कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

गर्गर

gargaraपुं · masc.

In 6 kośas: 2 synonym verses, 5 as a nānārtha head word.

कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.76 · p. 352
कृष्णशल्की श्वेतकुक्षिस्तालाङ्गो मत्स्यराडपि ।वृत्तवज्रोऽप्यथ पुनर्गर्गरः पीतवर्णकः ॥ ७६ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश मनुष्याध्यायः Vaijayantī 3.5.34 · p. 74
अंबष्टी बेनमुग्री तु गर्गरं शनकी हनुम् ।आयोगवी तु मैत्रेयं पुल्कसी कणकुक्कुटम् ॥ ३४ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास रार्धश्लोकः Dharaṇikośa 26.2.45 · p. 172
गर्गरं मत्स्यभेदे स्याद्गर्गरी दधिमन्थनी ।पिज्जरं हरिताले च पीतेऽप्यश्वान्तरेऽपि च ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.20 · p. 320
स्यात्कूर्परो जानुनि वा कफोणौस्यात्खर्परस्तस्करधूर्तवाची ।कपालके भैक्षकभाजने चमीनान्तरे गर्गरमामनन्ति ॥ २० ॥
उपजातिः
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.21 · p. 320
स्त्री मन्थनी नामनि घर्घरस्तुचलज्जलध्वाननदान्तरेषु ।घूके तुरंगे तुषपावकेऽर्केस्यान्निर्नरो मुर्मर आदिलिङ्गः ॥ २१ ॥
उपजातिः
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.637 · p. 102
उग्रीवैदेहजे मर्त्यजातिभेदे झषेऽपि च ।गर्वरः पुंस्यहङ्कारे महिषे तु द्वयोरथ ॥ ६३७ ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश रेफान्ताः Śabdaratnāvalī 7.27.71 · p. 271
खण्डाभ्रं न द्वयोर्दन्तक्षतभेदाभ्रलेशयोः ।गणेरुः करिणीवेश्याकर्णिकारेषु च स्त्रियाम् ॥गर्गरो मीनभेदेऽस्त्री मन्थन्यां न पुमानयम् ।गह्वरन्तु गुहादम्भवने कुञ्जे तु पुंस्यपि ॥गान्धारो रागसिन्दूरदेशभेदेषु पुंस्ययम् ।घर्घरो नदभेदे ना स्यादुलूके च निर्झरे ॥
अनुष्टुप्