All kośas › Vaijayantī
वैजयन्ती Vaijayantī
3,226 verses · 24,961 words tagged · 3,914 marked doubtful (dashed)
पातालकाण्डः · पुराध्यायः (1/2)
इति भगवता यादवप्रकाशेन विरचितायां वैजयन्त्यां पातालकाण्डे जलाध्यायः
पुर्यना नगरी पूः स्त्री स्थानीयं नगरं पुटः ।पुर्याः शाखापुरी गृह्या पुरेऽल्पे खेटमस्त्रियाम् ॥ १ ॥
4.3.1 · p. 159
अनुष्टुप्
ग्रामः पर्युपसन्निभ्यः प्रतेश्च वसथः परः ।स्थानीयन्तु महाग्रामो ग्रामाः क्षुद्राः परे क्रमात् ॥ २ ॥
4.3.2 · p. 159
अनुष्टुप्
स्युः कर्वेटं कार्वटिकं कार्वटं नृंगपट्टने ।कर्वटोऽस्त्री द्रोणमुखं पट्टनं पुटभेदनम् ॥ ३ ॥
4.3.3 · p. 159
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्रो (wrong syllable)
पत्तनं चाप्यथानृंगे नृंगो द्रुंगं विवेशिका ।कटकोऽस्त्री संवासः स्कन्धावारश्च राजधानी स्यात् ॥ ४ ॥
4.3.4 · p. 159
अनुष्टुप्metre not read in every line
शिबिरं मार्गनिवेशो ग्रामार्धे वाटकोऽस्त्री स्यात् ।साकेतं स्यादयोध्यायां कोसलानन्दिनीति च ॥ ५ ॥
4.3.5 · p. 159
अनुष्टुप्metre not read in every line
द्वारका तु द्वारवती मधुरा तु मधूषिका ।मथुरा च मधूपघ्ना कौशं तु स्यात्कुशस्थली ॥ ६ ॥
4.3.6 · p. 159
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्वा (wrong syllable)
वाराणसी शिवपुरी वारणास्यपि काशिका ।मिथिला पूर्विदेहेषु कन्याकुब्जो महोदयः ॥ ७ ॥
4.3.7 · p. 159
अनुष्टुप्
हस्तिनी हास्तिनपुरं नागाह्वं हस्तिनापुरम् ।अथास्त्री खाण्डवप्रस्थं जयन्तीपुरमाहुकम् ॥ ८ ॥
4.3.8 · p. 159
अनुष्टुप्
अवन्ती स्यात्तक्षशिला काकुन्दी वारणावतम् ।देवीकोट्टः कोटिवर्षं माहिष्मत्यां वृकस्थली ॥ ९ ॥
4.3.9 · p. 159
अनुष्टुप्
ग्रामादिभूमिर्वास्त्वस्त्री सन्दंशस्त्वस्य कोणभूः ।ब्रह्मस्थली वास्तुमध्यं ब्रह्मधारा तदन्तभूः ॥ १० ॥
4.3.10 · p. 159
अनुष्टुप्
प्रशस्ता वास्तुभूमिर्या प्रवीरा नन्दिनी च सा ।सीमा तु सीमा मर्यादा ग्रामसीमोपशल्यकम् ॥ ११ ॥
4.3.11 · p. 159
अनुष्टुप्
प्रान्तरं ग्रामयोर्मध्यमुपघ्नं त्वन्तिकाश्रयः ।पर्यन्तभूः परिसरः कटो ग्रामेयकः पुनः ॥ १२ ॥
4.3.12 · p. 159
अनुष्टुप्
ग्रामीणं च त्रिषु ग्राम्ये ग्रामधान्यं तु खेटकम् ।खेयं तु परिखाथास्त्री वप्रः प्राकारमूलिकः ॥ १३ ॥
4.3.13 · p. 160
अनुष्टुप्
प्राकारो वरणः सालः प्राचीरन्त्वेष सच्छदिः ।आवेष्टकस्तु वाटोऽस्त्री विवृतश्च वृतिद्रुमैः ॥ १४ ॥
4.3.14 · p. 160
अनुष्टुप्
वारिकूटो हस्तिमुखो नगरद्वारकुट्टके ।गोपुरं तु पुरद्वारं दिक्तु निस्सारणं मुखम् ॥ १५ ॥
4.3.15 · p. 160
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ह (wrong syllable)
रथ्या प्रतोली विशिखाप्युपरथ्या तु दर्शनी ।राजमार्गे संसरणं श्रीघण्टाभ्यां पथः परः ॥ १६ ॥
4.3.16 · p. 160
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सं (wrong syllable)
स एव पुरि दिङ्मार्गो वाहनी चोपविष्करम् ।अगारं भवनं धाम वस्तं वस्त्यं निकेतनम् ॥ १७ ॥
4.3.17 · p. 160
अनुष्टुप्
शय्यं निवसनं सद्म बुन्दिरं वेश्म मन्दिरम् ।निकार्यवासावसथनिकाय्यनिलयालयाः ॥ १८ ॥
4.3.18 · p. 160
अनुष्टुप्
न नोदवसितं न स्त्री गेहं पुंभूम्नि वा गृहम् ।महाकीर्तनमोकश्च केतरं केतनं क्षयः ॥ १९ ॥
4.3.19 · p. 160
अनुष्टुप्
आथर्वणं शान्तिगृहमास्थानगृहमिन्द्रकम् ।वासागारं तल्पगृहमरिष्टं सूतिकागृहम् ॥ २० ॥
4.3.20 · p. 160
अनुष्टुप्
कुप्यशाला तु सन्धानी पक्षिशाला कुनालिका ।चतुरं हस्तिनां शाला वाजिशाला तु मन्दुरा ॥ २१ ॥
4.3.21 · p. 160
अनुष्टुप्
सन्दानिनी तु गोशाला हविः शाला विषाणिका ।आवेशनं शिल्पिशाला तन्त्रशाला तु गर्तिका ॥ २२ ॥
4.3.22 · p. 160
अनुष्टुप्
कुंभशाला पाकपुटी चित्रशाला तु जालिनी ।संवासनं कर्मशाला प्रपा पानीयशालिका ॥ २३ ॥
4.3.23 · p. 160
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 पा (wrong syllable)
वेशनी मुखशाला च पक्षशाला तु पक्षकः ।तैलिशाला यन्त्रगृहं पोटकी कटकी च सा ॥ २४ ॥
4.3.24 · p. 160
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 य (wrong syllable)
इक्षुपीडनयन्त्रस्य शालिका त्विक्षुसूनिका ।वपनी स्यात् खरकुटी शिल्पा चाप्यथ कुण्डनी ॥ २५ ॥
4.3.25 · p. 161
अनुष्टुप्
क्षणा बुशाल्याश्रमे तु पर्णशालोटजोऽस्त्रियाम् ।चतुश्शालं संजवनं सत्रशाला शुभा स्थली ॥ २६ ॥
4.3.26 · p. 161
अनुष्टुप्
मठावसथ्यौ छात्रादिवासो वेण्ठं विटाश्रये ।कुटीरस्तु कुटी पल्ली क्षेत्रपल्ली तु गर्गरी ॥ २७ ॥
4.3.27 · p. 161
अनुष्टुप्
सन्यासपल्ली निर्वीरा मण्टपोऽस्त्री जनाश्रयः ।देवतायतनं चैत्यं विहारो लयनालिकः ॥ २८ ॥
4.3.28 · p. 161
अनुष्टुप्
सौधोऽस्त्री सुधया श्वेतं मेटो हर्म्यञ्च मालिका ।तदेव राजदेवानां स्यात्प्रासादः प्रसादनः ॥ २९ ॥
4.3.29 · p. 161
अनुष्टुप्
राजवेश्मोपकर्या स्यादुपकार्योपकारिका ।स्वस्तिकः सर्वतोभद्रो नन्द्यावर्तादयोऽपि च ॥ ३० ॥
4.3.30 · p. 161
अनुष्टुप्
पिच्छन्दका राजधाम्नां सन्निवेशो निकर्षणम् ।कूटागारं तु वलभी निर्यूहो मत्तवारणम् ॥ ३१ ॥
4.3.31 · p. 161
अनुष्टुप्
कुट्टिमोऽस्त्री बद्धभूमिः कोद्रंगस्तु तमंगकः ।इन्द्रकोशोऽप्यथो मञ्च उद्घातो डुंडुरोऽपि च ॥ ३२ ॥
4.3.32 · p. 161
अनुष्टुप्
वेश्यागृहे कायमानं तथेदं केलिमण्डपे ।अट्टालयोऽट्टः क्षौमोऽस्त्री तलिन्यट्टालिके समे ॥ ३३ ॥
4.3.33 · p. 161
अनुष्टुप्
चन्द्रशाला शिरोगेहं पणिकस्तु वणिग्गृहम् ।आपणस्तु निषद्या स्यान्माटंको लवणापणः ॥ ३४ ॥
4.3.34 · p. 161
अनुष्टुप्
संवासो विपणिः पण्यवीथी हट्टस्तु पुण्यभूः ।आवालिर्हट्टवेश्माली वेशो वेश्याजनाश्रयः ॥ ३५ ॥
4.3.35 · p. 161
अनुष्टुप्
अवरोधः पराविद्धः शुद्धान्तोऽन्तःपुरं वृषम् ।अंकणस्त्वजिरं चारं वेदिका तु वितर्दिका ॥ ३६ ॥
4.3.36 · p. 161
अनुष्टुप्
कुड्योऽस्त्री भित्तिका कन्थाप्येडूकं त्वन्तरस्थिकम् ।नीव्रं वलीकं चोलान्ते चोलोऽस्त्री पटलं छदिः ॥ ३७ ॥
4.3.37 · p. 161
अनुष्टुप्
सन्धिस्तु कुड्यछदिषोः कावातायनिका कला ।अपशाला तु संहारी विटका तु विटाटिका ॥ ३८ ॥
4.3.38 · p. 162
अनुष्टुप्
गोपानसी तु वलभी छादने वक्रदारुणि ।वेश्मस्थूणा गृहस्थूणमुल्बस्थूणा तु पादिका ॥ ३९ ॥
4.3.39 · p. 162
अनुष्टुप्
मेढी तु पादिकाशीर्षे स्थूणाशीर्षे शिली शिला ।नासा धारकदारु स्यात्पालिकाष्ठं तु धारणा ॥ ४० ॥
4.3.40 · p. 162
अनुष्टुप्
कोणप्रतिग्राहि शिरोविष्टब्धिकरमाढकम् ।सूकरी तूपरिस्थूणा सन्धिकाष्ठं तु वासिकम् ॥ ४१ ॥
4.3.41 · p. 162
अनुष्टुप्
द्वाः स्त्री द्वारं पक्षकं तु पक्षद्वारं खडक्किका ।तोरणोऽस्त्री बहिर्द्वारं प्रच्छन्नद्वारमान्तरम् ॥ ४२ ॥
4.3.42 · p. 162
अनुष्टुप्
कवाटं द्वारबन्धोऽस्य धारके व्याघ्रकोऽस्त्रियाम् ।उत्तरांगं तूर्ध्वदारु द्वारस्यैरुण्डकः पुनः ॥ ४३ ॥
4.3.43 · p. 162
अनुष्टुप्
गृहावग्रहणी देहल्यम्मरोदुंबरोंबुरा ।सट्टं सपट्टी तत्पार्श्वे वृकवाला परालिनी ॥ ४४ ॥
4.3.44 · p. 162
अनुष्टुप्
नासा तु द्वार्यधोदारु शिला नासाविधारिणी ।प्रघाणप्रघणालिन्दाः पिण्डकोऽलिन्दवासनौ ॥ ४५ ॥
4.3.45 · p. 162
अनुष्टुप्
बहिर्द्वारप्रकोष्ठे स्युर्गृहश्रेणी तु वीथिका ।अथ त्रय्यौ कवाटोऽपि कुवाटोऽप्यररं न पुम् ॥ ४६ ॥
4.3.46 · p. 162
अनुष्टुप्
पार्श्वद्वयस्थं तद्युग्ममनीरिति निगद्यते ।विष्कंभकेऽस्य गुडको द्रुमशोऽप्यर्गला न षण् ॥ ४७ ॥
4.3.47 · p. 162
अनुष्टुप्
सूचिस्त्वयोऽर्गलैषा चेद्द्वारोर्ध्वे तूर्ध्वसूचिका ।मर्कटं मर्कटी सूची विष्कंभार्थमथांकुटः ॥ ४८ ॥
4.3.48 · p. 162
अनुष्टुप्
साधारणी कुंचिका च द्वारयन्त्रं तु तालकम् ।एतस्योद्घाटनं यन्त्रं ताल्यपि प्रतिताल्यपि ॥ ४९ ॥
4.3.49 · p. 162
अनुष्टुप्
अर्गलं द्वारपटलं विदण्डस्त्वर्गला त्रयी ।अस्त्री तु घर्घरोऽट्टादेरधोद्वारकवाटिका ॥ ५० ॥
4.3.50 · p. 163
अनुष्टुप्
गर्भागारोऽपवरको भ्रमन्तो गृहकोऽल्पकः ।आरोहणं स्यात्सोपानं निश्रेणिस्त्वधिरोहणी ॥ ५१ ॥
4.3.51 · p. 163
अनुष्टुप्
कोणाश्रौ नर्यणिर्न क्ली स्त्रियोऽश्रिस्रक्तिकोटयः ।सम्मार्जनी शोधनी तन्मलेऽवकरसंकरौ ॥ ५२ ॥
4.3.52 · p. 163
अनुष्टुप्
दन्तिका नागदन्ताः स्युर्लंगनी वस्त्रधारणी ।कपोतपाली स्त्री न स्त्री विटंकोऽथ गवाक्षकम् ॥ ५३ ॥
4.3.53 · p. 163
अनुष्टुप्
वातायनं गवाक्षश्च रसवत्यां महानसम् ।उद्धानमश्मन्तमधिश्रयणी चुल्लिरन्तिका ॥ ५४ ॥
4.3.54 · p. 163
अनुष्टुप्
हसन्त्यङ्गारशकटी हसन्यङ्गारधान्यपि ।पिठरः स्थाल्युखा कुंभिः पिधानं स्यादुदञ्चनम् ॥ ५५ ॥
4.3.55 · p. 163
अनुष्टुप्
कटाहः कर्परो लट्वो मणिकः स्यादलिंजरम् ।भ्राष्ट्रः पुंस्यंबरीषोऽस्त्री कंदुर्ना स्वेदनी स्त्रियाम् ॥ ५६ ॥
4.3.56 · p. 163
अनुष्टुप्
ऋचीषं पिष्टपचनं मल्लो मल्ली च कोशिका ।वर्धनी तु गलन्त्यालुः कर्करी करकोऽपि च ॥ ५७ ॥
4.3.57 · p. 163
अनुष्टुप्
भृङ्गारो हेमकरकः करंको नालिकेरजः ।निपो घटः कुटः कुंभः करीरः कलशी त्रयी ॥ ५८ ॥
4.3.58 · p. 163
अनुष्टुप्
घटी पारी कपाली तु त्रयी घोलश्च कर्परः ।शालाजिरो वर्धमानः शरावोऽस्त्री दृतिस्तु ना ॥ ५९ ॥
4.3.59 · p. 163
अनुष्टुप्
खल्वं क्लीबे चर्ममयी त्वालुः करकवर्तिका ।स्नेहपात्रं कुतूः कृत्तिः सैवाल्पा कुतुपः पुमान् ॥ ६० ॥
4.3.60 · p. 163
अनुष्टुप्
अवगाहो जलद्रोणिरुष्ट्रिका कांचिकादिभृत् ।भद्रकुंभः पूर्णकुंभः स्थालं स्यात्कांस्यपात्रकम् ॥ ६१ ॥
4.3.61 · p. 163
अनुष्टुप्
भाण्डमावपनेऽमत्रं भाजने पात्रमित्युभे ।चर्मकोशं तु कललं करालं तरलञ्च तत् ॥ ६२ ॥
4.3.62 · p. 163
अनुष्टुप्
पेटकः पिटकः पेटा मञ्जूषा सा तु चर्मणा ।वृता तरिः स्त्री तमतो वस्त्रकोशं करोटकम् ॥ ६३ ॥
4.3.63 · p. 164
अनुष्टुप्
स्यूतः प्रसेवकोऽथ स्यात्समुद्गः संपुटः पुटः ।धान्यकोष्ठे कुसूलोऽथ कण्डोलः पिटकः पिटः ॥ ६४ ॥
4.3.64 · p. 164
अनुष्टुप्
प्रस्फोटनं शूर्पमस्त्री न स्त्री तितउ चालनी ।अयोनिर्मुसलोऽस्त्री स्यादुदूखलमुलूखलम् ॥ ६५ ॥
4.3.65 · p. 164
अनुष्टुप्
प्रस्फोटनं तु पवनमवघातस्तु कण्डनम् ।फलीकृतस्तण्डुलः स्याद्धान्यानां तु तुषस्त्वचि ॥ ६६ ॥
4.3.66 · p. 164
अनुष्टुप्
शंबूकास्तु कणाः सूक्ष्मास्तण्डुलस्य तु यो मलः ।शंबूकः कण्डनं चासौ ज्येष्ठां तु तदंबुनि ॥ ६७ ॥
4.3.67 · p. 164
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
गोधूमचूर्णे शमिता चिक्कसो यवचूर्णके ।पृथुकश्चिपिटो लाजाः पुंभूम्नि परिवारकः ॥ ६८ ॥
4.3.68 · p. 164
अनुष्टुप्
खदिका तु गुडाद्याढ्यलाजसक्तुषु तर्पणम् ।सुस्विन्नभृष्टमृदिता उत्कुञ्चः कल्कपिण्डिकाः ॥ ६९ ॥
4.3.69 · p. 164
अनुष्टुप्
पिण्डिर्ना पिष्टधानादिचूर्णे गौडी तु मर्मरा ।उलुंबं बुंबिका बुंबी चक्षुष्याः सक्तवः कणाः ॥ ७० ॥
4.3.70 · p. 164
अनुष्टुप्
ते घृतादियुता मन्थः करंभो दधिसक्तवः ।धानाः स्त्रियो भृष्टयवा दारपत्रस्तु पोलिकः ॥ ७१ ॥
4.3.71 · p. 164
अनुष्टुप्
पूपस्तु पिष्टकोऽपूपः कोकुन्दाः पिष्टपण्डिकाः ।उत्कारिका चूर्णपूपे कुल्माषा यवपिष्टकाः ॥ ७२ ॥
4.3.72 · p. 164
अनुष्टुप्
शमिता त्वम्लदुग्धार्द्रा पक्वा खण्डे घृतोत्तरे ।संयावोऽयं युतश्चूर्णैः खण्डैलामरिचार्द्रकैः ॥ ७३ ॥
4.3.73 · p. 164
अनुष्टुप्
क्षीराढ्यः शमितापिण्डो घृतपूरो घृते शृतः ।फेनकः शमिता शुक्ला घृतपक्वाल्पशर्करा ॥ ७४ ॥
4.3.74 · p. 164
अनुष्टुप्
शष्कुली त्वायता पिष्टगुडतैलतिलैः कृता ।जीवनान्नाशनांघांसि कूरं भक्तं प्रसादनम् ॥ ७५ ॥
4.3.75 · p. 165
अनुष्टुप्
पाजो वाजोऽप्योदनोऽस्त्री भिस्सा स्त्री दीदिविर्न षण् ।पुन्नपुंसकयोश्चोरं करमाहार्यमित्यपि ॥ ७६ ॥
4.3.76 · p. 165
अनुष्टुप्
दग्धान्नं भिस्सिटा झिल्ली परमान्नं तु पायसम् ।क्षैरेयी चाथ मण्डोऽस्त्री रसाग्रोथ करोटिका ॥ ७७ ॥
4.3.77 · p. 165
अनुष्टुप्
य्वागुल्या स्याद्घनाम्लायां य्वागुली मण्डिका समे ।मासराचामनिः स्रावप्रस्रावा भक्तमण्डके ॥ ७८ ॥
4.3.78 · p. 165
अनुष्टुप्
वाट्यमण्डो यवैभृष्टैर्लाजमण्डोऽन्वितार्थकः ।तिलतण्डुलमाषैस्तु त्रिरसा कृसरा त्रयी ॥ ७९ ॥
4.3.79 · p. 165
अनुष्टुप्
यवागूरुष्णिका श्राणा पिच्छा सा तु घनाद्रवा ।विलेपी स्याद्विलेप्या च सा पेया तरणान्यथा ॥ ८० ॥
4.3.80 · p. 165
अनुष्टुप्
खलिः स्त्री तण्डुलैः पिष्टैर्जले पक्वा घनद्रवा ।सौवीरं काञ्चिकं कुण्डमारनालं गृहोदकम् ॥ ८१ ॥
4.3.81 · p. 165
अनुष्टुप्
अवन्तिसोमं रक्षोघ्नं शुक्ताभिषुतकुञ्जलम् ।गोलकुल्माषसन्धानान्यौदरो मधुरा न षण् ॥ ८२ ॥
4.3.82 · p. 165
अनुष्टुप्
तद्धान्ययोनि धान्याम्लं तुषांबु तुषसंहितम् ।मूलकाद्यैः संहिते स्यान्मूलकादिसुतं न ना ॥ ८३ ॥
4.3.83 · p. 165
अनुष्टुप्
मूलकच्छदसन्धानं शिण्डाकी स्वादुसुद्रवा ।यन्मस्त्वादि शुचौ भाण्डे सक्षौद्रगुडकांचिकम् ॥ ८४ ॥
4.3.84 · p. 165
अनुष्टुप्
त्रिरात्रं धान्यराशिस्थं तच्छुक्तं शुद्धमित्यपि ।निष्ठानं तेमनं तच्च व्यञ्जनं स्याद्घृतादि च ॥ ८५ ॥
4.3.85 · p. 165
अनुष्टुप्
सूपोऽस्त्री प्रहितं सूदोऽप्युपदंशोऽपदंशकः ।स्त्री पक्वभृष्टे भरुटा सगुडाज्योषणैः पुनः ॥ ८६ ॥
4.3.86 · p. 165
अनुष्टुप्
वेशवारः पिष्टमांसे पक्वे भूतिस्ततोऽन्यथा ।रसको मांसनिष्क्वाथः पिष्टमांसकृतो रसः ॥ ८७ ॥
4.3.87 · p. 165
अनुष्टुप्
सोरावासो निर्लवणः परिशुष्कं पुनर्घृते ।सिक्त्वा मांसं मृदूष्णांबुपक्वं युक्तं कणादिभिः ॥ ८८ ॥
4.3.88 · p. 166
अनुष्टुप्
उत्तप्तं शुष्कमांसं स्याद्वल्लूरा त्रय्यथ स्त्रियाम् ।पेशिः शुण्ठः पिचिण्डस्तु निकृतोऽवयवः पशोः ॥ ८९ ॥
4.3.89 · p. 166
अनुष्टुप्
शाकोऽस्त्री हरितं शिग्रुः स्त्री तन्नाले कडंबकः ।कन्दमस्त्री मूलसस्यं वेशवार उपस्करः ॥ ९० ॥
4.3.90 · p. 166
अनुष्टुप्
लेह्यं पेयं च चूष्यं च खाद्यमास्वाद्यमित्यपि ।पञ्चामृतमिदं स्वाद्यं मुक्त्वात्वन्नं चतुर्विधम् ॥ ९१ ॥
4.3.91 · p. 166
अनुष्टुप्
त्रिष्वाद्रुताद्भक्षकारे द्वौ कान्दविकपौपिको ।सूपकारे त्वारालिकसूदान्धसिकवल्लवाः ॥ ९२ ॥
4.3.92 · p. 166
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 रे (syllables merged)
गुणौदनिकसूपाश्च लवणो लवणोत्कटः ।पक्वं तु रन्धितं सिद्धं भृष्टं पक्वं विनांबुना ॥ ९३ ॥
4.3.93 · p. 166
अनुष्टुप्
प्रणीतमुपसंपन्नं प्रयस्तं स्यात्सुसंस्कृतम् ।शूलाकृतं भटित्रं च शूल्यमुख्यं तु पैठरम् ॥ ९४ ॥
4.3.94 · p. 166
अनुष्टुप्
सार्पिष्कदाधिकाद्यं स्यात् सर्पिर्दध्यादिसंस्कृते ।शीनं स्त्यानं शृतं पक्वं विलीनं विद्रुतं द्रुतम् ॥ ९५ ॥
4.3.95 · p. 166
अनुष्टुप्
तक्रं कपित्थचांगेरीमरीचाजाजिचित्रकैः ।यत् पक्वं गुडजूषोऽसावलकांबलिकोऽपरः ॥ ९६ ॥
4.3.96 · p. 166
अनुष्टुप्
दध्यम्लो लवणस्नेहतिलमाषविपाचितम् ।अपक्वतक्रं सव्योषचतुर्जातगुडार्द्रकम् ॥ ९७ ॥
4.3.97 · p. 166
अनुष्टुप्
सजीरकं रसालः स्यान्मार्जिता शिखरिण्यपि ।सा जाजी डाडिमव्योषं पटे घृष्टं च सट्टकम् ॥ ९८ ॥
4.3.98 · p. 166
अनुष्टुप्
बलकं स्याद्गुडक्षीरं यमकं तैलसर्पिषी ।त्रिस्नेहं त्रैवृतं मार्जा चतुस्स्नेहं वसान्वितम् ॥ ९९ ॥
4.3.99 · p. 166
अनुष्टुप्
मधु सर्पिश्च मिथुनं यूषोऽस्त्री यूः पुमान्रसे ।परिवेषणं वर्धनं च प्रतीच्छा पततो ग्रहः ॥ १०० ॥
4.3.100 · p. 167
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कबलः कबतो ग्रासो गुडः पिण्डो गुडेरकः ।गण्डोरश्च गडोलश्च चर्वणं चूषणं रदैः ॥ १०१ ॥
4.3.101 · p. 167
अनुष्टुप्
जग्धिस्तु निघसो न्यादो लेपोऽप्यभ्यवहारवत् ।प्रत्यवसानमशनं भोजनं जेमनादने ॥ १०२ ॥
4.3.102 · p. 167
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)
स्वदनं परिपत्रं च सग्धिः स्त्री सहभोजनम् ।चूषणं तु रसादानं जिह्वास्वादस्तु लेहनम् ॥ १०३ ॥
4.3.103 · p. 167
अनुष्टुप्
धीतिस्तु धयनं पानं जक्षा खादनभक्षणे ।कामं निकामं पर्याप्तं प्रकामं च यथेप्सितम् ॥ १०४ ॥
4.3.104 · p. 167
अनुष्टुप्
पर्याप्तं तु परित्राणं हस्तवारणमित्यपि ।तृप्तिः सुधा च सौहित्यं तृप्तं तु सुहितं त्रिषु ॥ १०५ ॥
4.3.105 · p. 167
अनुष्टुप्
करंबः सेकमिश्रान्ने फेला पिण्डेऽधिकोज्झिते ।खण्डपर्कटमुद्वेगं तांबूलं मुखभूषणम् ॥ १०६ ॥
4.3.106 · p. 167
अनुष्टुप्
अम्बलोर्णं चर्वितेऽस्य चूर्णेऽस्य त्वंबला रसे ।करङ्को वेडादिकृते पूगताम्बूलभाजने ॥ १०७ ॥
4.3.107 · p. 167
अनुष्टुप्
स्यात्पूगावपनी गन्त्री कर्त्तर्युद्वेगकर्तरी ।भवेत्क्षुरसमुद्गन्तु त्रिष्वाकर्णकरन्धके ॥ १०८ ॥
4.3.108 · p. 167
अनुष्टुप्
अस्त्री तु पुस्तकं सिन्दूरादेर्दाखभाजने ।चातुरीकं त्रिषु भवेच्चन्दनद्रवभाजने ॥ १०९ ॥
4.3.109 · p. 167
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
नागवल्लीपलाशानां तैलाक्तानां रसातलः ।निष्ठानं वीतकं प्रोक्तं चन्द्रमन्दारचूर्णधृत् ॥ ११० ॥
4.3.110 · p. 167
अनुष्टुप्
वीरस्नाका या तु शरशलाकायन्त्रनिर्मिता ।पाठार्थमुद्गृहीता स्यात् कबली पत्रपञ्चिका ॥ १११ ॥
4.3.111 · p. 167
अनुष्टुप्
परिकर्मांगसंस्कारः कंकप्तस्तु प्रसाधनः ।प्रसाधनं स्यादभ्यंगः सोत्पाताच्छुरिते समे ॥ ११२ ॥
4.3.112 · p. 167
अनुष्टुप्
उद्वर्तनं तूत्सादनं स्नानं त्वाप्लाव आप्लवः ।उपस्पर्शोऽभिषेकश्च गोसव्यं गोमयेन तत् ॥ ११३ ॥
4.3.113 · p. 168
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 त्सा (wrong syllable)
सुगन्धामलकैः स्नानं यत्तल्लक्ष्मीनिकेतनम् ।यत्तु सर्वौषधिस्नानं तन्मंगल्यमलोचकम् ॥ ११४ ॥
4.3.114 · p. 168
अनुष्टुप्
यन्मृत्तिकांभसा स्नानं दिष्टं देशनिकं च तत् ।ऋषीणां तर्पणं यत्तत् कौलकुल्यं कुलं च तत् ॥ ११५ ॥
4.3.115 · p. 168
अनुष्टुप्
सिक् स्त्री पटोऽस्त्री सिचयो वासो वसनमंशुकम् ।आच्छादनं निवसनं वसितं वस्त्रमंबरम् ॥ ११६ ॥
4.3.116 · p. 168
अनुष्टुप्
चेलं च तच्चतुर्धा स्यात्त्वक्फलक्रिमिरोमजम् ।वाल्कं क्षौमादिके वस्त्रे फाले कार्पासवादरौ ॥ ११७ ॥
4.3.117 · p. 168
अनुष्टुप्
कौशेयं कृमिकोशोत्थे रांकवं मृगरोमजे ।पत्रोर्णं धौतकौशेयं महामूल्यं महाधनम् ॥ ११८ ॥
4.3.118 · p. 168
अनुष्टुप्
अग्निगौचं वक्रवल्लीपदे वज्रांशुकं तथा ।राजावर्तं चित्रपटे राजवर्तो नवश्रियाम् ॥ ११९ ॥
4.3.119 · p. 168
अनुष्टुप्
अहतं निष्प्रवाणिः स्यात् तन्त्रकं च नवांशुके ।निवीतं प्रावृते धौतयुग्मं तुद्गमनीयकम् ॥ १२० ॥
4.3.120 · p. 168
अनुष्टुप्