खटिनी
khaṭinīस्त्री · fem.In 7 kośas: 8 synonym verses.
genderस्त्रीfem.
स्फटी तु स्फटिकी श्वेता रङ्गाङ्गा रङ्गदा पुनः ।अपि रङ्गदृढा चाथ खटिनी खटिका खटी ॥ ५८८ ॥
अनुष्टुप्
genderस्त्रीfem.
गुञ्जा स्त्रियां सुवर्णादिजन्मभूर्द्धातुकः पुमान् ।शुक्लधातौ पाकशुक्ला कठिनी खटिनी खटी ॥ २४ ॥
अनुष्टुप्
genderस्त्रीfem.
गिरिमृच्चवनीरक्तं(?) मृदु स्यात्स्वर्णगैरिकम् ।शुक्लधातुः पाकशुक्ला कठिनी खटिनी खटी ॥ ५२ ॥
अनुष्टुप्
genderस्त्रीfem.
ग्रावोपलौ प्रस्तरश्च गण्डशैलाश्च्युताः शिलाः ।खटी तु कठिनी शुक्लधातुः स्यात्खटिनीत्यपि ॥ ३१५ ॥
अनुष्टुप्
genderस्त्रीfem.
खटिका खटिनी सौधा शैलेयं मर्कटप्रियम् ।स्फाटिकः स्फाटिकोकीश्मा? चन्द्राश्मा चन्द्रकान्तकः ॥ १२४ ॥
अनुष्टुप्
genderस्त्रीfem.
पाकशुक्ला तथा शुक्लधातुश्च खटिनी खटी ।कठिनी चेति नामानि खटिन्याः कथयन्ति वै ॥ १७९० ॥
अनुष्टुप्
genderस्त्रीfem.
गवेरुकं च कस्सटी खटिनी च खटीयुता ।कठिन्यां ताम्र ऊदम्बमुदुम्बुरमुडुम्बरम् ॥ ७४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 स्स (wrong syllable)
genderस्त्रीfem.