All kośas › Kalpadrukośa
कल्पद्रुकोशः Kalpadrukośa
4,306 verses · 27,819 words tagged · 4,643 marked doubtful (dashed)
भूमिस्कन्धः · पर्वतादिप्रकाण्डः
गिरिर्गोत्रोऽचलः शैलः स्थावरो धातुभृद्धरः ।कुकीलः सानुमान्व्यंशो जीमूतः पृथुशेखरः ॥ १ ॥
1.13.1 · p. 340
अनुष्टुप्
कटक्यहार्यः शिखरी नगो दन्ती शिलोच्चयः ।ऐरावतोऽगो भाकूटः कुट्टारो दर्दुरः स्थिरः ॥ २ ॥
1.13.2 · p. 341
अनुष्टुप्
गोत्रोऽद्रिः पर्वतः प्रस्थशृङ्गवृक्षेभ्य एव वान् ।भूपर्यायधरो भूध्रः स च स्यात्कन्दराकरः ॥ ३ ॥
1.13.3 · p. 341
अनुष्टुप्
अथाकराकरोऽथ स्यात्सुमेरुः कर्णिकाचलः ।स्वःस्वर्गिस्वर्णपर्यायगिरिपर्याय इत्यपि ॥ ४ ॥
1.13.4 · p. 341
अनुष्टुप्
मेरुः स्यादुत्तराद्रिस्तु गिरिपर्यायराडपि ।हिमपर्यायतः प्रस्थालयवान्मेनकापतिः ॥ ५ ॥
1.13.5 · p. 341
अनुष्टुप्
कुबेरगिरिपर्यायो भवानीगुरुरित्यपि ।हिरण्यनाभमैनाकसुनाभानां तथा गुरुः ॥ ६ ॥
1.13.6 · p. 341
अनुष्टुप्
श्वेताद्रिरथ नीहारस्तुषारस्तुहिनं हिमम् ।प्रालेयं मिहिका चाथ हिमानी हिमसंहतिः ॥ ७ ॥
1.13.7 · p. 341
अनुष्टुप्
शीतं गुणे तद्वदर्थं सुषीमः शिशिरो जडः ।तुषारः शीतलः शीतो हिमः सप्तान्यलिङ्गकाः ॥ ८ ॥
1.13.8 · p. 341
अनुष्टुप्
रात्रिंदिवं हिमाधिक्यं यत्तत्तु हिमहर्दिवम् ।उज्झटिर्धूममहिषी रतान्धा च कुहेलिका ॥ ९ ॥
1.13.9 · p. 341
अनुष्टुप्
धूमिका स्यान्नभोरेणुपर्यायार्थात्कुहीति च ।रजताद्रिस्तु कैलाशोऽष्टापदः स्फटिकाचलः ॥ १० ॥
1.13.10 · p. 341
अनुष्टुप्
शिवपर्यायवासार्थः कैलासो हिमवद्धसः ।क्रौञ्चः क्रोञ्चो गुहहतः पुंसि क्लीबे युगन्धर ॥ ११ ॥
1.13.11 · p. 342
अनुष्टुप्
अपि किष्किन्धकिष्किन्ध्यौ वानराणां गिरौ द्वयम् ।दक्षिणाचल आषाढो माल्यवान्मलयोऽस्त्रियाम् ॥ १२ ॥
1.13.12 · p. 342
अनुष्टुप्
रौहिणश्चन्दगिरिर्विन्ध्यस्तु जलवालुकः ।वेङ्कटाद्रिः केसरी स्यात्सिंहः केशववल्लभः ॥ १३ ॥
1.13.13 · p. 342
metre not recognisednearly अनुष्टुप्
सह्याचलस्तु मूर्द्धाद्रिस्त्रिकूटस्त्रिककुच्च सः ।रेवोद्भवे तूपविन्ध्यमेकलामरकण्टकाः ॥ १४ ॥
1.13.14 · p. 342
अनुष्टुप्
सुवेलः स्यात्त्रिमुकुट इन्द्रकीलस्तु मन्दरः ।उज्जयन्तो रैवतः स्यात्सुदारुः पारियात्रकः ॥ १५ ॥
1.13.15 · p. 342
अनुष्टुप्
वारिपात्रोऽथास्त्रियां स्याद्गन्धमादनमित्यपि ।ऋश्यमूको रिश्यमूको मूर्द्धन्यमध्यगान्तकाः ॥ १६ ॥
1.13.16 · p. 342
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 न्य (wrong syllable)
लोकालोकश्चक्रवालश्चित्रकूटादयः परे ।कूटोऽस्त्री शिखरं शृङ्गं प्रपातस्त्वतटो भृगुः ॥ १७ ॥
1.13.17 · p. 342
अनुष्टुप्
मेखला मध्यभागोऽद्रेर्नितम्बः कटकोऽस्त्रियाम् ।द्रोणी तु शैलयोः सन्धिः स्यात्प्रस्थः सानुरस्त्रियाम् ॥ १८ ॥
1.13.18 · p. 342
अनुष्टुप्
पुमान्स्नुः स्यादथ गुहा दरी स्त्री कन्दरस्त्रिषु ।दरिर्विलं देवखातमखातं गह्वरी स्त्रियाम् ॥ १९ ॥
1.13.19 · p. 342
अनुष्टुप्
शिलोच्चयगतास्ते स्युः पादाः प्रत्यन्तपर्वताः ।प्राग्भारा दन्तकास्तिर्यगद्रेर्याता बहिश्च ये ॥ २० ॥
1.13.20 · p. 343
अनुष्टुप्
अधिरूढाऽधित्यकाऽद्रेरासन्ना भूरुपत्यका ।गिरेः पतत्प्रवाहे स्याज्झरी झरिरुभे स्त्रियौ ॥ २१ ॥
1.13.21 · p. 343
अनुष्टुप्
द्वयोर्झरो निर्झरो ना स्फटिकः स्फाटिकः पुमान् ।नर्यश्मा प्रस्तरो ग्रावा पाषाणश्चोपलोऽस्त्रियाम् ॥ २२ ॥
1.13.22 · p. 343
अनुष्टुप्
स्त्रियां धृषद्धृशच्चापि दृशद्दृषच्छिलापि च ।खनिः खानिः खनी खानी स्यात्स्त्रियामाकरश्च ना ॥ २३ ॥
1.13.23 · p. 343
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द्दृ (wrong syllable)
गुञ्जा स्त्रियां सुवर्णादिजन्मभूर्द्धातुकः पुमान् ।शुक्लधातौ पाकशुक्ला कठिनी खटिनी खटी ॥ २४ ॥
1.13.24 · p. 343
अनुष्टुप्
गैरिकं रक्तधातुः स्याद् गिरिज्वरसमुद्भवम् ।गिरिनद्धं गिरिणद्धं गिरिसंबद्धमित्यपि ॥ २५ ॥
1.13.25 · p. 343
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 रि (wrong syllable)
वनादि मृगपक्ष्यादि धात्वादि सकलं त्रिषु ।कल्पद्रौ केशवकृते फलिते नाम सत्फलैः ॥ २६ ॥
1.13.26 · p. 343
अनुष्टुप्
सिद्धिं गतः प्रकाण्डोऽयं द्वादशः पर्वतादिमः ॥ २७ ॥
1.13.27 · p. 343