All kośas › Śabdaratnākara
शब्दरत्नाकर Śabdaratnākara
1,012 verses · 6,994 words tagged · 1,188 marked doubtful (dashed)
तृतीयः काण्डः (2/3)
प्रिया, कान्ते प्रियः प्रेयान् प्रेष्ठष्ट-ठद्वयान्वितः ।वरो वरयितोद्वाहे विवाहे यम-यामकौ ॥ १२१ ॥
3.121 · p. 198
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ष्ट (wrong syllable)
उपात्, जायापत्योस्तु जम्पती दम्पती स्मृतौ ।द्वित्वे, जस्यती दस्यती प्रायो वेदे प्रयोजितौ ॥ १२२ ॥
3.122 · p. 198
metre not recognised
जित्वरीवाचकौ पूर्वावेकत्वादावुदाहृतौ ।हरणे तु सुदायः स्याद् दायो युतक-यौतकौ ॥ १२३ ॥
3.123 · p. 198
अनुष्टुप्
यौतुकः, परगेहस्था त्वायत्ता शिल्पजीविनी ।सैरन्ध्री चापि सेरन्ध्र्यथावरोधनप्रेष्यिका ॥ १२४ ॥
3.124 · p. 198
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 न (wrong syllable)
असिक्निका स्यादसिक्नी, दूत्या दूतिरपि स्मृता ।प्राज्ञी प्रज्ञा प्रजानत्यामाचार्यानी नृयोगके ॥ १२५ ॥
3.125 · p. 198
अनुष्टुप्
आचार्या मातुलानी च मातुल्यपि तथा मता ।उपाध्यायान्युपाध्यायी क्षत्रियाणी स्वतो भवेत् ॥ १२६ ॥
3.126 · p. 198
अनुष्टुप्
क्षत्रिया स्यादुपाध्यायाय्युपाध्यायाऽर्याणिका पुनः ।आर्या पुनर्भ्वां दिधिषूर्दिधीषुरपि तद्धवे ॥ १२७ ॥
3.127 · p. 198
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
दिधिषुर्दिधिषूर्विप्रे त्वग्रतो दिधिषुर्मतः ।दिधिषूरप्यसत्यां तु वर्षणी घर्षणीति च ॥ १२८ ॥
3.128 · p. 198
अनुष्टुप्
पांशुला पांसुलाऽथ स्यात् पतिः पत्नी च जीवतः ।पतिवत्न्यां निर्वीरा च वीरा पति-सुतोज्झिता ॥ १२९ ॥
3.129 · p. 199
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नि (wrong syllable)
भिक्षुकी भिक्षुणी मुण्डा श्रमणा श्रवणापि च ।गणिकायां वेश्या वेष्या पण्याङ्गना पणाङ्गना ॥ १३० ॥
3.130 · p. 199
अनुष्टुप्metre not read in every line
कुट्टन्यां शम्भली दन्त्य-तालव्यादिर्मता बुधैः ।कुम्भदास्यां पोटा वोटाऽवस्त्रनार्यां तु नग्निका ॥ १३१ ॥
3.131 · p. 199
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पो (wrong syllable)
नग्ना कोटवी कोट्टवी, ऋतुमत्यां तु पुष्पिता ।पुष्पवती चाविरवी निष्पुष्पायां तु निष्कला ॥ १३२ ॥
3.132 · p. 199
metre not recognised
निष्कल्यपि च स्त्रीधर्मे आर्तवं ऋतुसंयुतम् ।रजः सान्तं रजोऽदन्तो ना गुणेऽप्यथ मैथुने ॥ १३३ ॥
3.133 · p. 199
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च (wrong syllable)
सुरतं स्याद्रति-रते पशोर्धर्म-क्रिये स्मृते ।जभनं यभनं, गर्भवत्यां गुर्वी च गुर्विणी ॥ १३४ ॥
3.134 · p. 199
अनुष्टुप्
प्रसूतायां विजाताख्या प्रजाताप्यथ भ्रूणके ।वृधसानो वर्धसानो गरभो गर्भ इत्यपि ॥ १३५ ॥
3.135 · p. 199
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 थ (wrong syllable)
दोहदं दौहृदं श्रद्धा, पुत्र्यां तु स्यात् स्तनन्धयी ।स्तनन्धना सूनुः सुतापत्ये, पुत्रेऽपि तोककम् ॥ १३६ ॥
3.136 · p. 199
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 नुः (wrong syllable)
तुगपत्ये, भ्रातृपुत्रे भ्रातृव्यो भ्रात्रीयोऽपि च ।पुत्रपुत्रे पौत्रस्तस्य युवापत्ये पुनः स्मृतः ॥ १३७ ॥
3.137 · p. 199
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 त्री (wrong syllable); pāda 3, syllable 5 पौ (wrong syllable)
पौत्रायण एवं पुनर्भूर्नानान्द्रो दुहितृवत् ।पौनर्भव-पौनर्भवायणौ, नानान्द्र इत्यपि ॥ १३८ ॥
3.138 · p. 199
metre not recognised
नानान्द्रायणो, दौहित्रो दोहित्रायणकस्तथा ।पैत्र्यां नप्ता भवेन्नप्त्री स्यात् पितृष्वसुरात्मजे ॥ १३९ ॥
3.139 · p. 199
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 णो (wrong syllable)
पितृष्वसेयवत्पैतृष्वस्त्रीयो, जननीस्वसुः ।पुत्रे तु मातृष्वस्त्रीयस्तद्वन्मातृष्वसेयकः ॥ १४० ॥
3.140 · p. 199
अनुष्टुप्
दास्याः सुते तु दासेय दासेरौ च नटीसुते ।नाटेय-नाटेरौ, पुत्रे बन्धक्या बान्धकेयवत् ॥ १४१ ॥
3.141 · p. 200
अनुष्टुप्
बान्धकिनेयश्च, कौलटेरः स्यात् कौलटेयवत् ।भिक्षुसत्याः सुते कौलटेय-कौलटिनेयकौ ॥ १४२ ॥
3.142 · p. 200
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 कि (wrong syllable)
स्वजाते त्वौरसौरस्यौ भवेद्गोलश्च गोलकः ।मृते पत्यौ जारजोऽथ भ्रातरि स्यात्सहोदरः ॥ १४३ ॥
3.143 · p. 200
अनुष्टुप्
समानोदर्या-सोदर्य-सोदराः ज्येष्ठभ्रातरि ।अग्रजोऽपि यवीयांश्च कनिष्ठे सोदरे समाः ॥ १४४ ॥
3.144 · p. 200
अनुष्टुप्metre not read in every line
यविष्ठोऽपि यवीयांश्च कनिष्ठे सोदरे समाः ।ज्येष्ठ-कनिष्ठ-यविष्ठास्त्रिकवर्गद्वितीयकाः ॥ १४५ ॥
3.145 · p. 200
अनुष्टुप्metre not read in every line
स्यालस्तालव्य-दन्त्यादिः पत्न्या भ्रातरि कथ्यते ।देवृ-देवर-देवानः स्युः पत्युरनुजे स्वसा ॥ १४६ ॥
3.146 · p. 200
अनुष्टुप्
जानिर्यानिः कुलस्त्री च भग्नी स्याद्भगिन्यन्विता ।पत्युः स्वसरि ननन्दा ननान्दा नन्दनीत्यपि ॥ १४७ ॥
3.147 · p. 200
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 गि (wrong syllable); pāda 3, syllable 6 न (wrong syllable)
पत्नीकनिष्ठभगिन्यां श्याली शाली च, खेलने ।परिहासः परीहासः कुर्दनं कूर्दनं समौ ॥ १४८ ॥
3.148 · p. 200
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 भ (wrong syllable)
किलः केलिश्च जनके बप्पो वप्रश्च तातयुक् ।ततो जनयिता तद्वज्जनित्रोऽपि च मातरि ॥ १४९ ॥
3.149 · p. 200
अनुष्टुप्
अम्बाऽप्यब्बा जनयित्री जनित्री जननीयुता ।जानी, पित्रोः स्मृतौ माता-पितरौ, मातरात्परौ ॥ १५० ॥
3.150 · p. 200
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 न (wrong syllable)
पितरः पितृशब्दश्च ज्ञातौ स्वः स्वजनस्तथा ।बान्धवो बन्धुरात्मीये स्व-स्वकीये नपुंसके ॥ १५१ ॥
3.151 · p. 200
अनुष्टुप्
पण्डु-पाण्डौ शण्ठ-शण्ढौ तृतीयाप्रकृतिस्तथा ।तृतीयप्रकृतिर्देहे कलेवरं कडेवरम् ॥ १५२ ॥
3.152 · p. 200
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 व (wrong syllable)
तनूः स्यात्तनु-तनुषी घनस्तद्वच्च भूघनः ।गात्रं गान्त्रं मूर्तिमच्च मूर्तिः स्यात्, कुणपे शवः ॥ १५३ ॥
3.153 · p. 201
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 त्त (wrong syllable)
शवः सान्तं भवेत् षण्ढे, मूर्ध्नि मस्तक-मस्तिके ।शिरः सान्तं स्मृतं क्लीबे शिरोदन्तो मतो नरि ॥ १५४ ॥
3.154 · p. 201
अनुष्टुप्
चिकुरश्चिहुरः केशे ललाटस्यालके पुनः ।भ्रमरकः स्याद्भ्रमरालको वेणिः प्रवेणियुक् ॥ १५५ ॥
3.155 · p. 201
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 म (wrong syllable)
केशन्यासे काकपक्षे शिखण्डका-शिखण्डिकौ ।वक्रस्त्रिषु च्छन्दस्यापि, दान्ते षण्ढे भषद्भसद् ॥ १५६ ॥
3.156 · p. 201
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ण्ड (wrong syllable)
आमाशयास्थाने च जघनेऽपि तुण्डि-तुण्डकौ ।घनं घनोत्तमं भाले त्वलीकमलिकं तथा ॥ १५७ ॥
3.157 · p. 201
अनुष्टुप्metre not read in every line
कर्णे श्रवणं श्रुतिवत् श्रवः श्रोत्रं च श्रौत्रकम् ।नेत्रेक्ष्यऽक्ष्णं दृशि-दृशे दृग्लोचन-विलोचने ॥ १५८ ॥
3.158 · p. 201
अनुष्टुप्metre not read in every line
कनीनिकायां तारा स्यात् तारकाऽप्यर्धवीक्षणे ।काक्षः कटाक्षो नेत्रस्य मीले मेष-मिषौ नितः ॥ १५९ ॥
3.159 · p. 201
अनुष्टुप्
कालभेदेऽपि भ्रूविकारे भ्र-भ्रु-भ्रू-भृतः कुटिः ।भ्रूमध्ये कूर्च-कूपे कूर्पं नक्रे नस्नया नसा ॥ १६० ॥
3.160 · p. 201
अनुष्टुप्metre not read in every line
नासा नस्या नासिका च नाशिका घ्राणमाघ्रया ।घ्रा, दन्तवस्त्रे ओष्ठः स्यात् त्रिकवर्गद्वितीयवान् ॥ १६१ ॥
3.161 · p. 201
अनुष्टुप्
ओष्ठप्रान्ते सृक्क नान्तं क्लिबं सृक्कमदन्तकम् ।सृक्कणी सृक्कणिर्ङ्यन्तेदन्ते सृक्कि नपुंसके ॥ १६२ ॥
3.162 · p. 201
अनुष्टुप्
इदन्तमेकैर्वद्द्वन्द्वं कयुग्ममपरैः स्मृतम् ।सृक्कशब्देऽथ हन्वग्रसन्धौ स्याच्चिबुकं चिबुः ॥ १६३ ॥
3.163 · p. 201
अनुष्टुप्
दंष्ट्रिकायां दाढिका स्याद् द्राढिका खादने पुनः ।रदनो रदयुग्दंश-दशनौ मल्ल-मल्ल्कौ ॥ १६४ ॥
3.164 · p. 201
metre not recognisednearly अनुष्टुप्
जिह्वायां रसना दन्त्य-तालव्यान्तर्गता रसा ।रसमातृका रस्ना च रसिका रसनं तथा ॥ १६५ ॥
3.165 · p. 202
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable)
गले कण्ठः कण्ठी कण्ठं शब्द-समीपयोरपि ।अंसे तु स्कन्धः स्कधश्च सान्तं क्लीबमुरोंसयोः ॥ १६६ ॥
3.166 · p. 202
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 ण्ठः (syllables merged); pāda 2, syllable 3 ब्द-स (syllable split)
सन्धौ तु जत्रु षण्ढे स्यात् तकार-रेफयोगवत् ।प्रवेष्टो दोर्दोषा बाहुर्बाहा बाहो भुजो भुजा ॥ १६७ ॥
3.167 · p. 202
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable); pāda 3, syllable 5 र्दो (wrong syllable)
भुजामध्ये कपोणिः स्यात् कफोणी च कफोणियुक् ।कफणिः कफणी तद्वत्कुर्परः कूर्परोऽपि च ॥ १६८ ॥
3.168 · p. 202
अनुष्टुप्
प्रकोष्ठे वर्गद्वितीयः स्यात् कलाचिः कलाचिका ।हस्ते करः करिर्हस्तमूले तु मणिबन्धवत् ॥ १६९ ॥
3.169 · p. 202
अनुष्टुप्
मणिः स्यात्करशाखायामङ्गुरी चाङ्गुरिस्तथा ।अङ्गुलोऽङ्गुलिरङ्गुल्यां तर्जन्यां तु प्रदेशिनी ॥ १७० ॥
3.170 · p. 202
अनुष्टुप्
प्रदेशिनी प्रदेशिका, ज्येष्ठाङ्गुल्यां तु मध्यमा ।मध्या ज्येष्ठा-कनिष्ठे द्वे टवर्गद्वितीयान्विते ॥ १७१ ॥
3.171 · p. 202
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 शि (wrong syllable); pāda 4, syllable 5 ती (wrong syllable)
पुनर्नव-पुनर्भवौ करजे नखरस्त्रिषु ।नखोऽस्त्री तर्जन्यायत्तेऽङ्गुष्ठे त्वथ प्रदेशवत् ॥ १७२ ॥
3.172 · p. 202
metre not recognised
प्रादेशोऽप्यायताङ्गुलौ हस्ते स्यात् प्रतलस्तलः ।तालिका-तालौ चपेटश्चर्पटश्चपटोऽपि च ॥ १७३ ॥
3.173 · p. 202
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 ङ्गु (wrong syllable)
तद्द्वये योजिते सिंहतलः संहतलस्तथा ।तताङ्गुष्ठमध्याङ्गुलिमाने तालस्तलोऽपि च ॥ १७४ ॥
3.174 · p. 202
अनुष्टुप्metre not read in every line
वितस्ति-खड्गमुष्ट्योश्च, कुब्जिताङ्गुलिके करे ।प्रसृतः प्रसृतिश्चापि गण्डूषे चलुकश्चलुः ॥ १७५ ॥
3.175 · p. 202
अनुष्टुप्
चुलुको, निष्कनिष्ठे स्याद् हस्त आर्तिररत्नयुक् ।तिर्यक्प्रसारितबाह्वोर्व्यायामो व्याम-व्यामनी ॥ १७६ ॥
3.176 · p. 202
अनुष्टुप्metre not read in every line
वियामः पृष्ठवंशे तु रीढको रीढयुग्मतः ।पृष्ठं वर्गद्वितीयाप्तमुत्सङ्गेऽङ्को नपुंसके ॥ १७७ ॥
3.177 · p. 203
अनुष्टुप्
सान्तमङ्कोऽप्यदन्तो नाऽथोरोजोरसिजौ स्तने ।कुच-कूचौ, जठरे तु स्यात् पिचण्डः पिचिण्डयुक् ॥ १७८ ॥
3.178 · p. 203
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ठ (wrong syllable)
तुन्दं तुन्दिः कुक्ष-कुक्षी, यक्नि कालेय-कालके ।कालखण्डं कालखञ्जं, गुल्मे प्लीहा प्लिहा तथा ॥ १७९ ॥
3.179 · p. 203
अनुष्टुप्
नान्तौ, प्लीहा चाबन्तोऽपि, मध्ये मध्यम इत्यपि ।विलग्नावलग्नौ सर्वे पुंक्लीबाः, रसनापदे ॥ १८० ॥
3.180 · p. 203
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 चा (wrong syllable); pāda 3, syllable 5 ल (wrong syllable)
कटीरं च कटि-कटी-कटाः श्रोणी च श्रोणियुक् ।वलित्रयसमाहारे त्रिवलिस्त्रिवली तथा ॥ १८१ ॥
3.181 · p. 203
अनुष्टुप्metre not read in every line
त्रिकपार्श्वगर्तयोस्तु कुकुन्दरे कुकुन्दुरे ।युतौ स्फिचौ स्फिजौ चान्तौ जान्तौ, स्यात्स्मरमन्दिरे ॥ १८२ ॥
3.182 · p. 203
अनुष्टुप्metre not read in every line
योनिर्योनी च, पुंश्चिह्ने शेपः शोफश्च सान्तगे ।शोप-शेफौ च शेवश्च त्रयोऽदन्ता बुधैः स्मृताः ॥ १८३ ॥
3.183 · p. 203
अनुष्टुप्
लाङ्गूलं शङ्कु लङ्गूलं मुष्क आण्डाण्डकौ नरि ।अण्डं पेलं पेलकोऽप्यथोरुरूरूश्च सक्थनि ॥ १८४ ॥
3.184 · p. 203
अनुष्टुप्
जङ्घायां तु टङ्क-टङ्गौ खनित्रेऽपि च तौ मतौ ।पादग्रन्थौ कुल्फ-गुल्फौ घुटिको घुण्ट-घुण्टकौ ॥ १८५ ॥
3.185 · p. 203
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable)
घुटः सर्वेऽपि पुंस्त्रीगाः, चरणे चलनः क्रमः ।क्रमणः पाद-पदौ पात् पत्-पदे अंह्रिरङ्घ्रियुक् ॥ १८६ ॥
3.186 · p. 203
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 प (wrong syllable)
तिलके कालकस्तद्वत् तिलकालक इत्यपि ।जडुलो जटुलो, मांसे पलं पललमामिषम् ॥ १८७ ॥
3.187 · p. 203
अनुष्टुप्
अमिषं चार्द्रमांसे तु भवेदर्पशमर्पिशम् ।मुख्यमांसे बुक्का नान्तं त्रिषु वुक्कस्त्रिषु स्मृतः ॥ १८८ ॥
3.188 · p. 203
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 बु (wrong syllable)
वुक्काग्रमांसाग्रमांसे वृक्कः स्य्यात्पुंस्त्रिर्योर्वसा ।मेदः सान्तं मेदोऽदन्तो मस्तिष्को मस्तुलुङ्गकः ॥ १८९ ॥
3.189 · p. 204
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 स्त्रि (wrong syllable); pāda 3, syllable 5 मे (wrong syllable)
मस्तकस्नेहे गोदोऽस्त्री करोटं शिरसोऽस्थनि ।करोटीवत् करोटिश्च भकालं च भगालयुक् ॥ १९० ॥
3.190 · p. 204
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 हे (wrong syllable)
पृष्ठहड्डे कशेरुका कशारुकाऽस्थिसंभवे ।मज्जा नान्तो द्वयोर्मज्जाऽबन्तः स्त्री रेत्र-रेतसी ॥ १९१ ॥
3.191 · p. 204
अनुष्टुप्metre not read in every line
बल-बल्ये च वीर्ये द्वे लोम रोम तनूरुहे ।तनुरुहं, चर्म चर्मं त्वक् त्वचं चोचमित्यपि ॥ १९२ ॥
3.192 · p. 204
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 रु (wrong syllable)
असृग्धरा सृग्धरा च कषिते लेख्यचर्मणि ।कडित्रं सकटित्रं च स्नायौ वसस्नया स्नसा ॥ १९३ ॥
3.193 · p. 204
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 व (wrong syllable)
स्नावा नान्तो, धमन्यां तु धमनिर्नाडि-नाडकौ ।नाडी शिरा सिरा नेत्रमले दूषी सदूषिका ॥ १९४ ॥
3.194 · p. 204
अनुष्टुप्
दूषीका काणुकं काणूकमाणूकवदाणुकम् ।घ्राणमले शिङ्घाणक-सिङ्घाणौ, लालिका पुनः ॥ १९५ ॥
3.195 · p. 204
अनुष्टुप्metre not read in every line
सृणीका सृणिका गूथो विड्-विषौ शान्त-षान्तगौ ।वर्चस्क-वर्चसी तुल्ये विष्ठा वर्गद्वितीयभाक् ॥ १९६ ॥
3.196 · p. 204
अनुष्टुप्
नेपथ्ये वेष-वेशौ द्वावुत्सादनमुद्वर्तने ।उच्छादनं चापि समालभने चर्चिक्यं मतम् ॥ १९७ ॥
3.197 · p. 204
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 मु (wrong syllable); pāda 4, syllable 5 र्चि (wrong syllable)
चर्चाऽपि, मण्डने प्रति-परितः कर्म कथ्यते ।मार्ष्टे मार्जो मृजा मार्जा मार्जना स्नान आप्लवः ॥ १९८ ॥
3.198 · p. 204
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 प्र (wrong syllable)
आप्लावोऽपि च, गात्रानुलेपन्यां वर्तिरुच्यते ।वर्ती तथा जोङ्गके स्यादगर्वगुरु वंशकम् ॥ १९९ ॥
3.199 · p. 204
अनुष्टुप्
वंशिका वंशिकं कृमिजग्धं कृमिजमित्यपि ।प्रवरं प्रकरं तुल्ये गोशीर्षे हरिचन्दनम् ॥ २०० ॥
3.200 · p. 204
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 कृ (wrong syllable)
हरिश्च, रक्तचन्दने पत्रगं च पतङ्गकम् ।पत्राङ्गं, सौमनसे तु जातिर्जाती फलं तथा ॥ २०१ ॥
3.201 · p. 205
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 न्द (wrong syllable); pāda 3, syllable 6 न (wrong syllable)
जातीफलं जातिफलं तद्वत्कोशफलं मतम् ।जातीकोशं जातीकोषं, कर्पूरे स्यात् सिताभ्रकः ॥ २०२ ॥
3.202 · p. 205
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 जा (wrong syllable)
सिताभश्चापि, कस्तूर्यां नाभिवन्मृगनाभिजा ।मृगनाभिर्मृगमदो मृगः स्यान्मद इत्यपि ॥ २०३ ॥
3.203 · p. 205
अनुष्टुप्
कुङ्कुमे वरवाह्लीकं वरं वाह्लीक-वाह्लिके ।कश्मीरजन्म काश्मीरं कश्मीरजमपि स्मृतम् ॥ २०४ ॥
3.204 · p. 205
अनुष्टुप्
संकोचपिशुनं तद्वत्संकोचं पिशुनं समे ।वर्णं वर्ण्यं, देवसुमे लवङ्गं लवसंयुतम् ॥ २०५ ॥
3.205 · p. 205
अनुष्टुप्
कोशफले कक्कोलकं कक्कोलं कोलकं तथा ।कोलं कोरं च कालानुसार्ये यापक-जापके ॥ २०६ ॥
3.206 · p. 205
अनुष्टुप्metre not read in every line
कालीयकं कालेयकं कालियं चाग्निवल्लभे ।रालोऽक्ष्यरालः, श्रीवासे धूपः स्याद्वृक-वृक्षतः ॥ २०७ ॥
3.207 · p. 205
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ले (wrong syllable)
श्रीवेष्टः श्रीपिष्टकश्च कोटीरे मुकुटोऽस्त्रियाम् ।मुकुटोऽपि किरीटं स्तात् तिरीटं पुष्पदाम तु ॥ २०८ ॥
3.208 · p. 205
अनुष्टुप्
नान्तः क्लीन्नोराबन्तोऽस्मिन् मुण्डमालाभिधे स्मृतम् ।ललामवल्ललामाऽश्व-प्रधान-ध्वज-लक्ष्मसु ॥ २०९ ॥
3.209 · p. 205
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 रा (wrong syllable)
पुण्ड्र-वालधि-शृङ्गेषु भूषा-प्रभावयोरपि ।माल्यं माला, तिलके तमालपत्रं तमालवत् ॥ २१० ॥
3.210 · p. 205
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 प्र (wrong syllable); pāda 3, syllable 6 ल (wrong syllable)
शीर्षस्रज्यवतंसः स्याद् वसन्तोत्तंसकौ समौ ।त्रयोऽमी कर्णपूरेऽपि पत्रावल्यां तु पत्रतः ॥ २११ ॥
3.211 · p. 205
अनुष्टुप्
भङ्गि-लेखा-लताङ्गुल्यो वल्लरी मञ्जरीति च ।वल्लिश्चोत्क्षिप्तकायां तु कर्णान्दूश्च कर्णान्दुयुक् ॥ २१२ ॥
3.212 · p. 205
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 क (wrong syllable)
कण्ठभूषायां ग्रैवेयं ग्रैवं ग्रैवेयकं तथा ।मुक्तास्रज्याहारो हारः स्त्रीन्रोर्यष्ट्यां सरिः सरः ॥ २१३ ॥
3.213 · p. 206
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 यां (wrong syllable); pāda 3, syllable 5 हा (wrong syllable)
सारिकाऽप्येकावल्यां तु कण्ठी कण्ठिकया सह ।कटिके तु पारिहार्यः परिहार्यश्च कङ्कणम् ॥ २१४ ॥
3.214 · p. 206
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable); pāda 3, syllable 4 तु (wrong syllable)
कङ्कणिश्चोर्मिकायां त्वङ्गुलीयकाङ्गुरीयके ।मेखलायां सारसनं दन्त्य-तालव्यमध्यगा ॥ २१५ ॥
3.215 · p. 206
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 य (wrong syllable); pāda 3, syllable 5 सा (wrong syllable)
रसना, काञ्चिः काञ्ची च किङ्किणिः क्षुद्रघण्टिका ।किङ्किणी कङ्कणीका च कङ्कणी किङ्किणीत्यपि ॥ २१६ ॥
3.216 · p. 206
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ञ्चिः (wrong syllable)
समे मञ्जीर-मन्दारे नूपुरे पादतः परे ।शीली च नालिका पादाङ्गुलीये पादतः परे ॥ २१७ ॥
3.217 · p. 206
अनुष्टुप्
पालिका कीलिका, वस्त्रे वसनं वस्न-वाससी ।सिनो निवसनं सन्नं कर्पटं पटमित्यपि ॥ २१८ ॥
3.218 · p. 206
अनुष्टुप्
पटः पट्याच्छादनं च छादः सिक्-सिचयौ तथा ।वस्त्राञ्चले वर्ति-वस्ती दुकूलमतसीपटे ॥ २१९ ॥
3.219 · p. 206
अनुष्टुप्
दुगूलं, कम्बले रल्लो रल्लकोऽथ निवीतके ।प्रावृतं निवृतं, स्थूलशाटे तालव्य-दन्त्यवान् ॥ २२० ॥
3.220 · p. 206
अनुष्टुप्
वरासिः परिधानस्य ग्रन्थौ नीवी च नीवियुक् ।चण्डातके चलनकश्चलनश्चलनिका पुनः ॥ २२१ ॥
3.221 · p. 206
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 श्चल (syllable split)
चोलश्चोली कञ्चुलिका कञ्चूलः कञ्चुकोऽपि च ।कूर्पारकश्च कूर्पासः कुर्पासः सकूर्पासकः ॥ २२२ ॥
3.222 · p. 206
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 कू (wrong syllable)
शाटके तु शाटः शाटी, परिधानापराञ्चले ।कच्छा कच्छाटी च कच्छाटिका कौपीनके पुनः ॥ २२३ ॥
3.223 · p. 206
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 शा (wrong syllable)
कक्षापटः कक्षापुटः, कर्पटे नक्तको मतः ।लक्तकः, प्रच्छदपटे उत्तरच्छद उच्यते ॥ २२४ ॥
3.224 · p. 206
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 क्षा (wrong syllable)
निचोलको निचुलको निचोलं च निचोल्यपि ।निचुलोऽवसत्थिकायां स्मृता पर्यस्तिकायुता ॥ २२५ ॥
3.225 · p. 207
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 व (wrong syllable)
पर्यस्तिश्चापि पर्यङ्कः पल्यङ्कोऽपि, कुथे पुनः ।वर्णपरिस्तोम-वर्णौ परिस्तोमवदास्तरः ॥ २२६ ॥
3.226 · p. 207
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 प (wrong syllable)
आस्तरणं प्रवेणीयुक् प्रवेणिः प्रतिसीरिका ।जवनी जवनिकापि यवनी यमनीति च ॥ २२७ ॥
3.227 · p. 207
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable); pāda 3, syllable 6 नि (wrong syllable)
दूष्ये स्थूलं स्थुडमपि, पटकुट्यां तु केणिका ।केणिः पल्लवादिकृता शय्या संस्तर-प्रस्तरौ ॥ २२८ ॥
3.228 · p. 207
अनुष्टुप्metre not read in every line
स्रस्तरोऽपि च तल्पे तु शयनं शयनीयवत् ।शय्यापि च खट्वायां तु मञ्चवन्मञ्चकः स्मृतः ॥ २२९ ॥
3.229 · p. 207
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ख (wrong syllable)
पर्यङ्कोऽपि च पल्यङ्कः पतद्ग्राह-पतद्ग्रहौ ।प्रतिग्रह-प्रतिग्राहौ पालेऽथो दर्पणे मतः ॥ २३० ॥
3.230 · p. 207
अनुष्टुप्
मकुरो मुकुरस्तद्वद् मङ्कुरोऽप्यात्मदर्शवत् ।आदर्शो, वस्त्रासने त्वासन्दा-सन्द्यौ च सन्दवत् ॥ २३१ ॥
3.231 · p. 207
अनुष्टुप्
सन्दी भोजन आच्छादे एकोक्त्या चोभयोरपि ।कशिपुर्दन्त्य-तालव्यमध्यः स्याच्छयनासने ॥ २३२ ॥
3.232 · p. 207
अनुष्टुप्
एकोक्त्योशीरमौशीरं पलङ्कशा पलङ्कषा ।राक्षा रक्षा च लाक्षापि तद्रसे याववद्यतः ॥ २३३ ॥
3.233 · p. 207
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ङ्क (wrong syllable)
यावको लक्तकालक्तौ, दीपस्तु कज्जलध्वजे ।प्रदीपो दीपवृक्षश्च तालवृन्ते तु वीजनम् ॥ २३४ ॥
3.234 · p. 207
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्तु (wrong syllable)
व्यजनं मृगचर्मेति धवित्रं च धुवित्रवत् ।केशमार्जे कङ्कतिका कङ्कतः काक-कङ्कते ॥ २३५ ॥
3.235 · p. 207
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क (wrong syllable)
कङ्कती, बालक्रीडने गिरिको गिरिवद्गुडः ।गिरिगुडो गिरियको गिरीयकोऽथ गिन्दुकः ॥ २३६ ॥
3.236 · p. 207
metre not recognised
गेन्दुकोऽपि कन्दुके द्वौ, पार्थिवे नृपतिर्नृपः ।भूप-भूपति-भूपालास्तथा मूर्ध्नाभिषिक्तयुक् ॥ २३७ ॥
3.237 · p. 208
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 पि (wrong syllable)
मूर्द्धावसिक्तो राजा राट् राज्ये महिन-माहिने ।वसुदेवा वासुदेवा अर्द्धचक्रिषु सम्मताः ॥ २३८ ॥
3.238 · p. 208
अनुष्टुप्
तज्ज्येष्ठभ्रातृषु बला बलदेवाः, पृथौ नृपे ।वेनिर्वैन्यो, भरते तु स्यात् सर्वदमनस्तथा ॥ २३९ ॥
3.239 · p. 208
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
सर्वंदमः, सीतापतौ रामः स्याद्रामचन्द्रवत् ।रामभद्रोऽपि, सौमित्रौ लक्ष्मणो लक्षणान्वितः ॥ २४० ॥
3.240 · p. 208
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ता (wrong syllable)