कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Suśīlanāmamālā

सुशीलनाममाला Suśīlanāmamālā

3,712 verses · 16,502 words tagged · 1,236 marked doubtful (dashed)

मर्त्यविभागः (6/13)

* धातृनाम *

उपमाता च धात्री सा याऽन्यान् प्रापयति पयः ।
4.601 · p. 135
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 ति (wrong syllable)

* वीरमातृनाम *

वीरसूः वीरमाता सा या सूते वीरमात्मजम् ॥ ८९४ ॥
4.894 · p. 135
अनुष्टुप्metre not read in every line

* श्वश्रूनाम श्वसुरनाम *

श्वश्रूर्माता पतिपत्न्योः श्वसुरस्तु पिता तयोः ।पितरः स्यात् पितुर्वंश्या मातुर्मातामहाः कुले ॥ ८९५ ॥
4.895 · p. 135
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable)

* मातुःपितुश्च नामानि *

मातरपितरौ मातापितरौ पितरौ तथा ।
4.604 · p. 135
metre not recognised

* श्वश्व्राः श्वसुरस्य च नाम *

प्रोक्तं माता पिता चापि श्वश्रूश्वशुरौ श्वसुरौ ॥ ८९६ ॥
4.896 · p. 135
metre not recognised

* पुत्रपुत्रीनाम *

तथा पुत्रश्च पुत्री च पुत्रौ प्रोक्तं महीतले ।
4.606 · p. 136
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 थ्ये (wrong syllable)

* भ्रातुः भगिन्याश्च नाम *

भ्राता च भगिनी चापि भ्रातरौ कथ्येते खलु ॥ ८९७ ॥
4.897 · p. 136
अनुष्टुप्metre not read in every line

* स्वजननामानि *

स्वः स्वजनः सगोत्रश्च ज्ञातिर्बन्धुश्च बान्धवः ।
4.608 · p. 136
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ज (wrong syllable)

* स्वकीयनामानि *

प्रोक्तः पुनः स्वकीयश्च स्व आत्मीयस्तथा निजः ॥ ८९८ ॥
4.898 · p. 136
अनुष्टुप्metre not read in every line

* सपिण्डनाम *

सनाभयः सपिण्डाः स्युः पितुः सप्तान्तर्गता जनाः ।
4.610 · p. 136
अनुष्टुप्metre not read in every linenearly अनुष्टुप्

* नपुंसकनामानि *

क्लीबः षण्ढस्तथा पण्डस्तृतीयाप्रकृतिः किल ॥ ८९९ ॥
4.899 · p. 136
अनुष्टुप्metre not read in every line
शण्ठः शण्ढस्तथा पण्डुः प्रोक्तं नपुंसकं पुनः ।
4.612 · p. 136
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)

* गात्रनामानि *

इन्द्रियायतनं मूर्त्तिः मूर्तिमत् च कलेवरम् ॥ ९०० ॥
4.900 · p. 136
अनुष्टुप्metre not read in every line
अङ्गं गात्रं तनुः क्षेत्रं तनूः संहननं सिनम् ।वपुश्च पुद्गलः पिण्डः कायः प्रजनुकः पुरम् ॥ ९०१ ॥
4.901 · p. 136
अनुष्टुप्
व्याधिस्थानं तथा वेरं चतुःशाखः षडङ्गकम् ।भूधनो विग्रहो वर्ष्म घनो बन्धश्च सञ्चरः ॥ ९०२ ॥
4.902 · p. 137
अनुष्टुप्
शरीरः करणं देहश्चेति नामप्रयोगतः कथ्यते ।
4.616 · p. 137
metre not recognised

* मृतकनाम *

मृतशरीरनामानि मृतकं कुणपं शवः ॥ ९०३ ॥
4.903 · p. 137
metre not recognised

* कबन्धनाम *

शिरो विना च मृतकं कबन्धो रुण्ड उच्यते ।
4.618 · p. 137
अनुष्टुप्

* वयोनामानि *

दशाः प्रायाः वयांसीह कथ्यन्ते काव्यशास्त्रयोः ॥ ९०४ ॥
4.904 · p. 137
अनुष्टुप्

* देहलक्षणनाम *

देहस्य लक्षणं प्रोक्तं सामुद्रं देहलक्षणम् ।
4.620 · p. 137
अनुष्टुप्

* देहावयवनामानि *

एकदेशे प्रतीकोऽङ्गाऽवयवाऽपघना अपि ॥ ९०५ ॥
4.905 · p. 137
अनुष्टुप्
गात्रञ्चापि विजानीयात् शरीरावयवं पुनः ।
4.622 · p. 137
अनुष्टुप्

* मस्तकनामानि *

मस्तकं मस्तिकं मुण्डं मूर्धा मौलिस्तथा शिरः ॥ ९०६ ॥
4.906 · p. 138
अनुष्टुप्
उत्तमाङ्गं तथा शीर्षं वराङ्गं चापिकं पुनः ।कथ्यते करणत्राणं देशनामानि सन्ति वै ॥ ९०७ ॥
4.907 · p. 138
अनुष्टुप्

* केशनामानि *

शिरसिजाः कचाः केशाः तीर्थवाकाश्च कुन्तलाः ।वालाश्च वेल्लिताग्रोऽस्रः चिकुराश्चिहुरास्तथा ॥ ९०८ ॥
4.908 · p. 138
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 सि (wrong syllable)
वृजिनश्चेति नामापि कथ्यते केशवाचके ।
4.626 · p. 138
अनुष्टुप्

* केशपाशनामानि *

सकेशः पाश-रचना-भार-उच्चय उच्यताम् ॥ ९०९ ॥
4.909 · p. 138
अनुष्टुप्
हस्तः पक्षः कलापश्च केशपाशादिकं भवेत् ।
4.628 · p. 138
अनुष्टुप्

* कुटिलकेशनामानि *

अलकः कर्करालश्च खङ्खरश्चूर्णकुन्तलः ॥ ९१० ॥
4.910 · p. 138
अनुष्टुप्
कुटिलकेश इत्यस्ति केशशोभा करक्रिया ।
4.630 · p. 138
metre not recognised

* भ्रमरकनामानि *

भ्रमरकः कुरलश्च ललाटे भ्रमरालकः ॥ ९११ ॥
4.911 · p. 138
metre not recognised

* जूटकनामानि *

धर्मिल्लोऽपि केशवेशो मौलिः जूटक इत्यपि ।
4.632 · p. 139
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 पि (wrong syllable)

* केशवेषनामानि *

कबरी बर्बरी नाम केशवेषश्च पर्परी ॥ ९१२ ॥
4.912 · p. 139
अनुष्टुप्metre not read in every line

* वेणीनामानि *

वेणी वेणिः प्रवेणिश्च प्रवेणी ग्रन्थितालकः ।
4.634 · p. 139
अनुष्टुप्

* शिरस्यनामानि *

शीर्षण्यश्च शिरस्यश्च प्रलोभ्यो निर्मलोऽलकः ॥ ९१३ ॥
4.913 · p. 139
अनुष्टुप्

* सीमन्तनाम *

केशेषु वर्त्म सीमन्तः कथ्यते शिरसि स्थितः ।
4.636 · p. 139
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 द्ध (wrong syllable)

* पलितनाम *

पलितं पाण्डुरः केशः वृद्धवयसि दृश्यते ॥ ९१४ ॥
4.914 · p. 139
अनुष्टुप्metre not read in every line

* शिखानामानि *

चूडा शिखण्डिका केशी केशपाशी तथा शिखा ।
4.638 · p. 139
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 ण्ड (wrong syllable)

* काकपक्षनामानि *

सा बालानां शिखाण्डकः काकपक्षः शिखण्डकः ॥ ९१५ ॥
4.915 · p. 139
अनुष्टुप्metre not read in every line

* मुखनामानि *

आस्यं मुखं वरं वक्त्रं घनं घनोत्तमं चरम् ।आननं वदनं तुण्डं तेरं दन्तालयस्तथा ॥ ९१६ ॥
4.916 · p. 140
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 घ (wrong syllable)
लपनं चेति नामानि मुखस्य सुधयो विदुः ।
4.641 · p. 140
अनुष्टुप्

* ललाटनामानि *

भालं गोधिरलीकञ्च ललाटमलिकं भवेत् ॥ ९१७ ॥
4.917 · p. 140
अनुष्टुप्

* कर्णनामानि *

कर्णः श्रोत्रं महानादः श्रवणं च श्रुतिः श्रवः ।शब्दध्वनिग्रहौ चैव शब्दाधिष्ठानमित्यपि ॥ ९१८ ॥
4.918 · p. 140
अनुष्टुप्
पैञ्जूषश्चेति नामानि कर्णस्य प्रतिभान्ति हि ।वेष्टनं कर्णशष्कुली कथ्यते कर्णपर्पटी ॥ ९१९ ॥
4.919 · p. 140
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 ष्कु (wrong syllable)
पालिश्च कर्णलतिका कर्णाग्रभाग उच्यते ।धारा च कर्णप्रान्तो हि कर्णान्तभाग उच्यते ॥ ९२० ॥
4.920 · p. 140
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ग्र (wrong syllable); pāda 4, syllable 3 न्त (wrong syllable)
कर्णमूलस्य भागस्तु कर्णमूलं च शीलकम् ।कपालकर्णयोर्मध्यभागः शङ्खः स्मृतो बुधैः ॥ ९२१ ॥
4.921 · p. 140
अनुष्टुप्

* नेत्रनामानि *

नेत्रं च नयनं चक्षुर्लोचनं च विलोचनम् ।ईक्षणं दर्शनं दृष्टिर्देवदीपोऽक्षि वै पुनः ॥ ९२२ ॥
4.922 · p. 140
अनुष्टुप्
रूपग्रहोऽम्वकं चैव दृक् चेति कथ्यते बुधैः ।तारा कनीनिका भूयस्तारका रूपग्राहिणी ॥ ९२३ ॥
4.923 · p. 141
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ति (wrong syllable); pāda 4, syllable 5 प (wrong syllable)
सौम्यं वामाक्षि नामास्ति भानवीयञ्च दक्षिणम् ।अनक्षि दोषवन्नेत्रं ख्यातं लोके सदा बुधैः ॥ ९२४ ॥
4.924 · p. 141
अनुष्टुप्

* दर्शननामानि *

निभालनं च निध्यानं दर्शनमवलोकनम् ।ईक्षणं द्योतनं चापि निशमनं निशामनम् ॥ ९२५ ॥
4.925 · p. 141
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 2 र्श (wrong syllable); pāda 4, syllable 3 म (wrong syllable)
तथा निर्वर्णनं चेति नामानि दर्शनस्य हि ।
4.651 · p. 141
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 नि (wrong syllable); pāda 3, syllable 3 वि (wrong syllable)

* कटाक्षनामानि *

अक्षिविकूणितं काक्षः कटाक्षश्चार्धवीक्षणम् ॥ ९२६ ॥
4.926 · p. 141
metre not recognised
अपाङ्गदर्शनं चेति वक्रदृष्ट्या निदर्शनम् ।स्यादुन्मीलनमुन्मेषो नयनोद्घाटनं स हि ॥ ९२७ ॥
4.927 · p. 141
अनुष्टुप्
नयनमीलनं प्रोक्तं निमेषश्च निमीलनम् ।अक्ष्णोर्बाह्यान्तावपाङ्गौ भ्रूरूर्द्धे रोमपद्धतिः ॥ ९२८ ॥
4.928 · p. 141
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 न (wrong syllable)
भ्रकुटिः भ्रुकुटिश्चैवं भ्रूकुटिः भृकुटिस्तथा ।सकोपभ्रूविकारे हि कथ्यते कोविदैः किल ॥ ९२९ ॥
4.929 · p. 141
अनुष्टुप्
भ्रूवोर्मध्ये हि विज्ञेयं कूर्चं कूर्पं च नामनि ।नेत्ररोमणि वै पक्ष्म मन्यते पण्डितैः पुनः ॥ ९३० ॥
4.930 · p. 141
अनुष्टुप्

* नासिकानामानि *

नासिका च नसा नासा नस्या च गन्धनालिका ।नक्रं नर्कुटकं घ्राणं घोणा गन्धवहा तथा ॥ ९३१ ॥
4.931 · p. 142
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
गन्धज्ञा गन्धह्रत् चैव शिङ्घिनी च विकूणिका ।नासिक्यं चेति नामानि नासिकायाः भवन्ति वै ॥ ९३२ ॥
4.932 · p. 142
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 न्ध (wrong syllable)

* ओष्ठनामानि *

ओष्ठोऽधरो रसालेपी रदच्छदश्च वाग्दलम् ।दन्तवस्त्रं च नामाऽपि दशनोच्छिष्ट उच्यते ॥ ९३३ ॥
4.933 · p. 142
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च्छ (wrong syllable)
ओष्ठप्रान्तौ सृक्कणी स्यात् सृक्कि च सृक्किणी तथा ।चिवुक मसिकास्तु चिक्कश्चिक्कमधोऽसिकम् ॥ ९३४ ॥
4.934 · p. 142
metre not recognised

* गल्लनाम *

सृक्वणः परभागस्तु गल्लः स्यात् सर्वदैव हि ।
4.661 · p. 142
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)

* कपोलनाम *

गल्लात् परः कपोलोऽस्ति गण्डः परः कपोलतः ॥ ९३५ ॥
4.935 · p. 142
अनुष्टुप्metre not read in every line
गल्लो गण्डो कपोलश्च समानार्थक एव च ।
4.663 · p. 142
अनुष्टुप्

* हनुनाम *

कपोलाधो हनुर्वाच्यो मुखाधोऽपि हनुर्भवेत् ॥ ९३६ ॥
4.936 · p. 142
अनुष्टुप्

* श्मश्रुनामानि *

आसुरी चास्यलोमं च श्मश्रु कूर्चञ्च व्यञ्जनम् ।कोटं स्याद्दंष्ट्रिका नाम द्राढिका दाढिका तथा ॥ ९३७ ॥
4.937 · p. 143
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 ञ्च (wrong syllable)

* दाढानामानि *

दाढा दंष्ट्रा च जम्भश्च दन्तभेदे त्रयं भवेत् ।
4.666 · p. 143
अनुष्टुप्

* दन्तनामानि *

दन्ताः दंशा द्विजाः दालुः दशना रदना रदाः ॥ ९३८ ॥
4.938 · p. 143
अनुष्टुप्
मल्लकाः खादना भूयः खरुर्मुखखुरस्तथा ।राजदन्तौ तु मध्यस्थावुपरि श्रेणिकौ क्वचित् ॥ ९३९ ॥
4.939 · p. 143
अनुष्टुप्

* जिह्वानामानि *

* तालुनामानि *

काकुदं तालु प्रख्यातं क्वचिद्वक्रदलं तथा ।
4.670 · p. 143
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 लु (wrong syllable)

* लम्बिकानामानि *

सुधास्त्रवा घण्टिका च लम्बिका गलशुण्डिका ॥ ९४१ ॥
4.941 · p. 143
metre not recognised

* ग्रीवानामानि *

धमनिः कन्धरा ग्रीवा शिरोधिश्च शिरोधरा ।रेखा त्रयवती सैव कम्बुग्रीवा निगद्यते ॥ ९४२ ॥
4.942 · p. 144
अनुष्टुप्

* शिरःपीठनामानि *

पुंस्त्रियोश्च खटुः ख्यातः घाटाश्चैव कृकाटिका ।तदर्थे च शिरःपीठं पण्डितैः समुदाहृतम् ॥ ९४३ ॥
4.943 · p. 144
अनुष्टुप्
कृकः स्यात् कन्धरामध्यं कृकपार्श्वौ तु वीतनौ ।ग्रीवाधमन्यौ प्राग्नीले पश्चान् मन्ये कलम्बिके ॥ ९४४ ॥
4.944 · p. 144
अनुष्टुप्

* कण्ठनामानि *

गलो निगरणश्चैव कण्ठः कण्ठस्य कथ्यते ।
4.675 · p. 144
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ल (wrong syllable)

* कण्ठमणिनाम *

मन्ये कण्ठमणिर्नाम काकलकश्च काकलः ॥ ९४५ ॥
4.945 · p. 144
अनुष्टुप्metre not read in every line

* स्कन्धनामानि *

स्कन्धो भुजशिरश्चांसो भुजशिखरमुच्यते ।
4.677 · p. 144
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 2 ज (wrong syllable); pāda 3, syllable 3 क (wrong syllable)

* जत्रुनाम *

सन्धिकरोंऽसगः जत्रु उच्यते जगती जनैः ॥ ९४६ ॥
4.946 · p. 144
metre not recognised

* बाहुनामानि *

बाहुर्बाहा भुजो दोश्च प्रवेष्टः कथ्यते पुनः ।
4.679 · p. 144
अनुष्टुप्

* कक्षनामानि *

दोर्मूलं खण्डिकश्चैव कक्षा च भुजकोटरः ॥ ९४७ ॥
4.947 · p. 145
अनुष्टुप्
स्यादेतयोरधः पार्श्वं कथ्यते पण्डितैः जनः ।
4.681 · p. 145
अनुष्टुप्

* कुर्परनामानि *

कफोणिः कुपरश्चैव कफाणिः कफणिस्तथा ॥ ९४८ ॥
4.948 · p. 145
अनुष्टुप्
भुजामध्यं च बाहूयबाहुसन्धिश्च कूर्परः ।कपोणिः रत्निपृष्ठकं चेति नामानि मन्यते ॥ ९४९ ॥
4.949 · p. 145
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 ष्ठ (wrong syllable)
अधस्तस्याऽऽमणिबन्धादुपबाहु कलाचिका ।प्रकोष्ठः स्यात् प्रगण्डस्तु कूर्परांसान्त उच्यते ॥ ९५० ॥
4.950 · p. 145
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 णि (wrong syllable)

* हस्तनामानि *

करो हस्तः शमः पाणिः पञ्चशाखः शयः सलः ।भुजदलश्च नामानि करस्य मन्यते बुधैः ॥ ९५१ ॥
4.951 · p. 145
अनुष्टुप्metre not read in every line
करस्यादौ मणिबन्धो मणिश्च कथ्यते पुनः ।हस्तस्य मणिबन्धादाकनिष्ठं करभो भवेत् ॥ ९५२ ॥
4.952 · p. 145
अनुष्टुप्metre not read in every line

* अङगुलिनामानि *

अङ्गुली स्यादङ्गुलिश्च करशाखाऽपि कथ्यते ।अङगुरिरङ्गुरी शास्त्रे ह्रस्वान्तोऽपि निगद्यते ॥ ९५३ ॥
4.953 · p. 145
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 3 गुरि (syllable split)
अङ्गुष्ठोऽङ्गगुल इत्यस्ति तर्जनी च प्रदेशिनी ।मध्या च मध्यमा ज्येष्ठा सावित्री स्यादनामिका ॥ ९५४ ॥
4.954 · p. 145
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कनीनिका कनिष्ठा च व्यवहारे प्रयुज्यते ।अवहस्तः प्रसिद्धोऽपि कथ्यते हस्तपृष्ठतः ॥ ९५५ ॥
4.955 · p. 146
अनुष्टुप्

* नखनामानि *

कामाङ्कुशो भुजाकण्टः करजः पाणिजस्तथा ।कररुहः करशूकः पुनर्भवः पुनर्नवः ॥ ९५६ ॥
4.956 · p. 146
अनुष्टुप्metre not read in every line
महाराजो नखश्चैव नखरश्चापि कथ्यते ।प्रदेशिन्यादिभिः सार्द्धमङ्गुष्ठे वितते सति ॥ ९५७ ॥
4.957 · p. 146
अनुष्टुप्
प्रादेशश्चापि तालश्च गोकर्णस्तदनन्तरम् ।वितस्तिः कथ्यते भूयो जगति पण्डितैः जनः ॥ ९५८ ॥
4.958 · p. 146
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ति (wrong syllable)
प्रसारिताङ्गुलौ पाणौ प्रहस्तः प्रतलस्तलः ।चपेटस्तालिका तालश्चेति हस्तस्य पञ्जकः ॥ ९५९ ॥
4.959 · p. 146
अनुष्टुप्
कथ्यते तौ युतौ सिंहतलः संहतलस्तथा ।
4.694 · p. 146
अनुष्टुप्

* मुष्टिनामानि *

संपिण्डिताङ्गुलिः पाणिर्मुचुटो मुचुटिः पुनः ॥ ९६० ॥
4.960 · p. 146
अनुष्टुप्
मुष्टिर्मुस्तुश्च सङ्ग्राहोऽर्द्धमुष्टिः खटकस्तु वै ।प्रसृतः प्रसृतिः पाणिः कुब्जितः कथ्यते किल ॥ ९६१ ॥
4.961 · p. 146
अनुष्टुप्
पुनश्च प्रसृतौ हस्तौ साप्यञ्जलिर्हि मन्यते ।प्रसृते च द्रवाधारे गण्डूषश्चुलुकस्तथा ॥ ९६२ ॥
4.962 · p. 147
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ञ्ज (wrong syllable)
चलुश्च चलुकश्चेति कथ्यते कोविदैः सदा ।हस्तः प्रामाणिको मध्ये मध्यमाङ्गुलिकूर्परम् ॥ ९६३ ॥
4.963 · p. 147
अनुष्टुप्
बद्धमूले भवेद्रत्निररत्नर्निष्कनिष्ठिकः ।तिर्यग्बाहू प्रसारितौ न्यग्रोधश्च तनूतलः ॥ ९६४ ॥
4.964 · p. 147
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 रि (wrong syllable)
बाहुचापो वियामश्च व्यायामो व्यामकः पुनः ।ऊर्ध्वीकृतभुजाहस्त-नरमानं तु पौरुषम् ॥ ९६५ ॥
4.965 · p. 147
अनुष्टुप्

* जानुमात्रनामानि *

जानुमात्रं जानुदध्नं जानुद्वयसमित्यपि ।पुरुषमात्रं नृदध्नं पुरुषद्वयसं पुनः ॥ ९६६ ॥
4.966 · p. 147
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 3 ष (wrong syllable)
प्रमाणार्थे खलु मात्रं द्वयसं दध्न ऊह्यताम् ।
4.702 · p. 147
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 लु (wrong syllable)

* पृष्ठवंशनाम *

रीढकः पृष्ठवंशश्च स्यात् पृष्ठचरमस्तनोः ॥ ९६७ ॥
4.967 · p. 147
अनुष्टुप्metre not read in every line

* उत्सङ्गनामानि *

अङ्कः क्रोड उपस्थश्च पुनरुत्सङ्ग इत्यपि ।देहस्य पूर्वभागो हि कथ्यते पण्डितैः किल ॥ ९६८ ॥
4.968 · p. 147
अनुष्टुप्

* वक्षनामानि *

उरश्च हृदयस्थानं क्रोडा क्रोडं भुजान्तरे ।वत्सो वत्सं तथा वक्षश्चेति जगति मन्यते ॥ ९६९ ॥
4.969 · p. 148
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 ति (wrong syllable)

* हृदयनामानि *

गुणाधिष्ठानकं हृत् च हृदयं च स्तनान्तरम् ।असहं च त्रसं मर्मचरं मर्मवरं तथा ॥ ९७० ॥
4.970 · p. 148
अनुष्टुप्

* कुचनामानि *

स्तनौ कुचौ च वक्षोजौ धरणौ च पयोधरौ ।उरसिजौ तथोरोजौ जानीयान्नाम सप्तकम् ॥ ९७१ ॥
4.971 · p. 148
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 सि (wrong syllable)

* स्तनमुखनामानि *

स्तनाग्रं स्तनवृन्तञ्च स्तनमुखञ्च मेचकः ।स्तनशिखा च पिप्पलः चूचुकं चेति मन्यते ॥ ९७२ ॥
4.972 · p. 148
metre not recognised

* उदरनामानि *

पिचण्डो मलुकः कुक्षिः गर्भश्च जठरोदरे ।तुन्दं रोमलताधारः तुन्दिश्च कथ्यते बुधैः ॥ ९७३ ॥
4.973 · p. 148
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)

* यकृन्नामानि *

कालखण्डं च कालेयं कालखञ्जं कालकम् ।यकृत् चेत्यादि नामानि मन्यते यकृतो बुधः ॥ ९७४ ॥
4.974 · p. 148
अनुष्टुप्metre not read in every linenearly अनुष्टुप्

* क्लोमनामानि *

दक्षिणे क्लपुषं क्लोमं ताड्यं च तिलकं तथा ।कथ्यते क्लोम वामे तु पुष्पसो रक्तफेनजः ॥ ९७५ ॥
4.975 · p. 149
अनुष्टुप्

* प्लीहानाम *

प्लीहा गुल्मोऽपि वामे हि मांसपिण्डो निगद्यते ।
4.712 · p. 149
अनुष्टुप्

* अन्त्रनाम *

कुक्षावन्त्रं पुरीतच्च कथ्यतेऽपि पुरीतति ॥ ९७६ ॥
4.976 · p. 149
अनुष्टुप्

* रोमलतानाम *

रोमावली रोमलता नाभौ रोमोद्गमः स्मृतः ।
4.714 · p. 149
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 पि (wrong syllable)

* नाभिनामानि *

नाभिश्च तुन्दकूपिका सिरामूलं पुतारिका ॥ ९७७ ॥
4.977 · p. 149
अनुष्टुप्metre not read in every line

* मूत्राशयनामानि *

नाभेरधो मूत्राशयः बस्तिर्मूत्रपुटं भवेत् ।
4.716 · p. 149
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 त्रा (wrong syllable); pāda 4, syllable 3 श्च (wrong syllable)

* अवलग्ननामानि *

अवलग्नं विलग्नं च मध्यश्च मध्यमः स्मृतः ॥ ९७८ ॥
4.978 · p. 149
metre not recognised

* कटिनामानि *

कटिः कटः कटीरञ्च कलत्रञ्च ककुद्मती ।श्रोणिः काञ्चीपदं चेति नामानि प्रथितानि वै ॥ ९७९ ॥
4.979 · p. 150
अनुष्टुप्

* नितम्बनाम *

आरोहश्च नितम्बोऽपि स्त्रीकट्याः पश्चभाग्भवेत् ।
4.719 · p. 150
अनुष्टुप्

* जघननाम *

जघनं मन्यते विश्वे स्त्रीकट्या अग्रतः पुनः ॥ ९८० ॥
4.980 · p. 150
अनुष्टुप्