All kośas › Trikāṇḍaśeṣa
त्रिकाण्डशेष Trikāṇḍaśeṣa
1,058 verses · 9,515 words tagged · 1,059 marked doubtful (dashed)
प्रथमः काण्डः · कालवर्गः
इति दिग्वर्गः ॥ ३ ॥
पीथः पीयुस्तिथश्चाऽथ वास्रो व्युष्टांशके दिनम् ।उषा प्रभातं गोसर्गः सायोऽत्सूरौ विकालके ॥ २२ ॥
1.4.22 · p. 18
अनुष्टुप्
रात्री रक्षोजननी निषत्वरी चक्रभेदनी घोरा ।श्यामा ग्राम्या दोषा तुङ्गी भौती शताक्षी च ॥ २३ ॥
1.4.23 · p. 18
आर्या
वासुरोषा निशाख्या च वासतेयी तमस्विनी ।यस्यां मत्ता निशि श्वानः श्वनिशं श्वनिशा च सा ॥ २४ ॥
1.4.24 · p. 18
अनुष्टुप्
निःसम्पातोऽर्धरात्रः स्यात्सर्वावसर इत्यपि ।उच्चन्द्रापररात्रौ द्वौ दशौऽमाऽमावसी च सा ॥ २५ ॥
1.4.25 · p. 18
अनुष्टुप्
भूता कृष्णचतुर्दश्यां पौर्णम्यां धर्मवासरः ।शक्रोत्सवो ध्वजोत्थानं शारदी द्यूतपूर्णिमा ॥ २६ ॥
1.4.26 · p. 19
अनुष्टुप्
कोजागरः शरत्पर्व कौमुदीचारमस्त्रियाम् ।यक्षरात्रिस्तु दीपाली चैत्रावल्यां मधूत्सवः ॥ २७ ॥
1.4.27 · p. 19
अनुष्टुप्
सुवसन्तः काममहो वासन्ती कर्दमी स्त्रियौ ।श्रामस्तु मासो वर्षांशो वत्सरस्तु युगांशकः ॥ २८ ॥
1.4.28 · p. 19
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable)
ऋतुवृत्तिर्मासमालः स्यात्कालग्रन्थिरुर्वटः ।कालप्रभातं शरदा प्रावृषा तु जलार्णवः ॥ २९ ॥
1.4.29 · p. 19
अनुष्टुप्
कौमुदः कार्तिको मासः फाल्गुनालस्तु फाल्गुनः ।ज्येष्ठामूलीयमिच्छन्ति मासमाषाढपूर्वजम् ॥ ३० ॥
1.4.30 · p. 19
अनुष्टुप्
कृतं सत्ययुगं त्रेताऽग्नायी द्वापरयज्ञियौ ।कलिर्झर्झरकः कर्मयुगं पापं तु पातकम् ॥ ३१ ॥
1.4.31 · p. 19
अनुष्टुप्
शल्यं तूस्तं च कल्कोऽथ भद्रं भल्लं शिवं तथा ।शं शुभं चाव्यये प्राणी सत्त्वो रूपं चतुष्पदः ॥ ३२ ॥
1.4.32 · p. 19
अनुष्टुप्
अथात्मा कर्मभुग्देही जीवः पुरुषपुद्गलौ ।अन्तर्यामीश्वरश्चान्तःकरणं तु मनो निगु ॥ ३३ ॥
1.4.33 · p. 20
अनुष्टुप्