कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

नामन्

nāmanक्ली · neut.

In 16 kośas: 18 synonym verses, 3 as a nānārtha head word, 46 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.260 · p. 15
वार्ता प्रवृत्तिर्वृत्तान्त उदन्तोऽथाह्वयोऽभिधा ।गोत्रसंज्ञानामधेयाख्याह्वाभिख्याश्च नाम च ॥ २६० ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह शब्दादिवर्गः Amarakośa 1.6.8
वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स्यादथाह्वयः ॥ ७ ॥आख्याह्वे अभिधानं च नामधेयं च नाम च ।हूतिराकारणाह्वानं संहूतिर्बहुभिः कृता ॥ ८ ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.152 · p. 18
आख्या संज्ञाभिधाह्वानं नामधेयं च नाम च ।आख्यायिका कथाख्यानं प्रह्वलीका प्रहेलिका ॥ १५२ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव ब्रह्मप्रकाण्डः Kalpadrukośa 3.2.67 · p. 446
जनश्रुतिः किंवदन्तिर्वार्त्तोदन्तः पुमानयम् ।वृत्तान्तोऽपि प्रवृत्तिः स्त्री नामधेयं च नाम च ॥ ६७ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.195 · p. 483
कर्माष्ठीवद्गुरुदन्तोममहिम्नां नाम पक्ष्मणोः ।धनुषः स्यादिति क्लीबपुंसयोः प्रकृतिस्थिताः ॥ १९५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.32 · p. 68
आख्याभिक्षा(ख्या?)भिधा संज्ञाह्वा गोत्रं नाम चास्त्रियाम् ।शर्माह्वया नामधेयमभिधानं च न स्त्रियाम् ॥ ३२ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नपुंसकाधिकारः Koṣakalpataru 4.3.70 · p. 104
नपुंसके नाम-धनान्धकार-वियद्धृषीकाम्बुरुहाम्बु-खानाम् ।रत्नान्त्र-सूक्ताशुभ-पुण्य-दुःख-सुखान्न-गासृक्पिशिताशनानाम् ॥ ७० ॥
उपजातिः
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.5.52 · p. 113
genderपुंक्लीm. n.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 165 · p. 79
विदग्धश्चतुरः धूर्तश्चाटुकृत् कितवः शठः ।क्वापि नागरिको ज्ञेयः गोत्रसंज्ञाङ्कनाम तत् ॥ १६५ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.180 · p. 27
ऐतिह्यं तु किंवदन्ती जनश्रुतिरुदाहृता ।नामाभिधा गोत्रसंज्ञाख्याह्वाभिख्याह्वया अपि ॥ १८० ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable)
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.166 · p. 231
ब्रह्म कर्म धनुर्नामाष्ठीवत्पक्ष्मविहायसी ।शिग्रुर्भूममहिम्नी चेत्यादयः पुंनपुंसकाः ॥ १६६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति पण्डितवर्गः Śāradīyākhyanāmamālā 2.4.129 · p. 32
अभिधानं नामधेयं नामाख्या आह्वयोऽभिधा ।गोत्रं संज्ञा च संबुद्धिर्हूतिराकरणं हवः ॥ १२९ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.377 · p. 49
नामधेयं च नाम स्यादथ सम्बोधनं पदम् ।आन्त्रणमपि ज्ञेयमाह्वानं त्वभिमन्त्रणम् ॥ ३७७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.364 · p. 26
वार्ता प्रवृत्तिवृत्तान्त उदन्तः स्यादुदन्तकः ।नामाभिधानमाह्वानं नामधेयञ्च लक्षणम् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.105 · p. 185
किंवदन्तिर्वदन्तिश्चोदन्ते वृत्तान्त-वार्तिके ।अभिधायां नामधेयं नामाख्याऽभिख्ययाऽह्वयः ॥ १०५ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तिभेदाध्यायः Śabdaratnākara 2.7.906 · p. 114
स्यादाख्याह्वाभिधा संज्ञा नामधेयं च नाम च ।हूतिराकरणाह्वाने संहूतिर्बहुभिः कृता ॥ ९०६ ॥
अनुष्टुप्
genderक्लीneut.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव धीवर्गः Trikāṇḍaśeṣa 1.5.3 · p. 20
संज्ञाऽधिवचनं सद्यःकृतं लक्षणनामनी ।व्यपदेशः प्रसिद्धस्तु टङ्कारोऽथ नवः स्तवः ॥ ३ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश शब्दाध्यायः Vaijayantī 2.4.31 · p. 33
हक्कारामंत्रणाह्वानं सहूतिर्बहुभिः कृता ।अभिधानं नामधेयं नामाख्याह्वाभिधाह्वयः ॥ ३१ ॥
अनुष्टुप्
genderक्लीneut.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.685 · p. 101
आद्यक्षत्त्रियभेदेऽन्त्यमनौ मुख्यमहीपतौ ।वर्षे तु भारते क्लीबं नाम तु क्लीबमम्भसि ॥ ६८५ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.686 · p. 101
अस्त्री तु प्रातिपदिके संज्ञायां चाव्ययं पुनः ।प्राकाश्योपगमादीनामर्थानां द्योतकं विदुः ॥ ६८६ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास नकारादयः Paramānandīyanāmamālā 5.18.269 · p. 196
नगो भूध्रे तरौ नाम कुत्साख्यामन्त्रणेष्वथ ।निर्वेशो मूर्च्छने स्तूपभोगेऽथ निगमः पुरे ॥ २६९ ॥
अनुष्टुप्

नामन् as a meaning in nānārtha verses