कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

गण्डशैल

gaṇḍaśailaपुं · masc.

In 12 kośas: 11 synonym verses, 3 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.155 · p. 40
स्नुः प्रस्थः सानुरश्मा तु पाषाणः प्रस्तरो दृषत् ॥ १०३५ ॥ग्रावा शिलोपलो गण्डशैलाः स्थूलोपलाश्च्युताः ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह शैलवर्गः Amarakośa 2.3.6
दरी तु कन्दरो वा स्त्री देवखातबिले गुहा ।गह्वरं गण्डशैलास्तु च्युताः स्थूलोपला गिरेः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.168 · p. 21
शिलोपलाश्मपाषाणग्रावाणः प्रस्तरो दृषत् ।गलिताः स्थूलपाषाणा गण्डशैला इति स्मृताः ॥ १६८ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर एकादशोपदेशः Bālaprabodhikā 11.188 · p. 83
गण्डशैलास्तु पाषाणाः स्थूला वप्रगता गिरेः ।उपत्यका त्वघोभूमिरद्रेरूर्ध्वमधित्यका ॥ १८८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शैलवर्गः Koṣakalpataru 2.2.16 · p. 128
अधित्यका तूर्ध्वभूमिरासन्ना भूरुपत्यका ।स्थूलोच्चयो गण्डशैलश्च्युतः स्थूलोपलो गिरेः ॥ १६ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.315 · p. 43
ग्रावोपलौ प्रस्तरश्च गण्डशैलाश्च्युताः शिलाः ।खटी तु कठिनी शुक्लधातुः स्यात्खटिनीत्यपि ॥ ३१५ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त शैलमरीचिः Pañcatattvaprakāśa 1.2.121 · p. 9
शैलाग्रं शिखरं प्रस्थः स्रुः शिलोच्चयमस्तकम् ।क्ष्माभृन्नितम्बः कटको गण्डशैलाः च्युतोपलाः ॥ १२१ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1788 · p. 292
उपलश्चेति नामानि मन्यन्ते प्रस्तरस्य वै ।कथिता गण्डशैलाश्च स्थूलोपलाश्च्युताः खलु ॥ १७८८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश शैलवर्गप्रकाशः Śabdaratnāvalī 3.3.16 · p. 56
गण्डशैलास्तु ते शैलाच्च्युताः स्थूलोपलाश्च ये ।खनिः खानिः खनी खानी वाकरो रत्नजन्मभूः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पर्वताध्यायः Śabdaratnākara 2.2.414 · p. 55
गिरेरुपत्यकाधोभूरूर्ध्वभूमिरधित्यका ।स्थूलोपला गिरेर्भ्रष्टा गण्डशैलाश्च गण्डकाः ॥ ४१४ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश शैलाध्यायः Vaijayantī 3.2.9 · p. 41
गंडशैलास्तु पाषाणाः स्थूलाः प्रगलिता गिरेः ।उपत्यका त्वधोभूमिर्गिरेरूर्ध्वमधित्यका ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.doubtful
धरणिकोश Dharaṇikośa · धरणिदास लार्धश्लोकः Dharaṇikośa 27.2.48 · p. 198
गण्डशैलो ललाटे स्यात्प्रस्तरे च गिरिच्युते ।खतमालः स्मृतो धूमे खतमालो बलाहकः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ लान्ताः Koṣakalpataru 6.28.77 · p. 355
नीपतरौ च मलप्वां कोशविदो बहुफलामाहुः ।भालेऽपि गण्डशैलो गिरितः स्थूलोपले भ्रष्टे ॥ ७७ ॥
उपगीतिः
शब्दरत्नावली Śabdaratnāvalī · मथुरेश लान्ताः Śabdaratnāvalī 7.28.106 · p. 284
खतमालो घने धूमे गन्धमालोऽनिले रवौ ।गण्डशैलो गिरिध्वस्तस्थूलग्रावकपालयोः ॥
अनुष्टुप्