All kośas › Pañcatattvaprakāśa
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa
409 verses · 3,817 words tagged · 962 marked doubtful (dashed)
भूमिभानुः · शैलमरीचिः
इति मनुष्यमरीचिः ।
महीध्रः पर्वतः शैलः शिलावान् गोत्रभृद्गिरिः ।शिलोच्चयः क्ष्माभृदचलः पविपातवित् ॥ ११५ ॥
1.2.115 · p. 9
अनुष्टुप्metre not read in every line
अश्मा दृष[श]त् शिला लोष्ठः पाषाणः प्रस्तरोपलौ ।मेरुः सुमेरुर्हेमाद्री रत्नसानुः सुरालयः ॥ ११६ ॥
1.2.116 · p. 9
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
हिमालयो गिरिपतिर्गौरीतातो हिमाचलः ।उदयाद्रिः पूर्वशैलो नीलाद्रिः शक्रदिग्गिरिः ॥ ११७ ॥
1.2.117 · p. 9
अनुष्टुप्
अस्तशैलः पश्चिमाद्रीरस्ताद्रीर्वारुणी गिरिः ।भुजगाद्रिर्गन्धशैलो मलयश्चन्दनाचलः ॥ ११८ ॥
1.2.118 · p. 9
अनुष्टुप्
विन्ध्योऽगस्त्यगिरिरष्टभुजाद्रिर्दक्षिणाचलः ।दरी गिरिगुहा देवखातं पर्वतगह्वरम् ॥ ११९ ॥
1.2.119 · p. 9
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 रि (wrong syllable)
निषधो हिमवान् विन्ध्यो माल्यवान् गन्धमादनः ।हेमकूटः पारिभद्रः सप्तैते कुलपर्वताः ॥ १२० ॥
1.2.120 · p. 9
अनुष्टुप्
शैलाग्रं शिखरं प्रस्थः स्रुः शिलोच्चयमस्तकम् ।क्ष्माभृन्नितम्बः कटको गण्डशैलाः च्युतोपलाः ॥ १२१ ॥
1.2.121 · p. 9
अनुष्टुप्
उपत्यकाद्रिसम्बन्धा भूरूर्द्ध्वाधित्यकाऽद्रिका ।गैरिकं शैलरुधिरं पादाः प्रत्यन्तपर्वताः ॥ १२२ ॥
1.2.122 · p. 9
अनुष्टुप्
मनःशिला मर्मशिला रत्नभूराकरः खनिः ।हरितालं पीतरसं कर्चूरं गिरिपित्तकम् ॥ १२३ ॥
1.2.123 · p. 9
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पी (wrong syllable)
खटिका खटिनी सौधा शैलेयं मर्कटप्रियम् ।स्फाटिकः स्फाटिकोकीश्मा? चन्द्राश्मा चन्द्रकान्तकः ॥ १२४ ॥
1.2.124 · p. 9
अनुष्टुप्
रत्नं मणिर्ललामाख्यो हीरको वज्रनामकः ।नीलं गारुत्मतं पद्मरागं शोणललामकम् ॥ १२५ ॥
1.2.125 · p. 9
अनुष्टुप्