कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthārṇavasaṃkṣepa

नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa

5,800 verses · 33,357 words tagged · 12,179 marked doubtful (dashed)

चतुरक्षरकाण्डः (4/9)

उपयाते द्रवं क्ली तु द्रवस्य स्यात् समीपके ।उपलिङ्गं तु डमरे क्ली लिङ्गोपगतादिषु ॥ ९६ ॥
6.96 · p. 34
अनुष्टुप्
लिङ्गार्थौ पूर्ववज्ज्ञेयावुपसर्गस्तु ना बुधैः ।डमरेऽपि क्रियायुक्तपादिप्रभृतिषु स्मृतः ॥ ९७ ॥
6.97 · p. 34
अनुष्टुप्
संसर्गे च समासार्थलिङ्गाद्यस्यापि पूर्ववत् ।उपप्लवस्तु डमरे राहौ चान्यत् तु पूर्ववत् ॥ ९८ ॥
6.98 · p. 34
अनुष्टुप्
उपरक्तौ तु पुंसि स्तो राहुग्रस्तेन्दुसूर्ययोः ।उपरक्तं पुनस्त्रि स्याज्जपापुष्पादिवस्तुनः ॥ ९९ ॥
6.99 · p. 34
अनुष्टुप्
प्रभोपरञ्जिते द्रव्ये स्फटिकादावथ स्त्रियाम् ।न्यग्रोधीसंज्ञगुल्मे स्यादुपचित्रात्र कश्चन ॥ १०० ॥
6.100 · p. 34
अनुष्टुप्
नागदन्तीपृश्निपर्ण्योरोषध्योरिति पूर्ववत् ।समासाद्युपकण्ठं तु सामीप्याख्यगुणे नपि ॥ १०१ ॥
6.101 · p. 34
अनुष्टुप्
अश्वस्यास्कन्दिताभिख्यगतौ च त्रि तु तद्वति ।समीपगुणयुक्ते च स्यादुपाध्यायवाक् पुनः ॥ १०२ ॥
6.102 · p. 34
अनुष्टुप्
अध्यापके पुमांस्तस्य पत्न्यां रूपद्वयं भवेत् ।उपाध्यायान्युपाध्यायीत्यथ स्यात् स्वयमेव या ॥ १०३ ॥
6.103 · p. 34
अनुष्टुप्
अध्यापयित्री तस्यां स्यादेवं रूपद्वयं तथा ।उपाध्यायाप्युपाध्यायीत्युपाहितपदं तु ना ॥ १०४ ॥
6.104 · p. 34
अनुष्टुप्
अग्न्युत्पाते त्रिषु त्वेतत् स्यादारोपितवस्तुनि ।उरुक्रमस्तु ना विष्णौ विक्रमत्रयशालिनि ॥ १०५ ॥
6.105 · p. 34
अनुष्टुप्
अर्थलिङ्गसमासादि पूर्वत्रेवात्र तर्कयेत् ।स्यादुद्धननमुत्खातौ क्लीबं स्त्रीशण्डयोः पुनः ॥ १०६ ॥
6.106 · p. 34
अनुष्टुप्
स्फ्यसंज्ञकाष्ठकुद्दाले भवेदुद्धननीत्यथ ।उदास्थितस्तु भिक्षाकवेपधारस्पशे पुमान् ॥ १०७ ॥
6.107 · p. 35
अनुष्टुप्
अजयः शूरभेदेऽमुं प्राह द्वाःस्थे पुनस्त्रिषु ।उत्साहना (न) नाङ्कार्थवाद्यघोषे तथैव च ॥ १०८ ॥
6.108 · p. 35
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ना (syllables merged)
उत्साहहेतुव्यापारेऽप्यथो उत्सादना न ना ।उद्वर्तने मलस्य स्यादुन्नत्युच्छेदयोरपि ॥ १०९ ॥
6.109 · p. 35
अनुष्टुप्
उद्वर्तंना न नाङ्गस्य मलोन्मर्दनकर्मणि ।उद्वृत्तहेतुव्यापारे क्ली तूद्वृत्तावथो न ना ॥ ११० ॥
6.110 · p. 35
अनुष्टुप्
उद्वासना वधेऽन्यत्र न्यासेऽन्यत्र स्थितस्य च ।आवाहितस्य देवादेरुत्सर्जनविधावपि ॥ १११ ॥
6.111 · p. 35
अनुष्टुप्
उदञ्चनं क्ली स्थाल्यादिपिधाने स्यात् तथोद्गमे ।स्त्रीनपुंसकयोस्तूर्ध्वं गमनायामुदञ्चना ॥ ११२ ॥
6.112 · p. 35
अनुष्टुप्
उन्मीलितं त्रि स्यात् फुल्ले सोन्मेषे चापि नप् पुनः ।उन्मीलनेऽथोन्मिषितं त्रिः सोन्मेषे च फुल्लिते ॥ ११३ ॥
6.113 · p. 35
अनुष्टुप्
क्लीबं तून्मेषणे क्ली तु चित्त उत्कलितं त्रिषु ।उत्कम्पितेऽथोत्तराङ्गं द्वारस्योपरिदारुणि ॥ ११४ ॥
6.114 · p. 35
अनुष्टुप्
तिर्यङ्न्यस्ते समासादि पूर्वेष्विव समुन्नयेत् ।उष्णवीर्यो जलकपौ द्वे समासादि पूर्ववत् ॥ ११५ ॥
6.115 · p. 35
अनुष्टुप्
उलूखलं तु सन्धौ क्ली कक्षाया वङ्क्षणस्य च ।उलूखला स्त्री त्वश्वस्य दन्तच्छिद्र उलूखली ॥ ११६ ॥
6.116 · p. 35
अनुष्टुप्
पुमांस्तु व्रतिनो दण्ड उदुम्बरतरूद्भवे ।पुमांस्तूपनिधिर्न्यासे धनस्यार्थादि पूर्ववत् ॥ ११७ ॥
6.117 · p. 35
अनुष्टुप्
उच्चैःश्रवास्तु नेन्द्राश्वे घोटमात्रे तु स द्वयोः ।इहापि पूर्ववज्ज्ञेयमर्थलिङ्गादि पुंसि तु ॥ ११८ ॥
6.118 · p. 35
अनुष्टुप्
ऊर्ध्वमूलः स्तम्बभेद उलूकाख्येऽत्र पूर्ववत् ।समासाद्यूर्ध्वधन्वा तु नेन्द्रे लिङ्गादि पूर्ववत् ॥ ११९ ॥
6.119 · p. 36
अनुष्टुप्
ऋषिसृष्टा त्वृद्धिसंज्ञभेषजे स्त्री तथात्र च ।लिङ्गाद्यमृश्यजिह्वं तु कुष्ठव्याध्यन्तरेऽपि च ॥ १२० ॥
6.120 · p. 36
अनुष्टुप्
स्त्रियां त्वृश्यस्य जिह्वायां स्त्रियां त्वेकपदेऽपठीत् (?) ।इहापि पूर्ववज्ज्ञेयं समासाद्यव्ययं पुनः ॥ १२१ ॥
6.121 · p. 36
अनुष्टुप्
विद्यादेकपदेशब्दमेकारान्तमनुष्य च ।तत्क्षणे इत्यसावर्थ एकाक्षीला पुनः स्त्रियाम् ॥ १२२ ॥
6.122 · p. 36
अनुष्टुप्
पाठायां ना तु विख्याते शिवमल्लीति पादपे ।एकादशस्तु त्रिष्वेकादशानां पूरणे भवेत् ॥ १२३ ॥
6.123 · p. 36
अनुष्टुप्
एकादशी तु स्त्रीन्द्रस्य ति वीणान्तरे तथा ।स्यादेकादशतन्त्रीक एकदेशः पुनः पुमान् ॥ १२४ ॥
6.124 · p. 36
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 शी (syllables merged)
विज्ञेयोऽवयवेऽत्रापि स्युरर्थादीनि पूर्ववत् ।अथो एकायनं त्रि स्यादेकाग्रे स पुनर्नपि ॥ १२५ ॥
6.125 · p. 36
अनुष्टुप्
शास्त्रे भागवतानां तत् कश्मीरेष्वेव विश्रुतम् ।अथो एणीकृतः पुंसि वर्णदोषे त्रि तद्वति ॥ १२६ ॥
6.126 · p. 36
अनुष्टुप्
आपादितैणभावे च क्ली त्वेणीकरणेऽथ ना ।ऐरावतो महेन्द्रस्य कुञ्जरे पादपान्तरे ॥ १२७ ॥
6.127 · p. 36
अनुष्टुप्
नागरङ्गाह्वये क्ली तु तत्फलेऽपि शचीपतेः ।ऋजुदीर्घे व्योमचापे स्थाने च व्योमगोचरे ॥ १२८ ॥
6.128 · p. 36
अनुष्टुप्
अश्विन्याद्यृक्षनवकक्लृप्तवीथीत्रयात्मनः ।दे(वया)नाख्यमार्गस्थ स्त्रियां त्वैरावती भवेत् ॥ १२९ ॥
6.129 · p. 37
अनुष्टुप्metre not read in every line
वीथ्यां पुनर्वस्वाद्यैश्च क्लृप्तायामुडुभिस्त्रिभिः ।आचक्षते च तामेनां विद्युद्विद्युद्विशेषयोः ॥ १३० ॥
6.130 · p. 37
अनुष्टुप्
सम्बन्धिनि त्विरावत्यास्त्रिष्वथौदुम्बरं नपि ।कुष्ठरोगान्तरे केचित् पुनस्ताम्रेऽप्यधीयते ॥ १३१ ॥
6.131 · p. 37
अनुष्टुप्
वानप्रस्थविशेषे तु पुमानस्याह लक्षणम् ।औदुम्बरस्तु षण्माससङ्ग्रही तुर्यकालभुक् ॥ १३२ ॥
6.132 · p. 37
अनुष्टुप्
उदुम्बरस्य सम्बन्धिन्येतत् स्याद्भेद्यलिङ्गकम् ।और्वशेयस्त्वगस्त्यर्षौ ना द्वयोस्तूर्वशीसुते ॥ १३३ ॥
6.133 · p. 37
अनुष्टुप्
कलधौतं रूप्यहेम्नोः क्ली त्रि तु स्यात् कलध्वनौ ।कलकण्ठः कोकिले द्वे समासार्थादि पूर्ववत् ॥ १३४ ॥
6.134 · p. 37
अनुष्टुप्
कलक्वाणस्तु दात्यूहे भ्रमरे च द्वयोः स्मृतः ।तत्राप्यर्थसमासादि पूर्ववत् तर्कयेदथ ॥ १३५ ॥
6.135 · p. 37
अनुष्टुप्
पारावते कलरवो द्वे समासादि पूर्ववत् ।कलहंसस्तु कादम्बसंज्ञके विहगे द्वयोः ॥ १३६ ॥
6.136 · p. 37
अनुष्टुप्
राजहंसेऽप्यथो पुंसि विज्ञेयः श्रेष्ठभूभुजि ।कलेबरं तु क्ली काये शवे त्वन्ये स्त्रियां पुनः ॥ १३७ ॥
6.137 · p. 37
अनुष्टुप्
नवानां शम्भुशक्तीनामेकस्यां स्यात् कलेबरा ।कर्णपूरस्तु पुष्पाद्यैः कृतकर्णविभूषणे ॥ १३८ ॥
6.138 · p. 37
अनुष्टुप्
अशोकवृक्षे च तथा तिलकाख्यतरौ च ना ।कर्णपूरा तु कर्णस्य पूर्तौ स्त्रीपुंसयोर्भवेत् ॥ १३९ ॥
6.139 · p. 37
अनुष्टुप्
नपुंसकं तु विज्ञेयं स्यात् सौगन्धिक उत्पले ।ना तु कङ्कमुखो ज्ञेयः सन्दंशे लोहकारिणाम् ॥ १४० ॥
6.140 · p. 37
अनुष्टुप्
अत्रापि पूर्ववद्विद्यात् समासार्थादि पण्डितः ।कङ्कपत्रस्तु ना बाणभेदेऽत्रार्थादि पूर्ववत् ॥ १४१ ॥
6.141 · p. 38
अनुष्टुप्
कङ्कणीकस्तु ना घण्टाजाले प्रतिसरे पुनः ।कङ्कणीका स्त्रियामेतदौणादिकनिरूपितम् ॥ १४२ ॥
6.142 · p. 38
अनुष्टुप्
कलविङ्कस्तु चटके तद्भेदे पीतमुण्डके ।द्वयोः स्यात् कमनीयस्तु चम्पकाख्यमहीरुहे ॥ १४३ ॥
6.143 · p. 38
अनुष्टुप्
नाथ कामयितव्ये त्रिः स्त्रियां तु स्यात् कपिप्रिया ।तिन्त्रिणीकाख्यवृक्षे स्यात् प्रियायां च कपेस्तथा ॥ १४४ ॥
6.144 · p. 38
अनुष्टुप्
अर्थलिङ्गसमासांस्तु विद्यादत्रापि पूर्ववत् ।कपीतनस्तु ना ज्ञेयस्त्रिषु वृक्षेषु सूरिभिः ॥ १४५ ॥
6.145 · p. 38
अनुष्टुप्
गर्दभाण्डाह्वयप्लक्षेऽप्याम्रातकशिरीषयोः ।फलप्रसूनयोस्तेषां विद्यादेतन्नपुंसकम् ॥ १४६ ॥
6.146 · p. 38
अनुष्टुप्
करमर्दस्तु ना ज्ञेयो मर्दने करवस्तुनः ।कृष्णपाकाख्यवृक्षे च करमर्दी तु सा स्त्रियाम् ॥ १४७ ॥
6.147 · p. 38
अनुष्टुप्
तस्य जात्यन्तरे स्वल्पे कलहाहः पुनर्नरि ।मदनाख्यद्रुमे पद्मकन्देऽप्याह तु शाश्वतः ॥ १४८ ॥
6.148 · p. 38
अनुष्टुप्
पुष्पजातौ च लिङ्गं तु तत्र क्ली मदनस्य च ।प्रसूनफलयोः पुंसि करवीरो महीरुहे ॥ १४९ ॥
6.149 · p. 38
अनुष्टुप्
अश्वमारकसंज्ञेऽस्य पुनः पुष्पे नपुंसकम् ।मनःशिलायां तु भवेत् करवीरा स्त्रियामियम् ॥ १५० ॥
6.150 · p. 38
अनुष्टुप्
[ आढकीसंज्ञधान्ये चाप्यथो ना करपल्लवः ।बाहौ किसलयप्रख्यकरे त्वेष नृशण्डयोः ॥ ]
6.416 · p. 39
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
करपाली स्त्रियामीलीसंज्ञे शस्त्रे पुमान् पुनः ।करपालो भवेत खड्गे पालके तु करस्य सः ॥ १५१ ॥
6.151 · p. 39
अनुष्टुप्metre not read in every line
त्रि स्यात् पुनर्नवायां तु रक्तायां स्यात् कठिल्लकः ।कारवेल्ले च ( टस्तु ? नप्तु ) स्यात् फलेऽस्याथो नपुंसकम् ॥ १५२ ॥
6.152 · p. 39
अनुष्टुप्metre not read in every line
कश्मीरजं कुङ्कुमे स्यात् त्रि तु कश्मीरसम्भवे ।क्रमेलको द्वे स्यादुष्टे मर्त्यजात्यन्तरे तथा ॥ १५३ ॥
6.153 · p. 39
अनुष्टुप्
उग्र्यां निष्ट्यात् समुद्भूते स्यात् तु कर्पफला स्त्रियाम् ।आमलक्यां पुनस्त्वेष विभीतकमहीरुहे ॥ १५४ ॥
6.154 · p. 39
अनुष्टुप्
कुलत्थे स्त्री कफहरिः श्लेष्मघ्ने तु त्रिषु स्मृता ।कदम्बकं समूहे क्ली सर्षपे तु पुमानयम् ॥ १५५ ॥
6.155 · p. 39
अनुष्टुप्
कटूत्कटं तु क्ली व्योषेऽप्यार्द्रकेऽपि त्रिषु त्वदः ।उत्कटे कटुनाऽथो ना शालिभेदे कलापकः ॥ १५६ ॥
6.156 · p. 39
अनुष्टुप्
कलमाख्ये नपि त्वेतज्जानीयाद्विश्वभेषजे ।स्याद्विद्रुमलतायां तु कपोताङ्घ्रिः स्त्रियामियम् ॥ १५७ ॥
6.157 · p. 39
अनुष्टुप्
कपोतस्य तु पादे ना द्वयेास्तु स्यात् कमण्डलुः ।चतुष्पाज्जातिभेदे क्लीपुंसोः कुण्ड्यां द्वद्योः पुनः ॥ १५८ ॥
6.158 · p. 39
metre not recognisedimpossible sign sequence: दे ना द्वयेास्तु सnearly अनुष्टुप्: pāda 4, syllable 5 द्व (wrong syllable)
स्यात् कालकण्ठो दात्यूहे समासार्थादि पूर्ववत् ।कालकुण्डस्तु ना विष्णौ यमे चापि द्वयोः पुनः ॥ १५९ ॥
6.159 · p. 39
अनुष्टुप्
मनुष्यजातिभेदे स्यात् क्षत्त्रियायां निषादजे ।कालस्कन्धस्तमाले ना तिन्दुके चाथ कश्चन ॥ १६० ॥
6.160 · p. 39
अनुष्टुप्
आह च श्यामखदिरे क्लीबं त्वेषां फले भवेत् ।अत्रापि लिङ्गमर्थश्च समासश्चापि पूर्ववत् ॥ १६१ ॥
6.161 · p. 40
अनुष्टुप्
स्त्रियां तु कालमेषी स्यान्मसूरविदलाह्वये ।लताजात्यन्तरे सोमराजिमञ्जिष्ठयोरपि ॥ १६२ ॥
6.162 · p. 40
अनुष्टुप्
द्राक्षायां च द्वयोस्तु स्यात् काले मेषे द्वयोः पुनः ।कालपुच्छो हि चमरमृगे स्यात् कृष्णवालधौ ॥ १६३ ॥
6.163 · p. 40
अनुष्टुप्
पूर्वत्रेवात्र लिङ्गादि कालशेयं तु गोरसे ।क्ली भेद्यवत् तु कलशिभवेऽथो काकतुण्ड्यसौ ॥ १६४ ॥
6.164 · p. 40
अनुष्टुप्
तापिञ्छे स्त्री पुमांस्त्वेषोऽगुर्वाख्ये गन्धवस्तुनि ।काकशीर्षस्तु ना पुष्पस्तम्बभेदे शिवप्रिये ॥ १६५ ॥
6.165 · p. 40
अनुष्टुप्
वसुभट्ट इति ख्याते क्ली तु काकस्य मूर्धनि ।काकोदरस्तु द्वे सर्पमात्रे सर्पान्तरे तथा ॥ १६६ ॥
6.166 · p. 40
अनुष्टुप्
षड्विंशतेरन्यतमे दर्वीकरफणाभृताम् ।ना तु कापटिकश्छात्रवेषधारे स्पशान्तरे ॥ १६७ ॥
6.167 · p. 40
अनुष्टुप्
संस्थाचराणां पञ्चानामेकस्मिंस्त्रि तु दाम्भिके ।कामिकान्तं तु माध्वीकसंज्ञे मद्यान्तरे नपि ॥ १६८ ॥
6.168 · p. 40
अनुष्टुप्
पूर्ववच्चात्र लिङ्गादि तर्क्यं कामध्वजस्तु ना ।ज्ञेयो वादित्रनिर्घोषे तथा कामोत्सवेऽप्यथ ॥ १६९ ॥
6.169 · p. 40
अनुष्टुप्
ध्वजे कामस्य नृनपोः कामरूपास्तु नीवृति ।प्राग्ज्योतिषाख्ये पुम्भूम्नि लिङ्गाद्यत्रापि पूर्ववत् ॥ १७० ॥
6.170 · p. 40
अनुष्टुप्
कारस्करो ना स्त्रीत्येके वृक्षभेदे परे पुनः ।क्ली नगर्यन्तरे प्राहुः काकपीलुस्त्वसौ स्रियाम् ॥ १७१ ॥
6.171 · p. 40
अनुष्टुप्
गुञ्जायां ना तु काकेजुसंज्ञे स्यात् त्रि खुरान्तरे ।कामरूपी द्वयोर्नानावर्णे च कृकलासके ॥ १७२ ॥
6.172 · p. 40
अनुष्टुप्
बिम्बाख्ये पूर्ववद्विद्यादत्राप्यर्थादिकं बुधः ।अथ किम्पुरुषो द्वे स्यात् किन्नरे क्ली तु भारतात् ॥ १७३ ॥
6.173 · p. 41
अनुष्टुप्
उत्तरेऽनन्तरे वर्षे हेमकूटापराह्वये ।किकिदीविस्तु ना वर्णे द्वे तु चापाह्वये खगे ॥ १७४ ॥
6.174 · p. 41
अनुष्टुप्
क्षीरंशुक्ला विदार्यां स्त्री ना तु शृङ्गाटकाह्वये ।कन्दार्थजलजस्तम्बे लिङ्गाद्यत्रापि पूर्ववत् ॥ १७५ ॥
6.175 · p. 41
अनुष्टुप्
कुटन्नटस्तु ना गुण्डुसंज्ञवृक्षे नपि त्वदः ।गोनर्दसंज्ञके मुस्ताभेदे कुरवकः पुनः ॥ १७६ ॥
6.176 · p. 41
अनुष्टुप्
पुमानरुणझिण्ट्यां स्यात् पीतझिण्ट्यां तथैव च ।शोणाम्लाने च केचित् तु प्राहुः कुरवकेऽपि तम् ॥ १७७ ॥
6.177 · p. 41
अनुष्टुप्
क्लीबं त्वेषां भवेत् पुष्पे स्त्रियां तु स्यात् कुलत्थिका ।कुलाल्यादिपदैः ख्याते भेषजे नृस्त्रियोः पुनः ॥ १७८ ॥
6.178 · p. 41
अनुष्टुप्
कुलत्थधान्ये द्वे तु स्याद् दर्वीकरफणाभृताम् ।एकत्र भेदेऽथ स्त्री स्यात् कुम्भका(रस्त्व?रीत्य)यं ध्वनिः ॥ १७९ ॥
6.179 · p. 41
अनुष्टुप्metre not read in every line
कुलत्थिकाख्यभैषज्ये कुलाले तु द्वयोरथ ।कुम्भीनसः सर्पमात्रे द्वयोर्दर्वीकरान्तरे ॥ १८० ॥
6.180 · p. 41
अनुष्टुप्
कुशीलवस्तु द्वे मर्त्यजातिभेदे यथावदत् ।वैदेहाज्जनितेऽम्बष्ठ्यां लङ्घनप्लवनादिना ॥ १८१ ॥
6.181 · p. 41
अनुष्टुप्
वर्तमाने नटानां च प्रसिद्धे चारणे तथा ।कुशीसंज्ञायोविकारलवे तु स्यात् पुमानयम् ॥ १८२ ॥
6.182 · p. 41
अनुष्टुप्
अथोत्पले कुवलयं क्ली समासादि पूर्ववत् ।कुशेशयं तु पद्मे क्ली वासुदेवे तु पुंस्ययम् ॥ १८३ ॥
6.183 · p. 41
अनुष्टुप्
कुचन्दनोऽस्त्रियां पीतचन्दने रक्तचन्दने ।कुक्कुटाक्षः पुमानल्पतुम्ब्यामर्थादि पूर्ववत् ॥ १८४ ॥
6.184 · p. 41
अनुष्टुप्
कूलङ्कषा स्त्रियां नद्यां त्रि तु कूलस्य काषके ।कृतमालस्तु ना गन्धद्रव्ये तक्कोलसंज्ञके ॥ १८५ ॥
6.185 · p. 42
अनुष्टुप्
आरग्वधे च द्वे तु स्यादुलूकाह्वयपक्षिणः ।विशेषे कृष्णवर्णे च मृगभेदे च पूर्ववत् ॥ १८६ ॥
6.186 · p. 42
अनुष्टुप्
अर्थाद्यथो कृष्णफला सोमराज्याह्वयौषधौ ।स्त्री ना तु करमर्दाख्यतरावर्थादि पूर्ववत् ॥ १८७ ॥
6.187 · p. 42
अनुष्टुप्
कृष्णवर्णस्तु ना धान्ये चराख्येऽर्थादि पूर्ववत् ।कृष्णवृन्ता तु पाटल्यां माषपर्ण्याह्वयौषधौ ॥ १८८ ॥
6.188 · p. 42
अनुष्टुप्
काष्मर्ये च स्त्रियां ना तु कुलत्थेऽर्थादि पूर्ववत् ।कृष्णसर्पस्तु कृष्णेऽहौ द्वयोर्दर्वीकरान्तरे ॥ १८९ ॥
6.189 · p. 42
अनुष्टुप्
कृकवाकुः कुक्कुटे द्वे कृकलासे च केचन ।खञ्जरीटे क्षेपणीयः पुनर्ना भिण्डिपालके ॥ १९० ॥
6.190 · p. 42
अनुष्टुप्
क्षेप्तव्ये त्रिः केशपाशी पुनश्चूडार्थके स्रियाम् ।ना तु केशकलापेऽथ पुमान् केलिकिलः स्मृतः ॥ १९१ ॥
6.191 · p. 42
अनुष्टुप्
कूश्माण्डाख्ये भृत्यगणे हेरम्बस्य प्रियङ्करे ।स स्यात् केलिसहाये च क्रीडाशीले तु स त्रिषु ॥ १९२ ॥
6.192 · p. 42
अनुष्टुप्
स्री तु कोशफला राजकोशातक्याह्वये भवेत् ।कोशातकीविशेषे सा तिक्तकोशातकीति च ॥ १९३ ॥
6.193 · p. 42
अनुष्टुप्
प्रसिद्धे ना तु सामान्ये कोशातक्या नपि त्वदः ।तक्कोले स्याज्जातिफलेऽप्यथ स्यात् कोटिवर्षवाक् ॥ १९४ ॥
6.194 · p. 42
अनुष्टुप्
देविकोट इति ख्याते पुरभेदे नपुंसकम् ।स्त्री कोटिवर्षा स्पृक्कायामत्राप्यर्थादि पूर्ववत् ॥ १९५ ॥
6.195 · p. 42
अनुष्टुप्
कौलेयकः शुनि द्वे स्यात् कुलीने त्रिर्द्वयोः पुनः ।कौलटेयः कौलटेरः पर्या(ये?यौ) बन्धकीसुते ॥ १९६ ॥
6.196 · p. 43
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 कौ (syllables merged)
कुलान्यटन्त्या भिक्षुक्याः सत्या एव च यः सुतः ।तस्मिन् कौलटिनेयाख्ये कुलटायाः सुतेऽप्यथ ॥ १९७ ॥
6.197 · p. 43
अनुष्टुप्
कुलत्थे ना खलकुलः खलस्य तु कुले नपि ।खरच्छदः पुमानूर्ध्वमूलसंज्ञे तृणान्तरे ॥ १९८ ॥
6.198 · p. 43
अनुष्टुप्
अत्रापि पूर्ववज्ज्ञेयमर्थलिङ्गाद्यथो नपि ।शृङ्गंवाद्ये खरमुखं लिङ्गाद्यत्रापि पूर्ववत् ॥ १९९ ॥
6.199 · p. 43
अनुष्टुप्
स्त्रियां तु स्यात् खरकुटी शालायां वपनस्य हि ।अत्रापि पूर्ववज्ज्ञेयमर्थलिङ्गादि सूरिभिः ॥ २०० ॥
6.200 · p. 43
अनुष्टुप्
स्त्री तु गन्धवहा घ्राणे ना तु वायौ मृगे द्वयोः ।गन्धवाहस्तु ना वायावत्राप्यर्थादि पूर्ववत् ॥ २०१ ॥
6.201 · p. 43
अनुष्टुप्
गवीथुका तु स्त्री क्षुद्रधान्यभेदे पुरे तु नत् ।गवादिनी स्त्री गिरिकर्ण्यभिधानलतान्तरे ॥ २०२ ॥
6.202 · p. 43
अनुष्टुप्
अर्थादि पूर्ववत् स्त्री तु सल्लक्यां स्याद्गजप्रिया ।श्यामाके तु पुमानत्राप्यर्थलिङ्गादि पूर्ववत् ॥ २०३ ॥
6.203 · p. 43
अनुष्टुप्
गजच्छाया स्त्रियां सुर्यग्रहण कश्चिदीरिता ।सांवत्सरास्तु ब्रुवते गजच्छायां सलक्षणाम् ॥ २०४ ॥
6.204 · p. 43
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ण (wrong syllable)
हस्तनक्षत्रगे सूर्ये कृष्णपक्षे त्रयोदशी ।मखाभिश्च समायुक्तेत्यपुमांस्तु गजस्य सा ॥ २०५ ॥
6.205 · p. 43
अनुष्टुप्
छायायामत्र पूर्वत्रेवार्थाद्यथ गलस्तनी ।अजायामर्थलिङ्गादि पूर्वत्रेवात्र बुध्यताम् ॥ २०६ ॥
6.206 · p. 43
अनुष्टुप्
गदयित्नुस्तु पर्जन्ये पुमांस्त्रिर्वावदूकके ।गार्हपत्यः पश्चिमाग्नौ पुमान् गृहपतेः पुनः ॥ २०७ ॥
6.207 · p. 43
अनुष्टुप्
भावे कर्मणि च क्लीबमथ स्त्री स्याद्गिरिप्रिया ।सन्धानीसंज्ञके क्षुद्रफलवातिङ्गनान्तरे ॥ २०८ ॥
6.208 · p. 44
अनुष्टुप्
पूर्ववच्चात्र लिङ्गादि द्वयोस्तु स्याद्गुहाशयः ।ऋक्षाखुसिंहकूर्मेषु समासाद्यत्र पूर्ववत् ॥ २०९ ॥
6.209 · p. 44
अनुष्टुप्
दीप गृहमणिः पुंसि स्त्री गृहस्य मणावसौ ।पुमान् गृहपतिर्वह्वौ गार्हपत्याह्वये तथा ॥ २१० ॥
6.210 · p. 44
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 गृ (wrong syllable)
कृषीवले छद्मवेषस्पशे स्यात् सत्त्रयाजिनाम् ।प्रधाने यजमाने च गृहस्य त्वधिपे त्रिषु ॥ २११ ॥
6.211 · p. 44
अनुष्टुप्
गोवन्दनी फलिन्यां स्त्री गोस्तु गोवन्दना न ना ।वन्दनेऽथ द्वयोर्गोलाङ्गूलः कृष्णमुखे कपौ ॥ २१२ ॥
6.212 · p. 44
अनुष्टुप्
नपुंसकस्तु पुच्छे गोरथो घनरसो नृनप् ।जले पूर्ववदत्रापि समासादि स्त्रियां पुनः ॥ २१३ ॥
6.213 · p. 44
अनुष्टुप्
घण्टारवा प्रसिद्धायां चणपुष्पीति चौषधौ ।पूर्ववत् स्यात् समासाद्यमथ क्ली घोषसंज्ञके ॥ २१४ ॥
6.214 · p. 44
अनुष्टुप्