कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

खरकुटी

kharakuṭīस्त्री · fem.

In 8 kośas: 7 synonym verses, 1 as a nānārtha head word.

कल्पद्रुकोशः Kalpadrukośa · केशव पूःप्रकाण्डः Kalpadrukośa 1.3.50 · p. 14
यन्त्रसद्मार्थकं तन्तुवायशाला तु गर्त्तकी ।कुशाला पक्षिशालायां शिल्पा खरकुटीत्यपि ॥ ५० ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुरवर्गः Koṣakalpataru 2.1.35 · p. 123
गोशालः खरशालश्च तत्तच्छालाभवे त्रिषु ।वत्सशालो वात्सशालो वाजिस्थानश्च तद्भवः ॥स्यात्पौर्वशाला पूर्वस्यां शालायां हि भवा त्रिषु ।पूर्वशाला प्रिया यस्य पूर्वशालाप्रियश्च सः ॥चतुरं हस्तिशाला स्यादुष्ट्रगोष्ठं मयस्थलम् ।वापशाला खरकुटी भवेन्नापितशालिका ॥ ३५ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.279 · p. 39
वपनी नापितानां च शिल्पा खरकुटीत्यपि ।प्रतिश्रयः सत्रशाला नीरशाला प्रपा पुनः ॥ २७९ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1716 · p. 277
शिल्पा नापितशाला च नापितशालमुच्यताम् ।वपनी खरकुटी च केशानां वपनस्थले ॥ १७१६ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable); pāda 3, syllable 6 कु (wrong syllable)
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश पुरवर्गप्रकाशः Śabdaratnāvalī 3.2.46 · p. 53
खरकुटिः स्यात् खरकुटी नापितस्य गृहे द्वयम् ॥
genderस्त्रीfem.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव पुरवर्गः Trikāṇḍaśeṣa 2.2.3 · p. 34
क्रमशीर्षं चाथ खरकुटी नापितशालिका ।कुलायिका पक्षिशाला कारावेश्म वधाङ्गकम् ॥ ३ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 चा (wrong syllable)
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.25 · p. 161
इक्षुपीडनयन्त्रस्य शालिका त्विक्षुसूनिका ।वपनी स्यात् खरकुटी शिल्पा चाप्यथ कुण्डनी ॥ २५ ॥
अनुष्टुप्
genderस्त्रीfem.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.200 · p. 43
स्त्रियां तु स्यात् खरकुटी शालायां वपनस्य हि ।अत्रापि पूर्ववज्ज्ञेयमर्थलिङ्गादि सूरिभिः ॥ २०० ॥
अनुष्टुप्