कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Kalpadrukośa

कल्पद्रुकोशः Kalpadrukośa

4,306 verses · 27,819 words tagged · 4,643 marked doubtful (dashed)

भूमिस्कन्धः · पूःप्रकाण्डः

इति देशप्रकाण्डः

क्लीबेतिलम्बे स्थानीयं मुद्रङ्गो विवशः पुमान् ।नमं है(८५०)र्ग्रामभिर्द्रोणमुखं कर्वटाखर्वटौ ॥ १ ॥
1.3.1 · p. 8
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 टा (wrong syllable)
अस्त्रियां नर्मघै(४५०)श्चापि नर्मखैः(२५०) पुरमस्त्रियाम् ।तदर्द्धमस्त्रियां खेटस्तस्यार्द्धं पत्तनोऽस्त्रियाम् ॥ २ ॥
1.3.2 · p. 9
अनुष्टुप्
तदर्द्धं निगमः पुंसि तदर्द्धं तु निवेशनम् ।स्त्रियां पुरीपूःपुरयः पुरं वा नगरं च वा ॥ ३ ॥
1.3.3 · p. 9
अनुष्टुप्
वा मन्दिरं पत्तनं स्यात्पट्टनं कटकोऽस्त्रियाम् ।स्यादभिष्यन्दिवमनमुपपर्यायतः पुरम् ॥ ४ ॥
1.3.4 · p. 9
अनुष्टुप्
शाखानगरपर्यायं ग्रामः कर्षुकवासभूः ।अथासंनिपर्युपेभ्यः परः स्याद्वसथः पुमान् ॥ ५ ॥
1.3.5 · p. 9
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 नि (wrong syllable)
जन्यं तु ग्रामपर्यायमुखपर्यायमित्यपि ।पाटकस्तु तद्बहिः स्यादाघाटस्तु घटोवधिः ॥ ६ ॥
1.3.6 · p. 9
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 स्तु (wrong syllable)
अन्तोवसानं स्त्री सीमा मर्यादापि च सीमनि ।ग्रामसीमा तूपशल्यं ना कठः कण्ठकश्च सः ॥ ७ ॥
1.3.7 · p. 9
अनुष्टुप्
पुंसि क्लीबे तु मालः स्याद् ग्रामग्रामान्तराटवी ।पर्यन्तभूः परिसरः स्यात्कर्मान्तस्तु कर्मभूः ॥ ८ ॥
1.3.8 · p. 9
अनुष्टुप्
आभीरपल्ली घोषः स्याद्ध्रजोनीशोवनान्तरा ।वाटोल्पके तु पल्ली स्त्री पल्लिरप्यथ न स्त्रियाम् ॥ ९ ॥
1.3.9 · p. 9
अनुष्टुप्
पक्वणः शबरावासे वेश्याजनसमाश्रये ।वेशः पुंसि स्त्रियां वेश्याप्यथ पुंसि द्विजन्मनाम् ॥ १० ॥
1.3.10 · p. 9
अनुष्टुप्
अग्रहारोप्यथ ग्रामेल्पके ग्रामटिका स्त्रियाम् ।एको ग्रामपतिर्यत्र सभृत्यपरिचारकः ॥ ११ ॥
1.3.11 · p. 10
अनुष्टुप्
कुटिका सैकभोगोऽसावप्यथो विपणिः स्त्रियाम् ।पण्यवीथी च वीथ्यर्था चतुर्हट्टश्च न स्त्रियाम् ॥ १२ ॥
1.3.12 · p. 10
अनुष्टुप्
शूद्रस्य शासनं कॢप्तकीला पट्टोलिकापि च ।शासनं नैव कस्यापि पांसुकीलाथ पूर्गणः ॥ १३ ॥
1.3.13 · p. 10
अनुष्टुप्
गजाह्वयं हस्तिपुरं गजाह्वं गजसाह्वयम् ।हस्तिनं हास्तिनपुरं हस्तिनापुरमित्यपि ॥ १४ ॥
1.3.14 · p. 10
अनुष्टुप्
एकचक्रं हरिगृहं शंभुपर्यायवार्त्तनिः ।शाकेतं चापि साकेतमयोध्योत्तरकोशला ॥ १५ ॥
1.3.15 · p. 10
अनुष्टुप्
कोशलाथो कन्यकन्या-कान्येभ्यः कुब्जमित्यपि ।महोदयं गाधिपुरं कौशं द्वारवतीत्यपि ॥ १६ ॥
1.3.16 · p. 10
अनुष्टुप्
द्वारावती द्वारकापि द्वारिका च कुशस्थली ॥ १७ ॥
1.3.17 · p. 10
वनमालिन्यथो पुष्पपुरं पाटलिपुत्रकम् ।विदेहा मिथिला तुल्ये वेदिपर्यायपूरथ ॥ १८ ॥
1.3.18 · p. 10
अनुष्टुप्
त्रिपुरी चेदिनगरी कौशाम्बी वत्सपत्तनम् ।प्राजापत्यः प्रयागः स्यादग्निहोत्रगृहार्थकम् ॥ १९ ॥
1.3.19 · p. 10
अनुष्टुप्
मथुरा तु मधूपघ्नं मधुरा शिवपूरथ ।पुरीश्रेष्ठा तीर्थराजी जित्वरी च तपःस्थली ॥ २० ॥
1.3.20 · p. 10
अनुष्टुप्
काशी वाराणसी काशिर्वरणासी वराणसी ।महाश्मशानमानन्दवनं क्लीबेऽविमुक्तकम् ॥ २१ ॥
1.3.21 · p. 11
अनुष्टुप्
शिवपर्यायलिङ्गार्थमथ स्यादुज्जयन्यपि ।विशालोज्जयिनी पुष्पकरण्डिन्यप्यवन्तिका ॥ २२ ॥
1.3.22 · p. 11
अनुष्टुप्
तदुद्यानं समाख्यातं क्लीबे पुष्पकरण्डकम् ।देवीकोट्टो वाणपुरं कोटीवर्षमुमावनम् ॥ २३ ॥
1.3.23 · p. 11
अनुष्टुप्
स्याच्छोणितपुरं चाथ चमत्कारपुरार्थकम् ।नगरं वृद्धनगरमथ सिद्धपुरं पुनः ॥ २४ ॥
1.3.24 · p. 11
अनुष्टुप्
सारस्वतं हैहयपूर्माहिष्मत्यपि चेष्यते ।इन्दुपर्यायतः प्रस्थं योगिनीतः पुरार्थकम् ॥ २५ ॥
1.3.25 · p. 11
अनुष्टुप्
पुरी नलस्य निषधा गयराजर्षिपूर्गया ।पितृतीर्थं राजगृहं जरासन्धपुरं हि तत् ॥ २६ ॥
1.3.26 · p. 11
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 रा (wrong syllable)
चम्पा तु मालिनी कर्णलोमपादपुरीत्यपि ॥ २७ ॥
1.3.27 · p. 11
स्त्रियां क्लीबे तामलिप्तं दामलिप्तं तमालिनी ।वेलाकूलं स्तम्बपुरं विष्णुपर्यायपूरपि ॥ २८ ॥
1.3.28 · p. 11
अनुष्टुप्
अथ वैदर्भपर्यायं कुण्डिनं कुण्डिनापुरम् ।रथ्या प्रतोली विशिखा नगराभ्यन्तरायनम् ॥ २९ ॥
1.3.29 · p. 11
अनुष्टुप्
कोटो वप्रोऽस्त्रियां सालः प्राकारो वरणः पुमान् ।अस्त्री दुर्गोक्षणं क्लीबे पुनरावेष्टकः पुमान् ॥ ३० ॥
1.3.30 · p. 11
अनुष्टुप्
कम्पावारोपि तद्वत्स्युस्तस्य भेदा अनेकशः ।प्राकाराग्रं कपिकोटक्रमेभ्यः शिरसोर्थकम् ॥ ३१ ॥
1.3.31 · p. 12
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 पि (wrong syllable)
प्राकारभित्तिमूले स्यात् स्त्रियां नेमिरतः पुनः ।प्राचीनं परिवारः स्याद्गमादौ प्रान्ततो वृतिः ॥ ३२ ॥
1.3.32 · p. 12
अनुष्टुप्
कुड्यमस्त्री स्त्रियां भित्तिः करभः पुंस्यथास्त्रियाम् ।यदन्तर्न्यस्तमृतकदेहं प्रायोर्द्धकुड्यकम् ॥ ३३ ॥
1.3.33 · p. 12
अनुष्टुप्
एडूकमेडुकं न स्त्री स्यातामथ निवेशनम् ।सदनं सादनं वेश्म भवनं मन्दिरं विटम् ॥ ३४ ॥
1.3.34 · p. 12
अनुष्टुप्
निशान्तं धाम शरणं कुलं गेहं निकेतनम् ।अगारं चोदवसितमागारं चाधिवासनम् ॥ ३५ ॥
1.3.35 · p. 12
अनुष्टुप्
शिविरं विशयं पस्त्यमोको वस्त्यमिमानि षण् ।शाला सभा च वसतिर्वसती च स्त्रियामिमाः ॥ ३६ ॥
1.3.36 · p. 12
अनुष्टुप्
गृहं निकेतं निलयमालयं पुन्नपुंसकम् ।द्वयोः कुटी कुटीरो ना वेश आवसथः क्षयः ॥ ३७ ॥
1.3.37 · p. 12
अनुष्टुप्
अध्यानिसंभ्यो वासः स्याद्विश्रामोवसथाश्रयौ ।आवसथ्योऽपि संस्त्यायो गृहाः पुंसि च भूम्न्यपि ॥ ३८ ॥
1.3.38 · p. 12
अनुष्टुप्
अलिन्दभेदैरेवं स्युर्गृहभेदाश्च षोडश ।ध्रुवं हीनमलिन्देन धन्यं स्यात्प्रागलिन्दकम् ॥ ३९ ॥
1.3.39 · p. 12
अनुष्टुप्
जयं स्याद्दक्षिणालिन्दमथालिन्दद्वयान्विते ।पूर्वदक्षिणतो नन्दं कान्तं पश्चिमपूर्वतः ॥ ४० ॥
1.3.40 · p. 13
अनुष्टुप्
मनोरमं च तत्प्रत्यग्दक्षिणालिन्दमुत्तमम् ।क्रूरं पूर्वोत्तरालिन्दं दक्षिणोदक् सुपक्षकम् ॥ ४१ ॥
1.3.41 · p. 13
अनुष्टुप्
उदक् पश्चिमगालिन्दं क्षयं चाथ त्र्यलिन्दके ।उत्तरालिन्दशून्यं च सुमुखं परिकीर्तितम् ॥ ४२ ॥
1.3.42 · p. 13
अनुष्टुप्
पश्चिमालिन्दशून्येऽपि धनदं दक्षिणा हि च ।अलिन्दहीनमानन्दं पूर्वालिन्दविवर्जितम् ॥ ४३ ॥
1.3.43 · p. 13
अनुष्टुप्
विपुलं सर्वतोलिन्दसंयुक्तं विजयं मतम् ।हीनस्तम्भमलिन्दं स्याच्छाला स्तम्भैः समावृता ॥ ४४ ॥
1.3.44 · p. 13
अनुष्टुप्
प्रघानः प्रघनस्तुल्यौ प्रघाणः प्रघणः स च ।संजवनं संयमनं चतुःशालं स्त्रियां च षण् ॥ ४५ ॥
1.3.45 · p. 13
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 ज (wrong syllable)
अस्त्रियामुटजः पर्णोटजोप्यथ नपुंसके ।चैत्यमायतनं देवपर्यायेभ्यो गृहार्थकम् ॥ ४६ ॥
1.3.46 · p. 13
अनुष्टुप्
प्रासादः पुंस्यथाढ्यस्य गृहे हर्म्यं नपुंसकम् ।हस्तिशाला तु चतुरं वाजिनां मन्दुरानना ॥ ४७ ॥
1.3.47 · p. 13
अनुष्टुप्
गवां संदानिनी चाथावेशनं शिल्पिनां च षण् ।स्यान्मार्गे जलपानस्य प्रपा सत्री प्रतिश्रयः ॥ ४८ ॥
1.3.48 · p. 13
अनुष्टुप्
संन्यासिनां च च्छात्राणां निलये स्यान्मठोऽस्त्रियाम् ।चित्रशाला जालिनी स्यादथ तैलार्थशालिका ॥ ४९ ॥
1.3.49 · p. 14
अनुष्टुप्
यन्त्रसद्मार्थकं तन्तुवायशाला तु गर्त्तकी ।कुशाला पक्षिशालायां शिल्पा खरकुटीत्यपि ॥ ५० ॥
1.3.50 · p. 14
अनुष्टुप्
उपनी नापितगृहमास्थानं गृहभद्रकम् ।कुम्भकारस्य शाला तु बुधैः पाकपुटीरिता ॥ ५१ ॥
1.3.51 · p. 14
अनुष्टुप्
खलूरिका तु मल्लानां श्रमस्य स्थानभूरथ ।आथर्वणं शान्तिगृहं शान्तीगृहकमित्यपि ॥ ५२ ॥
1.3.52 · p. 14
अनुष्टुप्
कुट्टिमोऽस्त्री निबद्धा भूश्चन्द्रशाला शिरोगृहम् ।भाण्डागारे कोशकोषावस्त्रियां गञ्ज इत्यपि ॥ ५३ ॥
1.3.53 · p. 14
अनुष्टुप्
सुरागृहे स्त्रियां गञ्जा गुञ्जाथो सूतिकागृहम् ।अरिष्टं सूतकगृहं वेशो वेश्यागृहे पुमान् ॥ ५४ ॥
1.3.54 · p. 14
अनुष्टुप्
वेश्यमप्यथ संधानी स्यात्स्त्रियां कुप्यशालिका ।भौरिकी नैष्किकी टङ्कशाला लक्ष्मीगृहार्थकम् ॥ ५५ ॥
1.3.55 · p. 14
अनुष्टुप्
अस्त्री महानसं पाकशाला रसवती स्त्रियाम् ।लेख्यस्थानं ग्रन्थकुटी कारा स्याद्वन्दिशालिका ॥ ५६ ॥
1.3.56 · p. 14
अनुष्टुप्
स्याद्भोगगर्भवासार्थाद्गृहपर्यायमित्यपि ।पुंसि क्लीबेऽपवरकं शयनादास्पदार्थकम् ॥ ५७ ॥
1.3.57 · p. 14
अनुष्टुप्
निशागृहं तु गोजारिः स्त्रियां गुप्तगृहं च तत् ।वारित्रापि च कारावी भ्रमजङ्गमतः कुटी ॥ ५८ ॥
1.3.58 · p. 15
अनुष्टुप्
मूर्द्धखोलं खपरिका क्लीबे पत्रपिशाचिका ।कायमानं ननोशीरसुगन्धतृणनिर्मितम् ॥ ५९ ॥
1.3.59 · p. 15
अनुष्टुप्
स्यादस्त्रियां वास्तुगृहं गृहपोतक इत्यपि ।क्लीबे वधूटी शयनं वातायनं गवाक्षकः ॥ ६० ॥
1.3.60 · p. 15
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 य (wrong syllable)
गृहाक्षो मण्डपोऽस्त्री स्याज्जनपर्यायसंश्रयः ।बहुमानुषसंकीर्णं निर्मुटं च करार्गलम् ॥ ६१ ॥
1.3.61 · p. 15
अनुष्टुप्
हर्म्यादि धनिनां वासः प्रासादस्तु प्रसादवत् ।देवभूमीशपर्यायात्सद्मार्थोथोपकारिका ॥ ६२ ॥
1.3.62 · p. 15
अनुष्टुप्
उपकार्याथ सौधोऽस्त्री सद्म धामापि राजतः ।चन्द्रशाला तु वलभिर्वलभी चन्द्रशालिका ॥ ६३ ॥
1.3.63 · p. 15
अनुष्टुप्
वडभिर्वडभी चूडा चूला च स्युः स्त्रियामिमाः ।विमानमथ तद्भेदास्तत्र विच्छन्दकोऽस्त्रियाम् ॥ ६४ ॥
1.3.64 · p. 15
अनुष्टुप्
विच्छर्दकोऽपि वा क्लीबे नन्दावर्त्तश्च न स्त्रियाम् ।नन्द्यावर्त्तोऽपि वा क्लीबे सर्वतोभद्र इत्यपि ॥ ६५ ॥
1.3.65 · p. 15
अनुष्टुप्
वा पुंसि वर्द्धमानोऽस्त्री रुचकस्वस्तिकौ समौ ।सिंहार्थाद्द्वारपर्यायं तत्रैव स्यात्प्रवेशनम् ॥ ६६ ॥
1.3.66 · p. 15
अनुष्टुप्
स्त्र्यगारं भूभुजामन्तःपुरं स्यादवरोधनम् ।अवरोधोऽपि शुद्धान्तर्नना स्थानं च भद्रकम् ॥ ६७ ॥
1.3.67 · p. 16
अनुष्टुप्
जिनस्थाने चैत्यमस्त्री विहारोऽसावपाश्रयः ।मत्तालम्बश्चपग्रीवो न स्त्रियां मत्तवारणम् ॥ ६८ ॥
1.3.68 · p. 16
अनुष्टुप्
समुद्रपर्यायगृहं जलयन्त्रनिकेतनम् ।शिवस्य वृषमण्डप्यां बुधैर्गोपुटिकं स्मृतम् ॥ ६९ ॥
1.3.69 · p. 16
अनुष्टुप्
स्थूणास्तम्भः पुमान्नासादारु द्वारोपरि स्थितम् ।क्षौमं वा पुंसि चाट्टालो गृहस्योपरिभूमिकम् ॥ ७० ॥
1.3.70 · p. 16
अनुष्टुप्
यद्वेश्माथावग्रहर्णा देहल्युम्बर इत्यपि ।उदुम्बरश्चाथ शिली शिला चापि शिलिः पुनः ॥ ७१ ॥
1.3.71 · p. 16
अनुष्टुप्
अधस्ताद्दारुणि शिला सैव स्याद्द्वारपिण्डिका ।प्रच्छन्नमन्तर्द्वारं स्यात्पक्षद्वारं तु पक्षकः ॥ ७२ ॥
1.3.72 · p. 16
अनुष्टुप्
वलीकमस्त्रियां क्लीबे नीब्रं नीध्रं च नीद्रकम् ।पटलान्तेथ तत्प्रान्त इन्द्रकोशस्तमङ्गकः ॥ ७३ ॥
1.3.73 · p. 16
अनुष्टुप्
पुंसिच्छदिः स्त्री पटलं त्रिषु स्याद्वलभी स्त्रियाम् ।गोपानसी स्यादाधारच्छादने वक्रदारुणि ॥ ७४ ॥
1.3.74 · p. 16
अनुष्टुप्
प्रासादमण्डपे चूडा दन्तास्ते नागदन्तकाः ।मत्तवारणमिच्छन्ति प्रग्रीवं पुंनपुंसकम् ॥ ७५ ॥
1.3.75 · p. 16
अनुष्टुप्
स्त्रियां कपोतपाली स्याद्विटङ्कं पुंनपुंसकम् ।स्त्री द्वार्द्वारं प्रतीहारः स्याद्वितर्दिस्तु वेदिका ॥ ७६ ॥
1.3.76 · p. 17
अनुष्टुप्
वातर्द्दिश्चापि वातर्द्दी विज्ञेयाः स्युः स्त्रियामिमाः ।तोरणोऽस्त्री बहिर्द्वारं पुरद्वारं तु गोपुरम् ॥ ७७ ॥
1.3.77 · p. 17
अनुष्टुप्
तिर्यगायतवंशादि श्लक्ष्णेषीकादिनिर्मिते ।द्वाराघावरणे जालमालाभिव्यञ्जके बहिः ॥ ७८ ॥
1.3.78 · p. 17
अनुष्टुप्
तोरणोपरि मङ्गल्यं दाम वन्दनमालिका ।वर्द्धमानं तु तद्द्वारं येन वध्योपनीयते ॥ ७९ ॥
1.3.79 · p. 17
अनुष्टुप्
अमार्गे रचितं द्वारमपद्वारं च मोरिका ।अथ हस्तिनखः कूटं पूर्द्वारोपरिकूटकम् ॥ ८० ॥
1.3.80 · p. 17
अनुष्टुप्
स्त्रियां द्वाः स्यात्कपाटं च कवाटं च कुवाटकम् ।त्रिष्वेते चाररिरपि ननाऽररमथ त्रिषु ॥ ८१ ॥
1.3.81 · p. 17
अनुष्टुप्
स्यादर्गलं तु परिघः पुमान्स्यादथ सूचिका ।अल्पिका चेदर्गलिका कूचिका कुञ्चिकापि च ॥ ८२ ॥
1.3.82 · p. 17
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द (wrong syllable)
पुंस्यङ्कुशो निकुञ्चः स्याद्वारणी स्यात्स्त्रियामथ ।अर्गल्यादेरधिष्ठाने शृङ्खला वल्गनी स्त्रियौ ॥ ८३ ॥
1.3.83 · p. 17
अनुष्टुप्
द्वारयन्त्रं तु तालं स्यादस्योद्घाटनयन्त्रकम् ।प्रतिताल्यपि ताली स्याद्बहुभेदान्यमून्यपि ॥ ८४ ॥
1.3.84 · p. 17
अनुष्टुप्
आरोहणं स्यात्सोपानं पाषाणेष्ट्यादिनिर्मिते ।काष्ठादिनिर्मिता सा स्यान्निःश्रेणिरधिरोहिणी ॥ ८५ ॥
1.3.85 · p. 18
अनुष्टुप्
निःश्रयण्यपि निःश्रेणी ऊहनी तु समूहिनी ।समूहनिर्बहुकरा शोधनी व्यवहारिका ॥ ८६ ॥
1.3.86 · p. 18
अनुष्टुप्
सम्मार्जनी वर्द्धनी स्यात्सैवोक्ता तृणकूचिका ।पुंविमार्गः सुहरिणी सैवार्द्धेन्दुसमाल्पिका ॥ ८७ ॥
1.3.87 · p. 18
अनुष्टुप्
क्लीबे सुहरणं तत्स्यात्सा समा काष्ठकीलकैः ।खचिता पझटी ज्ञेया यष्ट्याढ्याथ निघर्षणम् ॥ ८८ ॥
1.3.88 · p. 18
अनुष्टुप्
संस्थानं चाथावकरः संकरः क्षिप्तके मुखम् ।स्यान्निःसरणमाघाटो मर्यादाप्यवहारकः ॥ ८९ ॥
1.3.89 · p. 18
अनुष्टुप्
पत्तनादिपरिच्छेदे संनिवेशो निकर्षणम् ।प्रतिहारः प्रतीहारो वातमञ्चक इत्यपि ॥ ९० ॥
1.3.90 · p. 18
अनुष्टुप्
इन्द्रकोशस्तदुपरि दारु तिर्यक् स्थितं हि यत् ।उत्तरङ्गोथ काष्ठादिनिर्मिता शालभञ्जिका ॥ ९१ ॥
1.3.91 · p. 18
अनुष्टुप्
पाञ्चालिका पुत्रिका स्यादथ लेपमयी तु या ।संपादिता शिल्पिवरैः सा स्यादञ्जलिकारिका ॥ ९२ ॥
1.3.92 · p. 18
अनुष्टुप्
मार्गोऽध्वा निगमः पन्था विवधः पुंसि बीवधः ।अपि द्वयोः स्यात्पदवी सरणिः सरणी सृतिः ॥ ९३ ॥
1.3.93 · p. 18
अनुष्टुप्
पदविः स्त्री पुंसि वाटः पथः पेंडः पुमानयम् ।वर्त्तन्येकपदी पद्या वर्त्तनिः पद्धतिः स्त्रियाम् ॥ ९४ ॥
1.3.94 · p. 19
अनुष्टुप्
अयनं वर्त्तनं वर्त्म क्लीबे स्याच्छरणिर्द्वयोः ।अथाचारो वहो माथोऽपथं क्लीबेऽपथोऽपि वा ॥ ९५ ॥
1.3.95 · p. 19
अनुष्टुप्
व्यध्वो दुरध्वो विपथः कदध्वा कापथोऽस्त्रियः ।हस्त्यश्वरथपादातगमनोऽध्वा तु संकुलः ॥ ९६ ॥
1.3.96 · p. 19
अनुष्टुप्
द्विमार्गो द्विपथं चारपथोऽथ त्रिपथे त्रिकम् ।चतुष्पथे चतुष्कं स्यात्संस्थानं बहुमार्गके ॥ ९७ ॥
1.3.97 · p. 19
अनुष्टुप्
चत्वरं चाथ शृङ्गाटं त्रिमार्ग्या यत्र संगमः ।प्रान्तरं दूरशून्योध्वाप्यथ वर्त्मनि दुर्गमे ॥ ९८ ॥
1.3.98 · p. 19
अनुष्टुप्
कान्तारमस्त्रियां च स्याद्दुर्गमार्गोऽपि दुर्गमः ।संधिला तु सुरङ्गा स्याद्गूढमार्गो भुवोन्तरा ॥ ९९ ॥
1.3.99 · p. 19
अनुष्टुप्
घण्टापथः संसरणं श्रीपथः स्यान्महापथः ।राजपर्यायमार्गार्थः स पुरस्योपनिष्करम् ॥ १०० ॥
1.3.100 · p. 19
अनुष्टुप्
उपनिष्क्रमणं पर्व मध्यमाङ्गुलिमध्यमम् ।स्यादङ्गुलं तैर्द्वादशभिर्वितस्तिस्तद्युगेन च ॥ १०१ ॥
1.3.101 · p. 19
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
हस्तो हस्तैश्चतुर्भिः स्याद्धनुर्दण्डश्च तैः पुनः ।द्विसहस्रमितैः क्रोशः क्रोशाभ्यां गोरुतं पुनः ॥ १०२ ॥
1.3.102 · p. 19
अनुष्टुप्
गव्यूतं च स्त्रियां गव्या द्वयोर्गव्यूतिरित्यपि ।कल्पद्रौ केशवकृते भूमिस्कन्धे गुणाद्भुते ।पूःप्रकाण्डो द्वितीयोऽयं साङ्गः प्रत्यक्षतां गतः ॥ १०३ ॥
1.3.103 · p. 20
अनुष्टुप्