कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

रात्रि

rātriस्त्री · fem.

In 25 kośas: 26 synonym verses, 51 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.51 · p. 9
निशा निशीथिनी रात्रिः शर्वरी क्षणदा क्षपा ॥ १४१ ॥त्रियामा यामिनी भौती तमी तमा विभावरी ।रजनी वसतिः श्यामा वासतेयी तमस्विनी ॥ १४२ ॥उषा दोषेन्दुकान्ताथ तमिस्रा दर्शयामिनी ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह कालवर्गः Amarakośa 1.4.4
प्राह्णापराह्णमध्याह्नास्त्रिसन्ध्यमथ शर्वरी ॥ ३ ॥निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा ।विभावरीतमस्विन्यौ रजनी यामिनी तमी ॥ ४ ॥
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.108 · p. 14
वसतिर्वासतेयी च श्यामा रात्रिश्च कथ्यते ।गणरात्रो निशा बह्व्यश्चिररात्रस्ततः परम् ॥ १०८ ॥
अनुष्टुप्
genderस्त्रीfem.
बालप्रबोधिका Bālaprabodhikā · नत्कीर द्वितीयोपदेशः Bālaprabodhikā 2.51 · p. 70
रजनी यामिनी याम्या त्रियामा क्षणदा क्षपा ।तमी तमस्विनी रात्रिः शर्वरी च विभावरी ।आद्यक्तं तिमिरं ध्वान्तं तामिस्रं शार्वरं तमः ॥ ५१ ॥
अनुष्टुप्
genderस्त्रीfem.
बालप्रबोधिका Bālaprabodhikā · नत्कीर द्वादशोपदेशः Bālaprabodhikā 12.250 · p. 88
गौर्यां हरिद्रा रात्र्याख्या हेमघ्नी काञ्चनी वरा ।रोचनी रञ्चनी पीता पिञ्जा पिण्डमनः शिला ॥ २५० ॥
अनुष्टुप्
genderस्त्रीfem.
रजनी रजनिश्च स्याद्रात्री रात्रिस्तमी तमा ।कुज्झटिः कुज्झटी चोक्ता तथा कुज्झटिका बुधैः ॥ ३६ ॥
अनुष्टुप्
genderस्त्रीfem.
गणितनाममाला Gaṇitanāmamālā · हरदत्त रात्रिसंज्ञा Gaṇitanāmamālā 19.83 · p. 5
निशीथिनी क्षपा रात्रिः प्रोक्ता नक्तं च शर्वरी ॥ ८३ ॥
genderस्त्रीfem.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम अन्तरिक्षाधिकारो द्वितीयस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 2.15 · p. 21
रजनी यामिनी यम्या त्रियामा क्षणदा क्षपा ।तमा तमस्विनी रात्रिर्विभावरिरितीर्यते ।तमिस्रा क्षणमीक्षाणी शर्वरी च निशीथिनी ॥ १५ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.35 · p. 409
रात्रिस्त्रियामा स्याद्घोरा श्यामा तुङ्गी निषद्वरी ।याम्या च रक्षोजनना रजनी चक्रभेदिनी ॥ ३५ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कालवर्गः Koṣakalpataru 1.4.41 · p. 44
श्यामा त्रियामा क्षणदा च रात्रिःस्याद्वासतेयी वसतिश्च तुङ्गी ।उषा च दोषा रजनी च भौतीनक्तं तु दोषाऽव्ययमत्र रात्रौ ॥ ४१ ॥
उपजातिः
genderस्त्रीfem.
मूर्द्धन् उक्षन् तक्षन् मज्जन् श्लेष्मन् आत्मन् अश्मन् युवन् पूषन् इत्येतैः शब्दै रहितं वर्जितं यदन्यत् द्व्यच्कं द्विस्व[श्व]रं च नान्तं प्रातिपदिकं तत्सर्वं नपुंसकं भवति । यथा इदं चर्म वर्म शर्म भस्म सद्म लोम इत्येवमादयः । मूर्द्धादयोऽपि नान्तत्वात् द्व्यच्का अतस्तेषामपि नपुंसकता प्राप्नोति । तदर्थमिति प्रतिषेधः कृतः मूर्द्धोऽक्षतक्षेत्यादि पुंल्लिङ्गाधिकारात्पुंसि भवन्ति । यथा अयं मूर्द्धा शिरः । उक्षा वृषभः । मज्जा सारः । तक्षा वर्द्धकिः । श्लेष्मा धातुविकारः । आत्मा शरीरस्थः । अश्मा नीलः । युवा तरुणः । पूषादित्यः पुंसि वा भवेद्ब्रह्मेति । द्वच्कत्वान्नान्तत्वाच्च ब्रह्मशब्दस्य नपुंसकत्वे प्राप्ते पुंस्त्वं वा विधीयते ब्रह्मशब्दो वा नपुंसकलिङ्गो भवति । इदं ब्रह्मा वेदाध्ययनमीश्वरश्च । अयं ब्रह्मा प्रजापतिः । यद्येवं यत् द्व्यच्कं नान्तं तन्नपुंसकम् । एवं सति राजन् शब्दस्यापि नपुंसकता स्यात् पुंस्यन्तर्भावो द्रष्टव्यः ।त्रुटिसीमसन्ध्यारात्रयः स्त्रियां धूलिवेणिखार्यश्च ।पुंसि निशीथो ज्योत्स्नादयाशलाका स्त्रियां नित्यम् ॥ २० ॥
metre not recognised
genderस्त्रीfem.
एते शब्दाः स्त्रियां भवन्ति । इयं त्रुटिः स्वल्पः । इयं सीमा ग्राममर्यादा । इयं सन्ध्या दिनावसानम् । इयं रात्रिः शर्वरी । इयं धूलिः पांसुः । इयं वेणी केशरचना । इयं खारी परिमाणविशेषः । निशीथशब्दः पुंसि भवति । अयं निशीथोऽर्धरात्रः । ज्योत्स्नादयाशलाकाः स्त्रियां भवन्ति । इयं ज्योत्स्ना चन्द्रप्रभा । इयं दया करुणा । इयं शलाका लोहधमनी । नित्यग्रहणं विभाषानिवृत्त्यर्थम् ।पुंयोगे कर्णहनू नपुंसके श्मश्रुजानुगुदशब्दाः ।एकाभिधानता स्यादस्राश्रुणोर्नित्यम् ॥ २१ ॥
metre not recognised
genderस्त्रीfem.
नाममालिका Nāmamālikā · भोज गगनादिनामधेयप्रकरणम् Nāmamālikā 2.10 · p. 7
तत्समूहे हिमानी स्याच्छीतलानी तु शीतलम् ।रात्रिर्निशीथिनी काली निशाकरकुटुम्बिनी ॥ १० ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.128 · p. 21
व्युष्टं कल्योषसी गोसः प्रत्युषोऽथ निशा क्षपा ।निशीथिनी तमी रात्रिस्तमा तुङ्गी विभावरी ॥ १२८ ॥
अनुष्टुप्
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.134 · p. 18
प्रबोधकं क्रियाकारी सायान्तिकमहर्मुखम् ।विः सुता यामिनी रात्रिर्वासुरा रजनी तमा ॥ १३४ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण अन्तरिक्षाधिकारो द्वितीयस्सर्गः Śabdacandrikā 2.9 · p. 37
रात्रिर्निशीथिनी काली तमा दीपवती मतिः ।नभच्छायावती वह्नितेजोवृद्धिकरीति च ॥ ९ ॥
अनुष्टुप्
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति व्योमवर्गः Śāradīyākhyanāmamālā 1.2.79 · p. 9
प्रातः प्रभातं प्रत्यूषो उषः कल्यमहर्मुखम् ।रजनी यामिनी रात्रिस्त्रियामा शर्वरी निशा ॥ ७९ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.129 · p. 19
रात्रिः रात्री तमी भौती तमा तमिस्तमस्विनी ।त्रियामा यामिनी तुङ्गी वासतेयी विभावरी ॥ १२९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.250 · p. 18
त्रिसन्ध्यं प्राङ्क्षु मध्याह्णापराह्णैः परिकीर्तितम् ।रात्रिर्विभावरी श्यामा घोरा याम्या तमस्विनी ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्त्रीलिङ्गसङ्ग्रहः Śabdaratnāvalī 9.7 · p. 308
रात्रि लज्जा वाणी वीणा दिग्भूमिविद्युतामपि ।धीवल्ल्योर्नाम रजनी रात्रिलज्जात्रपा च ह्रीः ॥
metre not recognised
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.36 · p. 180
त्रियामा यामिनी यामा याम्या रात्री च रात्रियुक् ।नक्ता नक्तं तथा नक्तं मान्तमव्ययमप्यथो ॥ ३६ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण कालाध्यायः Śabdaratnākara 1.8.236 · p. 32
प्रदोषः स्याद्रात्रिमुखमथ संध्या पितृप्रसूः ।रात्रिस्तु वासतेयी रजनितमीशर्वरीतमस्विन्यः ॥ २३६ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1294 · p. 158
मनो रात्रिर्दिनं संध्ये धर्मश्चैते चतुर्दश ।साक्षिणोऽधिकृतोऽध्यक्षो हेमाध्यक्षस्तु भौरिकः ॥ १२९४ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 37 · p. 533
रात्री रात्रिस्तमस्विनी ॥ ३७ ॥
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश ज्योतिरध्यायः Vaijayantī 2.1.57 · p. 21
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.211 · p. 62
गौर्यां हरिद्रा रात्र्याख्या हेमघ्नी काञ्चनी परा ।रोचनी रञ्जनी पीता पिञ्जा पिण्डा मनः शिला ॥ २११ ॥
अनुष्टुप्
genderस्त्रीfem.

रात्रि as a meaning in nānārtha verses