All kośas › Kalpadrukośa
कल्पद्रुकोशः Kalpadrukośa
4,306 verses · 27,819 words tagged · 4,643 marked doubtful (dashed)
भूमिस्कन्धः · वैश्यादिप्रकाण्डः (5/6)
वणिक् स्त्रियां वाणिजकं वाणिज्यं स्याच्च तत्र तु ।वास्नोप्यथ स्यान्नैमेयः स्यात् क्लीबे परिवर्त्तनम् ॥ ४८१ ॥
1.7.481 · p. 186
अनुष्टुप्
परिवर्त्तः परीवर्त्तः परीवर्तनमित्यपि ।प्रतिदानं परिदानं दीर्घमध्ये उभे अपि ॥ ४८२ ॥
1.7.482 · p. 186
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 रि (wrong syllable)
प्रतिहारः परावर्तो विन्योर्मेयमयावथ ।स्यान्निक्षेपस्तूपनिधिर्न्यासश्चाथ तदर्पणम् ॥ ४८३ ॥
1.7.483 · p. 186
अनुष्टुप्
प्रतिदानं प्रतीदानं परिदानमतः परम् ।परीदानमथ क्रय्यं त्रिषु पण्ये प्रसारितम् ॥ ४८४ ॥
1.7.484 · p. 186
अनुष्टुप्
क्रेतव्यमात्रे स्यात् क्रेयं विक्रेयं पणितव्यके ।पण्यं चाथ स्त्रियां सत्याकृतिः सत्यापना न ना ॥ ४८५ ॥
1.7.485 · p. 186
अनुष्टुप्
सत्यंकारोऽपि पुंसि स्यादथाधिः पुंसि लग्नकः ।प्रतिभूकः प्रतिस्थेयः साक्षी स्यादथ विक्रयः ॥ ४८६ ॥
1.7.486 · p. 186
अनुष्टुप्
विपणश्चाथ संख्याः स्युर्गणेयं गण्यमित्यपि ।संख्येय एक एकत्वे द्वित्वे तु द्वावुभावपि ॥ ४८७ ॥
1.7.487 · p. 186
अनुष्टुप्
त्र्यादयोष्टादशान्ताः स्युर्वाच्यप्रकृतयः पुनः ।एकोनविंशतिस्त्रिंशदित्याद्याः स्युस्त्रिलिङ्गकाः ॥ ४८८ ॥
1.7.488 · p. 187
अनुष्टुप्
अष्टादशभ्य एकाद्याः संख्याः संख्येयगोचराः ।ऊनविंशत्यादिकाः स्युः सर्वाः संख्येयसंख्ययोः ॥ ४८९ ॥
1.7.489 · p. 187
अनुष्टुप्
विंशत्याद्याः सदैकत्वे स्त्रियां संख्येयसंख्ययोः ।संख्यात्वे द्विबहुत्वे स्युस्तासुचा नवतेस्त्रियः ॥ ४९० ॥
1.7.490 · p. 187
अनुष्टुप्
ह्रस्वान्ता अपि दीर्घान्ताः स्युरेते विंशतिः पुनः ।षष्टिश्च सप्ततिस्तद्वदशीतिर्नवतिः पुनः ॥ ४९१ ॥
1.7.491 · p. 187
अनुष्टुप्
एकोनविंशतिश्चैवमेवमेकान्नविंशतिः ।एकाद्नविंशतिश्चैवमेकान्नत्रिंशदादयः॥ ४९२॥
1.7.492 · p. 187
अनुष्टुप्
द्वाविंशतिर्द्विविंशतिः सप्ताविंशतिरित्यपि ।सप्तविंशतिरित्येवं द्वाषष्टिश्च द्विषष्टिभिः ॥ ४९३ ॥
1.7.493 · p. 187
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 श (wrong syllable)
द्वासप्ततिर्द्विसप्ततिरित्याद्यूह्या यथाक्रमम् ।द्वौ त्रयो वेत्येवमाद्या द्वित्रास्त्रिचतुरा अपि ॥ ४९४ ॥
1.7.494 · p. 187
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 प्त (wrong syllable)
त्रिपञ्चा एवमेकद्वाः षट्सप्ता अपि पञ्चषाः ।भूचन्द्रभुजनेत्राग्निगुणवेदयुगा अपि ॥ ४९५ ॥
1.7.495 · p. 187
अनुष्टुप्
भूतेन्द्रियर्तुतर्कर्षिवाजीभवसवो ग्रहाः ।नन्दादिशश्च पङ्क्तिश्च संख्या संज्ञा ह्यनुक्रमात् ॥ ४९६ ॥
1.7.496 · p. 187
अनुष्टुप्
यथोत्तरं दशगुणमेकं दशशतं पुनः ।सहस्रमयुतं लक्षं प्रयुतं कोटिरर्बुदम् ॥ ४९७ ॥
1.7.497 · p. 187
अनुष्टुप्
अब्जं खर्वं निखर्वं च महाब्जं शङ्खवारिधी ।अन्त्यं मध्यं परार्द्धं च परार्द्धद्विगुणं परम् ॥ ४९८ ॥
1.7.498 · p. 188
अनुष्टुप्
एतदायुः परंधातुः शतवर्षमितं हि तत् ।शतं क्लीबे पुंसि वा स्यात् क्लीबे साहस्रमित्यपि ॥ ४९९ ॥
1.7.499 · p. 188
अनुष्टुप्
सहस्रमयुतं लक्षा स्त्रियां क्लीबे क्वचिन्मतम् ।स्त्रियां क्लीबे तु नियुतं कोटी कोटिरुभे स्त्रियौ ॥ ५०० ॥
1.7.500 · p. 188
अनुष्टुप्
अस्त्र्यर्बुदं शङ्कुरस्त्री क्लीबे वा पद्ममस्त्रियाम् ।पुंसि चाथ महापद्मं तद्वदन्यानि न द्वयोः ॥ ५०१ ॥
1.7.501 · p. 188
अनुष्टुप्
चमत्कारावहा लोके कलाः स्युश्चतुरुत्तराः ।षष्टिर्गीतं वाद्यनृत्ये नाट्यमालेख्यमेव च ॥ ५०२ ॥
1.7.502 · p. 188
अनुष्टुप्
तिलकं पुष्परचना पुष्पास्तरणमेव च ।रञ्जनं दन्तवस्त्रादेर्मणिबद्धावलिक्रिया ॥ ५०३ ॥
1.7.503 · p. 188
अनुष्टुप्
शय्याम्बुवाद्यमस्तम्भश्चित्रोपायाश्च माल्यकम् ।केसरापीडनेपथ्ये कर्णभूषासुगन्धकौ ॥ ५०४ ॥
1.7.504 · p. 188
अनुष्टुप्
भूषणं चेन्द्रजालं च सुकुमारेण केनचित् ।कृता उपाया रूपादौ हस्तलाघवमित्यपि ॥ ५०५ ॥
1.7.505 · p. 188
अनुष्टुप्
चित्रशाकं च पूपादि पानकादि च सूचिका ।पुत्तलीचालनं वीणा प्रहेलीज्ञानमेव च ॥ ५०६ ॥
1.7.506 · p. 188
अनुष्टुप्
सर्वप्रतिकृतिकृतिरन्यदुर्वचलेखनम् ।पुस्तस्य वाचनं शीघ्रं नाटिकाख्यायिकासु धीः ॥ ५०७ ॥
1.7.507 · p. 189
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ति (wrong syllable)
समस्यापूरणं वाणवेत्रादिपट्टिकाकृतिः ।तर्कुसाध्यं सूत्रकर्म तक्षणं वास्तुकर्म च ॥ ५०८ ॥
1.7.508 · p. 189
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 दि (wrong syllable)
रत्नज्ञानं धातुवादो मण्यादेरपि रञ्जनम् ।तदाकारपरिज्ञानं वृक्षायुर्वेद एव च ॥ ५०९ ॥
1.7.509 · p. 189
अनुष्टुप्
मेषादियुत्सारिकादिलापमुल्लापनं तथा ।वेणीमुष्टिज्ञता म्लेच्छशास्त्रभाषासु नैपुणम् ॥ ५१० ॥
1.7.510 · p. 189
अनुष्टुप्
पुष्पस्य शकटीज्ञानं यन्त्रं तद्धारणम् तथा ।अभेद्यस्यापि हीरादेर्भेदसंपादनादिकम् ॥ ५११ ॥
1.7.511 · p. 189
अनुष्टुप्
मनः समस्यारचनं छलं कोषाद्यभिज्ञता ।वस्त्रान्यथाकृतिर्द्यूतमाकर्षः शिशुचेष्टितम् ॥ ५१२ ॥
1.7.512 · p. 189
अनुष्टुप्
विघ्नज्ञानं जयज्ञानं वैतालिककवित्वधीः ।तुलाद्यैः पौतवं मानम् द्रुवयं कुडवादिभिः ॥ ५१३ ॥
1.7.513 · p. 189
अनुष्टुप्
पाय्यं हस्तादिभिरथ जालान्तरगते रवेः ।किरणेन्तर्गतं सूक्ष्मं रजसः कणमुत्तमम् ॥ ५१४ ॥
1.7.514 · p. 189
अनुष्टुप्
त्रिंशांशस्तस्य विज्ञेयः परमाणुर्द्वयोरयम् ।तत्त्रयन्त्रसरेणुः स्यात्तद्द्वयं वंशिका स्त्रियाम् ॥ ५१५ ॥
1.7.515 · p. 189
अनुष्टुप्
षड्भिस्ताभिर्मरीचिः स्त्री षड्भिराभिस्तु राजिका ।ताभिस्त्रिभिः सर्षपः स्यात्सर्षपैरष्टभिर्यवः ॥ ५१६ ॥
1.7.516 · p. 190
अनुष्टुप्
द्वाभ्यां यवाभ्यां गुञ्जा स्यात्पञ्च ता माषमाषकौ ।स एव हेमधान्यो ना तैश्चतुर्भिस्तु शाणकः ॥ ५१७ ॥
1.7.517 · p. 190
अनुष्टुप्
टङ्कोऽस्त्री धरणं शाणद्वयं कोलस्तु दंक्षमः ।क्षुद्रमोवटकः कोलौ कर्षः पुंसि नपुंसके ॥ ५१८ ॥
1.7.518 · p. 190
अनुष्टुप्
अस्त्री हेम्नः सुवर्णं तच्चतुर्भिस्तैः पलं तु षण् ।द्वयोर्मुष्टिः स्त्रियां मुष्टी सृपाटं पुंसि वा स्त्रियाम् ॥ ५१९ ॥
1.7.519 · p. 190
अनुष्टुप्
तद्वदन्येऽपि विज्ञेयास्तत्र पाणितलं पिचुः ।किंचित्पाणिः पाणिमानी करमध्यं च तिन्दुकम् ॥ ५२० ॥
1.7.520 · p. 190
अनुष्टुप्
नाक्षो हंसपदं वर्णं विडालपदमित्यपि ।उदुम्बरं षोडशी स्यात् कवलग्रहकः पुनः ॥ ५२१ ॥
1.7.521 · p. 190
अनुष्टुप्
प्रथमं न स्त्रियां पुंसि तृतीयं स्त्री चतुर्दशम् ।चतुष्टयं तु कर्षाणां पलमित्यभिधीयते ॥ ५२२ ॥
1.7.522 · p. 190
अनुष्टुप्
सुवर्णाक्षे स्वर्णविस्तं कुरुविस्तं तु तत्पले ।तुला स्त्रियां पलशतं भारः स्याद्विंशतिस्तुलाः ॥ ५२३ ॥
1.7.523 · p. 190
अनुष्टुप्
आचितः पुंसि वा क्लीबे द्वयं वा दशभारिकम् ।मानभेदे भरः पुंसि सहस्रद्वितयैः पलैः ॥ ५२४ ॥
1.7.524 · p. 190
अनुष्टुप्
स एव शाकटो भारः शतमानं तु पुंसि वा ।दशभिर्द्धरणैस्तुल्यमथ कार्षापणः पुनः ॥ ५२५ ॥
1.7.525 · p. 191
अनुष्टुप्
अपि स्यात्कार्षिकस्तत्र कार्षिके ताम्रिके पणः ।पणैश्चतुर्भिः कुडवस्तावद्भिः कुडवैरपि ॥ ५२६ ॥
1.7.526 · p. 191
अनुष्टुप्
प्रस्थौ स्त्रियामाढकः स्यात् त्रिषु द्रोणोऽस्त्रियां पुनः ।खारी स्त्री षोडशद्रोणैस्ताभिः षोडशभिः पुनः ॥ ५२७ ॥
1.7.527 · p. 191
अनुष्टुप्
कलशी दशभिर्मुण्डः परीमाणमिदं स्मृतम् ।काकिणिः काकिणी तुल्ये काकिनिः काकिनी समे ॥ ५२८ ॥
1.7.528 · p. 191
अनुष्टुप्
काकणिः काकणी तद्वत्काकनिः काकनीत्यथ ।उड्री मण्डः स्त्रियां तूर्या सैवोक्ता दशमानिका ॥ ५२९ ॥
1.7.529 · p. 191
अनुष्टुप्
देशे देशे स्वस्वराज्ये राजभिर्मानकल्पनात् ।विशिष्टमविशिष्टं वा ज्ञेयं तत्र तदुक्तिभिः ॥ ५३० ॥
1.7.530 · p. 191
अनुष्टुप्
परिमाणप्रमाणज्ञैस्तुलादण्डो द्वयोर्धटः ।कण्टकी पुंसि तत्रत्यतौल्यभेदास्तु देशजाः ॥ ५३१ ॥
1.7.531 · p. 191
अनुष्टुप्
सेरादिका ये मणान्तास्ते म्लेच्छपरिकल्पिताः ।स्वर्णं सुवर्णं कनकं पुरटं निष्कहाटके ॥ ५३२ ॥
1.7.532 · p. 191
अनुष्टुप्
चन्द्रमष्टापदं जाम्बूनदमेते नवास्त्रियाम् ।तपनीयं शातकुम्भं च द्वयोर्हिमहेमनी ॥ ५३३ ॥
1.7.533 · p. 191
अनुष्टुप्
गैरिकं वसु कल्याणं रजतं भर्म कर्वुरम् ।चामीकरं जातरूपं चाम्पेयं वित्तमर्जुनम् ॥ ५३४ ॥
1.7.534 · p. 192
अनुष्टुप्
कार्त्तस्वरं लोहवरं महारजतगारुडे ।अग्निपर्यायबीजार्थं शुक्रं जीवनमोजसम् ॥ ५३५ ॥
1.7.535 · p. 192
अनुष्टुप्
नारं दाक्षायणं श्रीमत्कुम्भै वेणुतटीभवम् ।द्रव्यं च स्वापतेयं च रिक्थमृक्थं धनं मघम् ॥ ५३६ ॥
1.7.536 · p. 192
अनुष्टुप्
काञ्चनं हिरणं भर्म गाङ्गेयं शतकुम्भजम् ।तपनीयं शातकौम्भमभ्रं कर्बूरमित्यपि ॥ ५३७ ॥
1.7.537 · p. 192
अनुष्टुप्
जाम्बूनदं चोरुसारं रुक्मं कार्त्तस्वरं पुनः ।द्रविणं वरिवः श्वात्रं हिरण्यं रक्तमित्यपि ॥ ५३८ ॥
1.7.538 · p. 192
अनुष्टुप्
द्युम्नं स्त्रियौ रा रयी ना कोशोर्थो विभवोऽपि च ।शोभोजनं वैणवं च दीप्तं दीप्तकमुज्ज्वलम् ॥ ५३९ ॥
1.7.539 · p. 192
अनुष्टुप्
कान्तिस्वरं जाम्बवं स्यात्कलधौतमपि द्वयोः ।तद्भूमिजं रसोत्थं च बहुलोहोद्भवं त्रिधा ॥ ५४० ॥
1.7.540 · p. 192
अनुष्टुप्
अलंकारसुवर्णं स्याच्छृङ्गी शृङ्गिः स्त्रियामुभे ।कोषोस्त्रियामथापि स्याद्धेमरूप्ये कृताकृते ॥ ५४१ ॥
1.7.541 · p. 192
अनुष्टुप्
कुप्यं षण् तद्वयादन्यदाहतानाहते समे ।तारहेम्नी तु संश्लिष्टे घनगोलकमस्त्रियाम् ॥ ५४२ ॥
1.7.542 · p. 192
अनुष्टुप्
दुर्वर्णं पुंसि वा रूप्यं रूपं रौप्यं यवीयसम् ।तारं लोहं वसुश्रेष्ठं रजतं रुचिरं पुनः ॥ ५४३ ॥
1.7.543 · p. 193
अनुष्टुप्
कलधौतं रूपसाध्ये श्वेतस्येन्दोर्हिमस्य च ।कुमुदस्य च हंसस्य पर्यायि ब्रह्मवर्द्धनम् ॥ ५४४ ॥
1.7.544 · p. 193
अनुष्टुप्
सूर्यपर्यायिगात्रार्थं ताम्रं शुल्बमुदुम्बरम् ।मर्कटम्लेच्छवक्त्रार्थं वरिष्ठं च कनीयसम् ॥ ५४५ ॥
1.7.545 · p. 193
अनुष्टुप्
उदुम्बरं च तद्वत्स्यादौदुम्बरमुदुम्बरम् ।नेपालिकं त्र्यम्बकं स्याद्रक्तपर्यायिवर्णकम् ॥ ५४६ ॥
1.7.546 · p. 193
अनुष्टुप्
वङ्गं स्यादस्त्रियां रङ्गं पूतिगन्धं हिमस्रवम् ।त्रपु क्लीबे पुंसि वा स्यात्त्रपुषं चीनचिप्पटे ॥ ५४७ ॥
1.7.547 · p. 193
अनुष्टुप्
नागार्थकं स्यादात्यूषं कुरूप्यं मुखभूषणम् ।मधुरश्वेतरूप्यार्थं मृद्वङ्गं गुरुपत्रकम् ॥ ५४८ ॥
1.7.548 · p. 193
अनुष्टुप्
मालीनकं सिंहलकं कास्तीरं घनजीवने ।अस्त्रियां त्रापुसं चाथ शीसकोऽस्त्री दृगौषधम् ॥ ५४९ ॥
1.7.549 · p. 193
अनुष्टुप्
गजं गण्डूपदभवं नागं वम्रे च न स्त्रियाम् ।योगीष्टं यवनेष्टं स्यात् कुवङ्गं परिपिष्टकम् ॥ ५५० ॥
1.7.550 · p. 193
अनुष्टुप्
वप्रं नीरः सुवर्णारिः सीरपत्रकमित्यपि ।मृदुकृष्णायसं पक्ष्यं बन्धकं तारशुद्धिकृत् ॥ ५५१ ॥
1.7.551 · p. 193
अनुष्टुप्
शिरावृत्तं च वङ्गारि वप्रं चापि महाबलम् ।कांस्यं सौराष्ट्रकं घोषं कंसीयं ब्रह्मवर्द्धनम् ॥ ५५२ ॥
1.7.552 · p. 194
अनुष्टुप्
वह्निदीप्त्यर्थलोहार्थं घोरपुष्पं पवित्रकम् ।रवणं लोहजं वङ्गं शुल्बजं च प्रकाशकम् ॥ ५५३ ॥
1.7.553 · p. 194
अनुष्टुप्
घण्टाशब्दं विद्युदर्थात्प्रियाहूमसुराह्वयम् ।कंसोऽस्त्रियां च ताम्रार्द्धमारमस्त्री तु पित्तलम् ॥ ५५४ ॥
1.7.554 · p. 194
अनुष्टुप्
पीतलोहितपर्यायि क्षुद्रस्वर्णार्थसिंहले ।रीतिः स्त्रियां रिरी रीरी न स्त्रियामारकूटकम् ॥ ५५५ ॥
1.7.555 · p. 194
अनुष्टुप्
अथान्या राजरीतिस्तु ब्राह्मी राज्ञी महेश्वरी ।काका तुण्डी च कपिला पिङ्गला लोहसंकरम् ॥ ५५६ ॥
1.7.556 · p. 194
अनुष्टुप्
वर्त्तलोहं नीललोहं वर्त्तकं नालिका स्त्रियाम् ।कान्तायसमयस्कान्तं कान्तं कृष्णोत्तरं च तत् ॥ ५५७ ॥
1.7.557 · p. 194
अनुष्टुप्
महालोहं तच्चतुर्द्धा भ्रामकं चुम्बकं पुनः ।मुण्डं कृष्णायसं चेति लोहसारं तथाश्मजम् ॥ ५५८ ॥
1.7.558 · p. 194
अनुष्टुप्
अश्मलोहोऽस्त्रियां सारं न स्त्रियां कृमिलोहकम् ।तीक्ष्णं शस्त्रायसं कालपिण्डं पिण्डायसं शठम् ॥ ५५९ ॥
1.7.559 · p. 194
अनुष्टुप्
आयसं निशितं तीव्रं लोहं खरं? च मुण्डनम् ।अयश्चीनोद्भवं धीनं धीवरं कृष्णमामिषम् ॥ ५६० ॥
1.7.560 · p. 194
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ख (wrong syllable)
आयः कालायसे चास्य विकारे तु कुशी स्त्रियाम् ।सिंहाणधूर्तमण्डूरसारणान्यस्य किट्टके ॥ ५६१ ॥
1.7.561 · p. 195
अनुष्टुप्
मनःशिला तु कुनटी मनोज्ञा नागजिह्विका ।नेपाली रसभेत्ता च मनोगुप्ता च रोचनी ॥ ५६२ ॥
1.7.562 · p. 195
अनुष्टुप्
करवीरापि कल्याणी शिलारोगः शिलाऽपि सा ।सिन्दूरोऽस्त्री रागरेणुर्द्वयोर्वीररजश्च षण् ॥ ५६३ ॥
1.7.563 · p. 195
अनुष्टुप्
नागार्थाद्गर्मपर्यायि रक्तार्थं मङ्गलार्थकम् ।गणेशार्थाद्भूषणार्थं संध्यापर्यायि रागि च ॥ ५६४ ॥
1.7.564 · p. 195
अनुष्टुप्
सौभाग्यमपि शृङ्गारमथ हिङ्गुलमस्त्रियाम् ।सुरङ्गं कर्बुरं रक्तं हिङ्गुलं चूर्णपारदम् ॥ ५६५ ॥
1.7.565 · p. 195
अनुष्टुप्
रञ्जनं दरदं म्लेच्छं चित्राङ्गं चापि रञ्जकम् ।बर्बरं सुगरं चाथ गैरिकं गिरिमृद्भवम् ॥ ५६६ ॥
1.7.566 · p. 195
अनुष्टुप्
गवेधुकं पुंसि रक्तधातुरन्यत्सुरक्तकम् ।सुवर्णगैरिकस्वर्णबभ्रुभ्यो धातुरित्यपि ॥ ५६७ ॥
1.7.567 · p. 195
अनुष्टुप्
सन्ध्याह्वमथ सौराष्ट्री सुजाता सुरमृत्तिका ।स्तुत्याकाक्षी तु मृद्वी स्यान्मृत्सा संघोपि मृत्तलम् ॥ ५६८ ॥
1.7.568 · p. 195
अनुष्टुप्
विडालोऽस्त्री चित्रगन्धो हरितालोऽपि तालकः ।चित्राङ्गं पिञ्जरं क्लीबे गौरं च नटमण्डनम् ॥ ५६९ ॥
1.7.569 · p. 195
अनुष्टुप्
पीतं काञ्चनकं गौरीललितं कनकद्रवः ।शिलार्थाज्जन्तुपर्यायमश्मोत्थं गिरिसम्भवम् ॥ ५७० ॥
1.7.570 · p. 196
अनुष्टुप्
गन्धको गन्धपाषाणो गन्धमादनमस्त्रियाम् ।पूतिगन्धोऽदिव्यगधः सुगन्धः क्रूरगन्धकः ॥ ५७१ ॥
1.7.571 · p. 196
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दि (wrong syllable)
वटसौगन्धिकः कुष्ठकीटयोररिरित्यपि ।गन्धाद्रसोऽयं श्वेतादिवर्णभेदाच्चतुर्विधः ॥ ५७२ ॥
1.7.572 · p. 196
अनुष्टुप्
काशीसं धातुकाशीसं केशरं हंसलोमशम् ।शोधनं पांशुकाशीसं शुभ्रमन्यन्मलीमसम् ॥ ५७३ ॥
1.7.573 · p. 196
अनुष्टुप्
वत्सकं वत्सकाशीसमथ माक्षीकपीतके ।पीतमाक्षिकमापीतं माक्षीकं धातुमाक्षिकम् ॥ ५७४ ॥
1.7.574 · p. 196
अनुष्टुप्
ताप्यं हेमाह्वयं तारमाक्षिकं स्यादथाञ्जनम् ।नादेयं यामुनं कृष्णं चक्षुष्यं वारिसम्भवम् ॥ ५७५ ॥
1.7.575 · p. 196
अनुष्टुप्
कापोतं दृक्प्रदं स्रोतोञ्जनं नीलाञ्जनं पुनः ।सौवीरमथ चक्षुष्या दृक्प्रसादा मलापहा ॥ ५७६ ॥
1.7.576 · p. 196
अनुष्टुप्
कुलाल्यपि कुलत्थाथ कौसुम्भं कुसुमाञ्जनम् ।रीतिकं रीतिकुसुमं पौष्करं पुष्पतोञ्जनम् ॥ ५७७ ॥
1.7.577 · p. 196
अनुष्टुप्
पुष्पकेतुः पुमांश्चाथ रसोद्भूतं रसाञ्जनम् ।वीर्याञ्जनं तार्क्ष्यशैलं रसगर्भं रसायनम् ॥ ५७८ ॥
1.7.578 · p. 196
अनुष्टुप्
कृतकं बालभैषज्यं दार्वीक्वाथ समुद्भवम् ।रसनाभामिसारौ द्वावस्त्रियां रसराट् पुमान् ॥ ५७९ ॥
1.7.579 · p. 197
अनुष्टुप्
रीत्यां तु धम्यमानायां यत् किट्टं तद्रसाञ्जनम् ।तदभावेऽपि कर्त्तव्यं दार्वीक्वाथसमुद्भवम् ॥ ५८० ॥
1.7.580 · p. 197
अनुष्टुप्
वल्मीकसारं सौवीरसारं स्रोतोञ्जनं पुनः ।कपोतसारं जलजमथ कम्पिल्लकः पुमान् ॥ ५८१ ॥
1.7.581 · p. 197
अनुष्टुप्
लोहिताङ्गो रेचनः स्याद्रञ्जनो रक्तचूर्णकः ।तुत्थं नीलाञ्जनं नीलं साम्लगर्तामृतोद्भवम् ॥ ५८२ ॥
1.7.582 · p. 197
अनुष्टुप्
मयूरतुत्थं नीलाश्म मथान्यद्रयकं पुनः ।खर्परी खर्परीतुत्थं चक्षुष्यं रसकं पुनः ॥ ५८३ ॥
1.7.583 · p. 197
अनुष्टुप्
अमृतोत्थं च सूतस्तु पारदः पारतो रसः ।रसराजो महातेजा रससिंहो महारसः ॥ ५८४ ॥
1.7.584 · p. 197
अनुष्टुप्
सूतो रसोत्तमो जैत्रश्चपलो रुद्रजः प्रभुः ।शिवाह्वः शिवबीजाह्वो लोकेशो दुर्द्धरोऽमृतः ॥ ५८५ ॥
1.7.585 · p. 197
अनुष्टुप्
देवः स्कन्दाङ्गजः स्कन्दो देहतो मृत्युनाशनः ।रसधातुर्हरतेजो यशोदः खेचरः पुनः ॥ ५८६ ॥
1.7.586 · p. 197
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
व्योमार्थाह्वं तु गौरीजमभ्रकं बहुपत्रकम् ।शृङ्गं स्यादथ वर्णैश्च शुक्लाद्यैस्तच्चतुर्विधम् ॥ ५८७ ॥
1.7.587 · p. 197
अनुष्टुप्
स्फटी तु स्फटिकी श्वेता रङ्गाङ्गा रङ्गदा पुनः ।अपि रङ्गदृढा चाथ खटिनी खटिका खटी ॥ ५८८ ॥
1.7.588 · p. 198
अनुष्टुप्
सितधातुर्धवलमृदथ क्षीरी तु दीप्तिकः ।वज्रभोपि च गोमेदसंनिभः सौध इत्यपि ॥ ५८९ ॥
1.7.589 · p. 198
अनुष्टुप्
स्याद्दुग्धी दुग्धपाषाणोप्यथ कर्पूरनामतः ।मण्यन्तः स च कर्पूरमणिः स्यादेवमेव तु ॥ ५९० ॥
1.7.590 · p. 198
अनुष्टुप्
आखुनाम पुरः कार्यमतः पाषाण इत्यपि ।स च स्यादाखुपाषाणो लोहसंकरकारकः ॥ ५९१ ॥
1.7.591 · p. 198
अनुष्टुप्
कङ्कुष्ठं विमलं स्वच्छं तारहेमाभमित्यथ ।माणिक्यं शोणरत्नं च तरुणीरत्नमित्यपि ॥ ५९२ ॥
1.7.592 · p. 198
अनुष्टुप्
शृङ्गारि रक्तमाणिक्यं रागहृद्रत्नमित्यपि ।तत्र रक्ते पद्मरागोऽरुणे सौगन्धिकोऽस्त्रियाम् ॥ ५९३ ॥
1.7.593 · p. 198
अनुष्टुप्
कुरुविन्दस्तु पीते स्यादतिरक्तेथ नीलके ।गन्धिनीलं चाथमुक्ता स्त्रियां सौम्यापि मुक्तिका ॥ ५९४ ॥
1.7.594 · p. 198
अनुष्टुप्
तारोऽस्त्रियां शुक्तिमणिः स्यात् पुंसि च रसोपलः ।क्लीबे मुक्ताफलं स्वच्छं बिन्दुरत्नं च मौक्तिकम् ॥ ५९५ ॥
1.7.595 · p. 198
अनुष्टुप्
शौक्तिकेयं शीतलं स्यादम्भः सारं च नीरजम् ।अपि स्याच्चन्द्ररत्नं च लक्षहैमवतं शुभम् ॥ ५९६ ॥
1.7.596 · p. 198
अनुष्टुप्
शशिप्रियं बिन्दुफलं नक्षत्रं शौक्तिकं च तत् ।शंखवंशाब्दशुक्तीनामुदरेभ्यश्च योनयः ॥ ५९७ ॥
1.7.597 · p. 199
अनुष्टुप्
शिरोम्भःकरिकोलाहिमकरेभ्यो भवन्त्युत ।भौमरत्नं प्रवालोऽस्त्री विद्रुमो नाब्धिवल्लभः ॥ ५९८ ॥
1.7.598 · p. 199
अनुष्टुप्
रक्ताङ्कुरोङ्गारमणिः शोणाङ्गश्च लतामणिः ।रौहिणेयो मरकतश्चाश्मगर्भो हरिन्मणिः ॥ ५९९ ॥
1.7.599 · p. 199
अनुष्टुप्
गारुत्मतो गरारातिर्गरुडोद्गीर्ण इत्यपि ।पुष्परागः पीतरत्नं पीताश्मा पीत इत्यपि ॥ ६०० ॥
1.7.600 · p. 199
अनुष्टुप्