कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Trikāṇḍaśeṣa

त्रिकाण्डशेष Trikāṇḍaśeṣa

1,058 verses · 9,515 words tagged · 1,059 marked doubtful (dashed)

द्वितीयः काण्डः · पुरवर्गः

इति भूमिवर्गः ॥ १ ॥

गर्भागारापवरके वास्तु स्याद्गृहपोतकः ।स्यात्प्रासादो देवकुलं पुत्रिका शालभञ्जिका ॥ १ ॥
2.2.1 · p. 34
अनुष्टुप्
ओको गृह पिटं चालो वडमी चन्द्रशालिका ।कूटागारं चाथ कपिशीर्षं घोटकशीर्षकम् ॥ २ ॥
2.2.2 · p. 34
अनुष्टुप्
क्रमशीर्षं चाथ खरकुटी नापितशालिका ।कुलायिका पक्षिशाला कारावेश्म वधाङ्गकम् ॥ ३ ॥
2.2.3 · p. 34
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 चा (wrong syllable)
कायमानं तृणकुटी दुर्भटं निभृतं गृहम् ।कुडङ्गोद्घाटपिठरा इन्द्रकोषस्तु मञ्चकः ॥ ४ ॥
2.2.4 · p. 34
अनुष्टुप्
वासागारं भोगगृहं कन्यापत्न्याटनिष्कुटाः ।देवीगृहं तु वलभी लयनं सौगतालयः ॥ ५ ॥
2.2.5 · p. 34
अनुष्टुप्
शिवस्य वृषमण्डप्यां बुधैर्गोपिटकं स्मृतम् ।वातायनं गृहाक्षं स्याद्वधूटशयनं तथा ॥ ६ ॥
2.2.6 · p. 34
अनुष्टुप्
उलपशल्योपकण्ठे द्वे कपाटो द्वारकण्टकः ।कवाटश्चाररं कन्थावाटः प्राकार इत्यपि ॥ ७ ॥
2.2.7 · p. 35
अनुष्टुप्metre not read in every linenearly अनुष्टुप्