हनु
hanuस्त्री · fem.In 15 kośas: 22 synonym verses, 8 as a nānārtha head word, 7 as a meaning of another word.
ततो हनुः श्मश्रु कूर्चमास्यलोम च मासुरी ।
अनुष्टुप्
genderस्त्रीfem.
genderस्त्रीfem.
genderस्त्रीfem.
दोः प्रवेष्टो भुजो बाहुर्भुजा च स्मर्यते बुधैः ।गण्डो गल्लः कपोलश्च हनुस्तुल्यार्थवाचकाः ॥ ५२२ ॥
अनुष्टुप्
genderस्त्रीfem.
हनुर्द्वयोर्हनू स्त्रीत्वे श्मश्रु षण् व्यञ्जनं हिनुः ।कूर्चमस्त्री पुमान्घोट आस्यलोम च भासुरी ॥ १५७ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
हनुर्नागहनुः कोशी शुक्तिः शङ्खः खुरो नखः ।नखी खलो हस्तिकर्णः सामुद्रं कोलपर्णकम् ॥ १५ ॥
अनुष्टुप्
genderस्त्रीfem.
सृक्वणः स्यात्परो गल्लः कपोलो गल्लतः परः ।कपोलतः परौ गण्डौ हनुह[88a]न्वौ द्वयोस्ततः ॥ १५ ॥
अनुष्टुप्metre not read in every line
genderपुंस्त्रीm. f.
मेधिर्गवेधुः कर्कन्धुस्तद्वज्जम्ब्वां सुदर्शनः ।रत्नरत्नी मुनिर्योनिर्हनुः पृश्न्यशनिर्मनुः ॥ २६ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
एते शब्दाः स्त्रियां भवन्ति । इयं त्रुटिः स्वल्पः । इयं सीमा ग्राममर्यादा । इयं सन्ध्या दिनावसानम् । इयं रात्रिः शर्वरी । इयं धूलिः पांसुः । इयं वेणी केशरचना । इयं खारी परिमाणविशेषः । निशीथशब्दः पुंसि भवति । अयं निशीथोऽर्धरात्रः । ज्योत्स्नादयाशलाकाः स्त्रियां भवन्ति । इयं ज्योत्स्ना चन्द्रप्रभा । इयं दया करुणा । इयं शलाका लोहधमनी । नित्यग्रहणं विभाषानिवृत्त्यर्थम् ।पुंयोगे कर्णहनू नपुंसके श्मश्रुजानुगुदशब्दाः ।एकाभिधानता स्यादस्राश्रुणोर्नित्यम् ॥ २१ ॥
metre not recognised
genderपुंmasc.
पुंसो योगः पुंयोगः तस्मिन् कर्णहनू भवतः । यथा अयं कर्णः श्रोत्रं कुन्तीपुत्रश्च । हनुः कपोलप्रदेशः । श्मश्रुजानुगुदशब्दाः नपुंसके भवन्ति । इदं श्मश्रु मुखैकदेशरोमराजिः । इदं जानु जङ्घामध्यस्थानम् । इदं गुदमपानम् । अभिधीयतेऽनेनेत्यभिधानं एकं च तदभिधानं च तस्य भावः एकाभिधानता स्यात् भवेदित्यर्थः । अस्राश्रुणोर्नित्यं नपुंसकता भवति । इदमस्त्रम् । इदमश्रु । नयनजलमिति । एक एवार्थः नित्यवचनं पूर्ववत् ।घुसकिरुपसर्गपूर्वः पुंस्यन्योपपदे वेषुपूर्वः स्त्री ।येभ्यो नञ्तान्पुंस्युक्तान्याञ्चा विना विद्धि ॥ २२ ॥
metre not recognised
genderपुंmasc.
हनुर्हेलिस्तु मार्ताण्डे तथोक्त उपगूहने ।उत्पत्तौ कारणे वादे निमित्ते वीजकर्मणि ॥ १३९ ॥
अनुष्टुप्
genderपुंmasc.
असिकाधस्तथा प्रोक्तं कपोलः सृक्कणः समौ ।गण्ङो गल्लो हनुश्चाथ श्मश्रु कूर्चमपीक्षितम् ॥ २४७ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
हिंसा प्राणापहारे स्यान्नाशे चौर्यादिके तथा ।हेतिरुस्रास्त्रयोः प्रोक्तो हेलिः सूर्येऽप्यथो हनुः ॥ ३७६ ॥
अनुष्टुप्
genderartha
आणिर्योनिर्मुनिः सिन्धुर्हनुर्मृत्युर्मनुः पुनः ।ऋष्टिः कर्कन्धुराखुस्त्ववटुः कन्दुरूरुस्तथा ॥ ११६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 रू (wrong syllable)
genderपुंस्त्रीm. f.
निमेषो नयनोन्मेषः पक्ष्म तारकृतोरणम् ।ओष्ठोऽधरो वक्त्रपर्णं[र्ण] हनुश्चिबुकपोत्रकम् ॥ ८६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
genderपुंmasc.
हनुरञ्जनकेशी च भवेदञ्जनकेशिका ।नखी शङ्खः शङ्खनखः शुक्तिः कीलदलं नखम् ॥
अनुष्टुप्
genderस्त्रीfem.
genderस्त्रीfem.
सृक्वणी त्वोष्ठयोः प्रान्तौ चिबुकं त्वधरादधः ।गण्डः कपोलस्तद्भागे गल्लः स्त्री तत्परा हनुः ॥ १०८२ ॥
अनुष्टुप्
genderस्त्रीfem.
अंबष्टी बेनमुग्री तु गर्गरं शनकी हनुम् ।आयोगवी तु मैत्रेयं पुल्कसी कणकुक्कुटम् ॥ ३४ ॥
अनुष्टुप्
genderपुंmasc.
धमन्यंजनकेश्यौ तु हनुर्हट्टविलासिनी ।अपि शुक्तिः खुरः शंखो नखं कोलदलं समाः ॥ १०१ ॥
अनुष्टुप्
genderस्त्रीfem.
रसज्ञा रसना जिह्वा राजिः सूनाऽप्यधः स्थिता ।गण्डो गल्लः कपोलश्च तत्परा तु हनुर्न षण् ॥ ९० ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
दानं हस्तिमदे दत्ते छेदरक्षणशुद्धिषु ।हनुः स्त्रियां कपोलाधो हनुर्हट्टविलासिनी ॥
अनुष्टुप्
विशेष्यवत्स्याद्धनुरस्ररोगेशस्त्रे च मृत्यौ च नखीषु च स्त्री ।द्वयोः कपोलावयवेऽथ सूनुःपुत्रेऽनुजे भास्वति च प्रदिष्टः ॥ २ ॥
उपजातिः
doubtful
हठः पार्ष्ण्यां बलात्कारे जलोद्भवतृणान्तरे ।वारिपर्णीसमाख्येऽथ महारुग्भीममृत्युषु ॥ १३८ ॥
अनुष्टुप्
doubtful
न तत् प्रमाण्यतेऽस्माभिः स्वतस्तेषामनाप्तितः ।हनु तु नृस्त्रियोर्गण्डस्योर्ध्वभागे द्वयोः पुनः ॥ १५८४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 तु (wrong syllable)
meaningsगण्डोर्ध्वभाग
वैदेहशनकीजाते मर्त्यजात्यन्तरेऽथ ना ।हरित् सूर्येऽपि सूर्याश्वे वर्णे च हरिते त्रि तु ॥ १५८५ ॥
अनुष्टुप्
meaningsमर्त्यजात्यन्तर
doubtful
कपोलावयवे हारी शुके हारान्वितेऽपि च ।हरित्तृणान्तरे वर्णभेदे दिश्यपि कथ्यते ॥ ३७७ ॥
अनुष्टुप्
meaningsकपोलावयव
doubtful
हनुः कपोलावयवे द्वयोर्नृत्यपदेऽस्त्रियाम् ।स्त्रियां हट्टविलासिन्यां हीनं गर्ह्योनयोस्त्रिषु ॥
अनुष्टुप्
हनु as a meaning in nānārtha verses
- हलायुधकोशः (अभिधानरत्नमाला) कुञ्जसंस्तरः प्रस्तरेऽप्युक्तो हनौ कुञ्जो रणे स्पशः । गर्जन्मेघेऽपि पर्जन्यः सन्धा स्यादवधावपि ॥ ८१८ ॥ Abhidhānaratnamālā (Halāyudha) 5.818
- धरणिकोश कुञ्जकुञ्जः स्यात्करिणां दन्ते हनौ कुञ्जः सुगन्धके । अब्जो धन्वन्तरौ चन्द्रे स्यादब्जं शङ्खपद्मयोः ॥ Dharaṇikośa 7.2.5
- कोषकल्पतरु कुञ्जकोषालये त्रिष्वपि पुंसि षण्ढे कुञ्जो निकुञ्जे करिदन्तहन्वोः । लञ्जो भवेत्कच्छपदार्थको ना- थोर्जा मदोत्साहबलाभिधाने ॥ २८ ॥ Koṣakalpataru 6.7.28
- नानार्थार्णवसंक्षेप कुञ्जहनौ लतादिपिहितोदरेऽथो पुंस्यृषौ क्वचित् । कुब्जस्तु गडुले त्रि स्यान्निखर्वे चापि सज्जनः ॥ २३१ ॥ Nānārthārṇavasaṃkṣepa 2.5.231
- परमानन्दीयनाममाला कुञ्जकाका तु काकजङ्घायां काकमाच्यामपि स्मृता । कुञ्जस्तु दन्तिनां दन्ते निकुञ्जे मन्दिरे हनौ ॥ ८५ ॥ Paramānandīyanāmamālā 5.7.85
- शब्दरत्नावली कुञ्जकुञ्जोऽस्त्री स्यात् निकुञ्जेऽपि दन्तिदन्ते हनावपि ॥ Śabdaratnāvalī 7.8.6
- वैजयन्ती कुञ्जक्रोडं क्ली कर्ष उत्सङ्गे सूकरे ना न नोरसि । औषधे रुजि कुष्ठोऽस्त्री कुञ्जोऽस्त्री गह्वरे हनौ ॥ २३ ॥ Vaijayantī 6.5.23