश्च वस्त्रयोनयः ।फालं वादरकार्पासं क्षौमादि वाल्कवाल्कलम् ॥
3.5.357 · p. 105
metre not recognised
रोमजं राङ्कवादि स्यात् कार्मञ्च कृमिकोषजम् ।अनाहतमाहतं स्यादहतं तन्त्रकं तथा ॥
3.5.358 · p. 105
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 त (wrong syllable)
नववस्त्रं निष्प्रवाणि त्वेते फालादयस्त्रिषु ।धौतवस्त्रयुगे प्रत्युद्गमनीयमुदाहृतम् ॥
3.5.359 · p. 105
अनुष्टुप्
साधारणे तु वरकं पत्रोर्णं धौतकोषजम् ।बहुमूल्यञ्च यद्वस्तु वस्त्रञ्चापि महाधनम् ॥
3.5.360 · p. 106
अनुष्टुप्