All kośas › Koṣakalpataru
कोषकल्पतरु Koṣakalpataru
6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)
भूकाण्डः · शैलवर्गः
। इति पुरवर्गः ।
शैलवर्गः
शिलोच्चयो * * भूभृद्धर-भूधर-पर्वताः ।कुध्रः कुव्रीलः(?) कुट्टारो नगो ग्रावाचलो गिरिः ॥ १ ॥
2.2.1 · p. 127
metre not recognised
शिखरी सानुमानद्रिरहार्यः कन्दराकरः ।वातंधमोऽपि जीमूतो दन्ती गोत्राग-कूटिनः ॥ २ ॥
2.2.2 · p. 127
अनुष्टुप्
अविर्बलाहकोऽथोपगिरं स्यादुपगिर्यपि ।उदयः पूर्वशैलः स्यादस्ताद्रिश्चाञ्जनागिरिः ।उदगद्रिश्चाद्रिराजो मेनकेशो हिमालयः ॥ ३ ॥
2.2.3 · p. 127
अनुष्टुप्metre not read in every line
हिमवांश्च हिमप्रस्थो भवानीजनकस्तथा ।हिरण्यनाभो मैनाकः सुनाभश्च तदात्मजाः ॥ ४ ॥
2.2.4 · p. 127
अनुष्टुप्
मेनका तस्य कान्ताथ क्रौञ्चः क्रुञ्चोऽपि कौञ्चवत् ।मलयोऽस्त्री दक्षिणाद्रिराषाढे जकुटोऽस्त्रियाम् ॥ ५ ॥
2.2.5 · p. 127
अनुष्टुप्
माल्यवान्स्यात्प्रस्रवणो विन्ध्यः स्याज्जलवालकः ।इन्द्रकीलो मन्दरः स्यान्मन्थाना[13a]द्रिरपि स्मृतः ॥ ६ ॥
2.2.6 · p. 127
metre not recognised
शत्रुंजयस्तु विमलशैलो रैवतकः पुनः ।उज्जयन्तः सुदारुस्तु पारियात्रक उच्यते ॥ ७ ॥
2.2.7 · p. 127
अनुष्टुप्
सुवेलस्तु त्रिमुकुटस्त्रिकूटस्त्रिककुच्च सः ।रौहणो मणिगर्भः स्याच्छ्रीशैलः स्कन्दपर्वतः ॥गोवर्धनो हरिच्छत्रं महेन्द्रस्त्विन्द्रपर्वतः ।लोकालोकश्चक्रवालश्चक्रवाडोऽपि कथ्यते ॥ ८ ॥
2.2.8 · p. 127
अनुष्टुप्
शैलभेदास्तु निषधो गन्धमादनमस्त्रियाम् ।ऋक्षः सह्यश्चित्रकूटो भाकूटोऽन्ये च भूरिशः ॥ ९ ॥
2.2.9 · p. 127
अनुष्टुप्
हिमवान्हेमकूटश्च निषधो मेरुरेव च ।चैत्रः शृङ्गी च कर्णी च सप्तैते वर्षपर्वताः ॥ १० ॥
2.2.10 · p. 127
अनुष्टुप्
महेन्द्र-शुक्ति-मलय-पारियात्रक-ऋक्षकाः ।सह्यो विन्ध्य इमे सप्त कुलशैलाः प्रकीर्तिताः ॥ ११ ॥
2.2.11 · p. 128
अनुष्टुप्
पर्वतीयं पार्वतं च त्रिषु पर्वतजं फलम् ।पर्वतीयो नरस्तादृक् नैषधं त्विदमादिशः ॥ १२ ॥
2.2.12 · p. 128
अनुष्टुप्
शैलाग्रं शृङ्ग-शिखर-कूटानि त्री[13b]णि न स्त्रियाम् ।कूटनिः(?) स्त्री नितम्बोऽद्रेर्मेखला कटकोऽस्त्रियाम् ॥ १३ ॥
2.2.13 · p. 128
अनुष्टुप्metre not read in every line
भृगुः प्रपातोऽप्यतटः स्त्रियां दरदपि स्मृता ।बहिर्निर्गतदेशस्तु प्राग्भारो दन्तको गिरेः ।द्रोणिस्तु शैलयोः संधिः पादाः प्रत्यन्तभूधराः ॥ १४ ॥
2.2.14 · p. 128
अनुष्टुप्
दरी गुहा कन्दरी च कन्दरास्त्रिषु कन्दरः ।कटीरं गह्वरं त्वस्त्री स्नुः प्रस्थः सानुरस्त्रियौ ॥ १५ ॥
2.2.15 · p. 128
अनुष्टुप्
अधित्यका तूर्ध्वभूमिरासन्ना भूरुपत्यका ।स्थूलोच्चयो गण्डशैलश्च्युतः स्थूलोपलो गिरेः ॥ १६ ॥
2.2.16 · p. 128
अनुष्टुप्
पाषाणः प्रस्तरो ग्रावा काठोऽश्मास्त्र्युपलः शिला ।शिलेयं स्याच्च शैलेयं शिलावत्त्रिषु यद्धनम् ।शिला दृषत्स्त्रियः पट्टः पेषणाश्मा दधद्(?) स्त्रियाम् ॥ १७ ॥
2.2.17 · p. 128
अनुष्टुप्
घर्घनालः शिलापुत्रो गृहाश्मा गृहकच्छपः ।घरट्टः पेषयन्त्रं स्याद्रुचकं गन्धपेषणी ।भैषज्यपेषणी खल्वो नारकीटोऽश्मकीटकः ॥ १८ ॥
2.2.18 · p. 128
अनुष्टुप्
अमृताश्मो भवेज्जातौ पिण्डा[14a]श्मो नाम्नि च स्मृतः ।आश्ममश्ममयं च स्याद्विकारोऽथाश्मनं परम् ॥ १८ ॥
2.2.18 · p. 128
अनुष्टुप्metre not read in every line
उद्देशो गण्डकूपोऽद्रेः खनिः खानिः स्त्रियामुभे ।आकरो ना द्वयोर्गञ्जा चाथाकरिक-खानिकौ ।त्रिष्वाकरे नियुक्तौ यौ रुमा स्त्री लवणाकरः ॥ १९ ॥
2.2.19 · p. 128
अनुष्टुप्
रुमण्वाल्लँवणाद्रिः स्यात्कबरं लवणं रुम ।तीक्ष्णं क्षारं च न द्वंद्वे पटु वारिरसं तथा ॥ २० ॥
2.2.20 · p. 129
अनुष्टुप्metre not read in every line
सैन्धवोर्मा( ना? ) माणिमन्थं माणिबन्धं यदुत्तमम् ।वरं शीतशिवं चाथ रोमकं स्याद्रुमाभवम् ॥ २१ ॥
2.2.21 · p. 129
अनुष्टुप्
वसूकं वसुकं चाथ बिडं पाक्यं च कृत्रिमम् ।सौवर्चलं हृद्यगन्धं रुचकं चाक्षमित्यपि ॥ २२ ॥
2.2.22 · p. 129
अनुष्टुप्
तद्दुर्गन्धं शूलहृत्स्यान्नीलकं यदि मेचकम् ।तीक्ष्णं सामुद्रमक्षीबं वशिरः कटकोऽस्त्रियाम् ॥ २३ ॥
2.2.23 · p. 129
अनुष्टुप्
यवक्षारस्तु पाक्यः स्याद्यावशूको यवाग्रजः ।यवनालज उक्तोऽथ स्वर्जिः स्रुग्घ्नी सुवर्चिका ॥ २४ ॥
2.2.24 · p. 129
अनुष्टुप्
स्वर्जिका सर्जिकाक्षारः कापोतः सु[14b]खवर्चकः ।योगवाही टङ्कणस्तु मालतीतीरसंभवः ॥ २५ ॥
2.2.25 · p. 129
metre not recognised
रसशोधी पाचनको लोहश्लेषणकोऽपि सः ।चूर्णोऽस्त्रियां सुधा तु स्त्री क्षारे ताम्बूलपौगिके ।औद्भिदं पांसुजं शाकंभरं तत्स्थानसंभवम् ॥ २६ ॥
2.2.26 · p. 129
अनुष्टुप्metre not read in every line
धूर्तं तु खण्डलवणं संसृष्टे लवणस्त्रिषु ।सैन्धवं रुचकं पाक्यं सामुद्रं चौद्भिदं तथा ।स्यात्पञ्चलवणं पांसूत्थेन षड्लवणं भवेत् ॥28 ॥
2.2.28 · p. 129
अनुष्टुप्
सौभाञ्जनपलाकास्तु क्रिलापामार्गमुज्झुकैः (?) ।यवजस्वर्जिकायुक्तैः क्षाराष्टकमुदाहृतम् ॥त्रिषु लावणिकः प्रोक्तो यः स्याल्लवणविक्रयी ।धातुः पुमान्गैरिकोऽस्त्री रक्तग्रावा गवेरुकम् ॥ २७ ॥
2.2.27 · p. 129
अनुष्टुप्
गिरिमृच्चवनीरक्तं(?) मृदु स्यात्स्वर्णगैरिकम् ।शुक्लधातुः पाकशुक्ला कठिनी खटिनी खटी ॥ ५२ ॥
2.2.52 · p. 129
अनुष्टुप्
सितरङ्गा मको(क्को)लो ना गौरग्रावा सितोपलः ।काक्षी काच्छी सती मृत्स्ना सौराष्ट्री पार्वती तथा ।तुबरी पर्पटकं कंसोद्भवाढक्यौ मृतालिका ॥ २९ ॥
2.2.29 · p. 130
अनुष्टुप्metre not read in every line
[15a]कालिका वाथ कासीसं धातुकासीस-खेचरे ।स्याद्धातुशेखरं पुष्पकासीसं त्वक्षिभेषजम् ॥ ३० ॥
2.2.30 · p. 130
अनुष्टुप्
लोमशं कंसकं च स्यात्कुनटी तु मनःशिला ।मनोगुप्ता नागमाता गोला दिव्यौषधिः शिला ॥ ३१ ॥
2.2.31 · p. 130
अनुष्टुप्
नागजिह्वा च नेपाली करवीरा च रोचना ।रसनेत्री च पाली च मनोह्वा नागरक्तकम् ॥ ३३ ॥
2.2.33 · p. 130
अनुष्टुप्
सिन्दूरं चीनपिष्टं च नागरेणुश्च नागजम् ।शृङ्गारभूषणं नागगर्भं श्रीमदपि स्मृतम् ॥
2.2.35 · p. 130
अनुष्टुप्
रक्तचूर्णं च गन्धारं रक्तवालुकमित्यपि ।वसन्तमण्डनं चाथ हिङ्गुलिर्हिङ्गुलोऽस्त्रियाम् ॥ ३३ ॥
2.2.33 · p. 130
अनुष्टुप्
दारदो हंसपादः स्यात्कुरुबिन्दोऽपि रक्तकः ।मणिरागकरो म्लेच्छो नरि स्याद्रक्तपारदः ॥अर्बुदोत्थं सीससत्त्वं तथा चोदारसङ्गकम् ।हरितालमलं तालमालं न स्त्री बिडालकम् ॥ ३४ ॥
2.2.34 · p. 130
अनुष्टुप्
वङ्गारिर्लोमहृद्विस्रद्गन्धि स्याद्वंशपत्रकम् ।गोदन्तं पीतनं च स्यात्खर्जूरं पिञ्जरं समम् ॥ ३५ ॥
2.2.35 · p. 130
अनुष्टुप्
पीतनं पिञ्ज[15b]नं क्लीबे भवेत्तन्नटमण्डनम् ।तुत्थं तुत्थाञ्जनं शस्यं शिखिग्रीवं मयूरकम् ॥ ३६ ॥
2.2.36 · p. 130
अनुष्टुप्metre not read in every line
मूषातुत्थं कांस्यनीलं हेमतारं वितुन्नकम् ।भवेत्कर्परिकासङ्गममृतासङ्गमञ्जनम् ॥ ३७ ॥
2.2.37 · p. 130
अनुष्टुप्
रसगर्भं तार्क्ष्यशैलं तार्क्ष्यजं तार्क्ष्यमित्यपि ।रसाञ्जनं तुत्थदार्वी रसक्वाथसमुद्भवः ॥ ३८ ॥
2.2.38 · p. 130
अनुष्टुप्
स्रोतोञ्जनं तु कापोतं स्रोतोजं च नदीभवम् ।सौवीरं यामुनं कृष्णं रीतिपुष्पं तु पौष्पकम् ॥ ३९ ॥
2.2.39 · p. 130
अनुष्टुप्
पुष्पाञ्जनं च गदितं पुष्पकेतनमित्यपि ।क्षारः काचः सितस्त्वेष देवलः परिकीर्तितः ॥ ४० ॥
2.2.40 · p. 130
अनुष्टुप्
चक्षुष्या तु कुलाली स्यात्तथारण्यकुलत्थिका ॥ ४१ ॥
2.2.41 · p. 131
गन्धाश्मा गन्धको लेलीतको लेली च गन्धिकः ॥ ४४ ॥
2.2.44 · p. 131
सौगन्धिकः शुल्बवैरी पामारिः कुष्ठहृद्बलिः ।वैगन्धिकः कीरपुच्छोऽस्त्रियां वलिवसा च सा ॥ ४१ ॥
2.2.41 · p. 131
अनुष्टुप्
मानिनीपुष्पमप्यत्र ताप्यं स्त्री तु न माक्षिकः ।कदम्बश्चक्रनामा च तारारिरजनाम[16a]कः ।नदीभवश्च तापीयः कामारिर्विटमाक्षिकः ।आवर्तश्चाम्बुधातुश्च शुक्लोऽसौ तारमाक्षिकः ।कङ्कुष्ठं काक(ल)कुष्ठं च विडङ्गं रङ्गनायकम् ॥ ४२ ॥
2.2.42 · p. 131
अनुष्टुप्metre not read in every line
रेचनं पुलकं ह्रासं शोधनं काकवालुकम् ।वलि-गैरिक-कासीस(?)काङ्क्षी-तालशिलाञ्जनम् ॥ ४३ ॥
2.2.43 · p. 131
अनुष्टुप्
कङ्कुष्ठं चेत्युपरसाः प्रोक्ताः पारदकर्मणि ।अस्त्री स्यादश्मनिर्यासः शिलाजत्वर्थ्यमश्मजम् ॥ ४४ ॥
2.2.44 · p. 131
अनुष्टुप्
गैरेयं गिरिजं चेन्द्रजतु स्याज्जतुपार्वतम् ।धातुजं च शिलाह्वं च शिलानिष्यन्दजं च तत् ॥ ४५ ॥
2.2.45 · p. 131
अनुष्टुप्
अभ्रं स्यादभ्रकं व्योमाभिधं विमलमद्रिजम् ।गिरिजामलमच्छं तदमलं गिरिजं समे ॥ ४६ ॥
2.2.46 · p. 131
अनुष्टुप्
कृष्णाभ्रकप्रभेदौ स्तो भेकं दार्दुरमित्यपि ।धान्याभ्रं शोधितं तत्स्याच्छृङ्गाराभ्रं तु योगिकम् ॥ ४७ ॥
2.2.47 · p. 131
अनुष्टुप्
रसो रसेन्द्रः सूतश्च पारदः पारतोऽस्त्रियाम् ।हरबीजं च चपलः स्वामी स्नेहनिधिश्चलः ॥ ४७ ॥
2.2.47 · p. 131
अनुष्टुप्
सर्वं तु तै[16b]जसं लोहं तान्यष्टौ हेमरूप्यकम् ।ताम्रं रीतिः सीस-कांस्ये त्रपु पारशवं तथा ॥ ४८ ॥
2.2.48 · p. 131
metre not recognised
चाम्पेयं हाटकं भर्म भूरि चामीकरं वसु ।कल्याणं कनकं रुक्मं रिक्थं काञ्चन-कर्बुरे ॥ ४९ ॥
2.2.49 · p. 131
अनुष्टुप्
कार्तस्वरं शातकुम्भं भूत्तमं भूषणोत्तमम् ।गारुडं गैरिकं पारग्गाङ्गेयं पुरटार्जुने ॥ ५० ॥
2.2.50 · p. 132
अनुष्टुप्
पिञ्जरं पीतकं जातरूपं लक्ष्मीनिकेतनम् ।तपनीयाग्निवक्राग्निबीज-हेम-सुलोहकम् ॥ ५१ ॥
2.2.51 · p. 132
अनुष्टुप्
स्यान्महारजतं जाम्बूनदं च कलधौतकम् ।चारुरत्नं च पिङ्गाशं हरिणं काचिघः पुमान् ।हारिद्रं स्त्री तु सुरभि डूर्वर्णिः(?)सानसिश्च राः ॥ ५२ ॥
2.2.52 · p. 132
अनुष्टुप्
हिरण्यमस्त्रियां हेमं निष्कमष्टापदं गमत् ।स्वर्णं सुवर्णं रजतं कुमारं त्विदमुत्तमम् ॥ ५३ ॥
2.2.53 · p. 132
अनुष्टुप्
अलंकारसुवर्णं तु शृङ्गीकनकमायुधम् ।शृङ्गी स्त्रियां चाथ हेमविकारे स्याद्धिरण्मयम् ॥ ५५ ॥
2.2.55 · p. 132
अनुष्टुप्
त्रिषु प्रतिकृतिस्त्वस्य हरिणी च हिरण्मयी ।वर्णावलीपरीक्षार्थं स्था[17a]पितेऽस्याल्पभागकः ।अकुप्यं च हिरण्यं च कोषः कोशोऽस्त्रियामुभौ ॥ ५५ ॥
2.2.55 · p. 132
अनुष्टुप्metre not read in every line
कृतेऽकृते हेम्नि रूप्ये कुप्यं त्वाभ्यां परं हि यत् ।आहतं तद्द्वयं रूप्यमथ स्याद्रजतोऽस्त्रियाम् ॥ ५६ ॥
2.2.56 · p. 132
अनुष्टुप्
रूप्यं च कलधौतं च तारं श्वेतं हिमांशु च ।खर्जुरं च भवेद्धंसाह्वयं च कुमुदाह्वयम् ॥ ५७ ॥
2.2.57 · p. 132
अनुष्टुप्
हेम्नि रूप्ये च संश्लिष्टे न स्त्रियां घनगोलकः ।ताम्रं शुल्वं म्लेच्छमुखमौदुम्बरमुदुम्बरम् ॥ ५८ ॥
2.2.58 · p. 132
अनुष्टुप्
द्व्यष्टं वरिष्ठं सूर्याङ्गं रक्तकं मुनिपित्तलम् ।मर्कटास्यं शाबराख्यं सूर्याह्वं ब्रह्मवर्धनम् ॥ ५९ ॥
2.2.59 · p. 132
अनुष्टुप्
हेम्नि तारे च ताम्रे च संसृष्टे स्यात्त्रिलोहकम् ।रिरी रीरी च रीतिः स्त्री पीतलोहं सुलोहकम् ॥ ६० ॥
2.2.60 · p. 132
अनुष्टुप्
सुवर्णकं कीशलोहमारः स्त्री पित्तला न ना ।सिंहलं चारकूटोऽस्त्री राजरीतिर्महेश्वरी ॥ ६१ ॥
2.2.61 · p. 132
अनुष्टुप्
ब्राह्मी स्यात्कपिला राज्ञी ब्रह्मरीतिरथानरि ।कांस्यं विद्युत्प्रियं पञ्चलोहं घोषं प्रकाशकम् ॥ ६२ ॥
2.2.62 · p. 132
अनुष्टुप्
घण्टाशब्दं[17b]वङ्गशुल्वभवं रवण-लोहजे ।कंसं कंसास्थि वाथास्मिन्सौराष्ट्रं पञ्चलोहकम् ॥ ६३ ॥
2.2.63 · p. 132
अनुष्टुप्metre not read in every line
वर्त्तलोहं वर्त्तकं स्यादथ नागं सुवर्णकम् ।गण्डूपदभवं वप्रं वर्ध्रं योगेष्ट-सीसके ॥ ६४ ॥
2.2.64 · p. 132
अनुष्टुप्
यवनेष्टं सुवर्णारि सीसपत्रं वरिष्ट(ष्ठ ?)कम् ।सिन्दूरं तच्चीनपिष्टं सिन्दूरतिलकोऽस्त्रियाम् ॥ ६५ ॥
2.2.65 · p. 132
अनुष्टुप्
वङ्ग रङ्गः स्वर्णभवं पिच्चटं नागजीवनम् ।मृद्वङ्गं तमरं चक्रसंज्ञं कास्तीरकं त्रपु ॥ ६६ ॥
2.2.66 · p. 132
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्व (wrong syllable)
सिंहलं गुरुपत्रं स्यादालीनं नागसंभवम् ।त्रिषु त्रपुविकारे स्यात्त्रापुषं वाङ्गमित्यपि ॥ ६७ ॥
2.2.67 · p. 132
अनुष्टुप्
लोहोऽस्त्री गिरिसारं स्याच्छिलासारमयो घनम् ।शस्त्रं पिण्डं पारशवं तीक्ष्णं कालायसं तथा ॥ ६८ ॥
2.2.68 · p. 132
अनुष्टुप्
पिण्डाश्ममश्मसारं च कृष्णं वीरं च पीवरम् ।अयं च काठवीरं च स्थुलायाः श्राणमन्तिमे ॥ ६९ ॥
2.2.69 · p. 132
अनुष्टुप्
गौरीः स्त्री लोहचूर्णं स्यादथ शिङ्घाणमस्त्रियाम् ।धूर्त-मण्डूर-सरण-किट्टालानि च तन्मले ॥ ७० ॥
2.2.70 · p. 132
अनुष्टुप्
द्वयोर्मणि[18a]श्चारुशिला रत्नं वसु तु न द्वयोः ।सम्यकस्त्वाकरे शुद्धो मण्यादिर्भेद्यलिङ्गकः ।हीरकः शिखरी पुंसि दधीच्यस्थि वरारकम् ॥ ७१ ॥
2.2.71 · p. 132
अनुष्टुप्metre not read in every line
सूचीमुखं रत्नमुख्यं वज्राह्वं चाथ सुन्दरम् ।गोमेदकं पीतमणिस्तथा तृणचरं मतम् ॥ ७२ ॥
2.2.72 · p. 132
अनुष्टुप्
गारुत्मतं मरकतमश्मगर्भो हरिन्मणिः ।इन्द्रनीलो मसारः स्यान्नीलको मन्दरश्च सः ॥ ७३ ॥
2.2.73 · p. 132
अनुष्टुप्
कुरुविन्दो लोहितकः शोणोऽस्त्री पद्मरागकः ।श्रीपुष्पं च सुरक्तं च माणिक्यं हंसपादकम् ॥ ७४ ॥
2.2.74 · p. 132
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 लो (wrong syllable)
शिखरोऽस्त्री तस्य खण्डं वैडूर्यं वालवायजम् ।प्रवालोऽस्त्री विद्रुमो ना रक्ताङ्गो हेमकन्दलः ॥ ७५ ॥
2.2.75 · p. 132
अनुष्टुप्
लतामणी रक्तकन्दोऽथार्काश्मा दहनोपलः ।सूर्यकान्तः सूर्यमणिश्चन्द्रकान्तो विधूपलः ॥ ७६ ॥
2.2.76 · p. 134
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 सू (wrong syllable)
चान्द्रश्चन्द्रमणिः स्वच्छो गल्वर्कः स्फटिकोऽस्त्रियाम् ।अयस्कान्तविशेषाः स्युश्चुम्बकभ्रामकादयः ॥ ७७ ॥
2.2.77 · p. 134
अनुष्टुप्
मुक्ता स्त्री मौक्तिकं मुक्ताफलं * * * शुक्तिजे ।[18b]रसोपलमथाहेयं तत्सर्पस्य फणाभवम् ॥ ७८ ॥
2.2.78 · p. 134
अनुष्टुप्metre not read in every line
जीमूत-करि-मत्स्याहि-वंश-शङ्ख-वराहजाः ।शुक्त्युद्भवाश्च विज्ञेया अष्टौ मौक्तिकजातयः ॥ ७९ ॥
2.2.79 · p. 134
अनुष्टुप्
विराटजो राजपट्टो राजावर्तश्च कथ्यते ।चिन्तामणिः काममणिर्वैक्रान्तोऽसितहीरकः ॥ ८० ॥
2.2.80 · p. 134
अनुष्टुप्