All kośas › Kalpadrukośa
कल्पद्रुकोशः Kalpadrukośa
4,306 verses · 27,819 words tagged · 4,643 marked doubtful (dashed)
भुवःस्कन्धः · कालप्रकाण्डः
कालोऽपष्ठुर्जहोदिष्टोऽनेहाः पीथो मतिस्तिथः ।आमतिः समयः पीयुरथ वास्रस्तु वासरः ॥ १ ॥
2.4.1 · p. 405
अनुष्टुप्
घस्रो घ्रंसो घृणिर्द्यौः स्याद्दिवसश्च तिथिर्द्वयोः ।कर्मवाटी तिथी द्वे स्त्री क्लीबेऽहर्दिनमस्त्रियाम् ॥ २ ॥
2.4.2 · p. 405
अनुष्टुप्
दिवाव्ययं याममालो व्युष्टांशश्चाथ पञ्च ताः ।नन्दा भद्रा जया रिक्ता पूर्णाः सप्तापि ताः क्रमात् ॥ ३ ॥
2.4.3 · p. 405
अनुष्टुप्
रव्याद्यास्ताः पञ्चदश स्युरथ प्रतिपत् स्त्रियाम् ।पक्षतिर्मासपक्षाद्याग्नेयी वा ब्राह्मणो परा ॥ ४ ॥
2.4.4 · p. 406
अनुष्टुप्
गिरिजा गणपः सर्पाः स्कन्दः सूर्यः शिवः शिवा ।यमो विष्णुर्हरः कामः शर्वश्चन्द्रः पितामहाः ॥ ५ ॥
2.4.5 · p. 406
अनुष्टुप्
पूर्णिमामेति गदिते दिवसाः स्युश्चतुर्विधाः ।घटीषष्टिमितोऽर्कस्य राशिभोगस्य चापि यः ॥ ६ ॥
2.4.6 · p. 406
अनुष्टुप्
त्रिंशांशस्तिथ्यवच्छन्नो यावदृक्षं च सावनः ।सौरो दैवस्तथैवार्क्षश्चाथ योगाः क्रमादमी ॥ ७ ॥
2.4.7 · p. 406
अनुष्टुप्
विष्कम्भः प्रीतिरायुष्मान्सौभाग्यश्चापि शोभनः ।अतिगण्डः सुकर्मा च धृतिः शूलं ततः पुनः ॥ ८ ॥
2.4.8 · p. 406
अनुष्टुप्
गण्डो वृद्धिर्ध्रुवश्चापि व्याघातश्चापि हर्षणः ।वज्रं सिद्धिर्व्यतीपातो वरीयान्परिघः शिवः ॥ ९ ॥
2.4.9 · p. 406
अनुष्टुप्
सिद्धः साध्यः शुभः शुक्लो ब्रह्मेन्द्रश्चापि वैधृतिः ।तत्रातिगञ्जो गञ्जोऽपि द्वितीयश्चाष्टमः स्त्रियाम् ॥ १० ॥
2.4.10 · p. 406
अनुष्टुप्
एकादशः षोडशान्त्यावस्त्रियां नवमोऽपि च ।तद्वत्पञ्चदशोऽन्ये नर्योगाः स्युः करणानि च ॥ ११ ॥
2.4.11 · p. 406
अनुष्टुप्
शुक्लप्रतिपदः पूर्वार्द्धान्त्यार्द्धस्य प्रभेदतः ।किंस्तुघ्नं च ववं चापि बालवं कौलवं च षण् ॥ १२ ॥
2.4.12 · p. 406
अनुष्टुप्
तैतलं गरं वणिजं भद्रा विष्टिरुभे स्त्रियौ ।पञ्चम्यास्तु ववादि स्युर्यावत् कृष्णचतुर्दशी ॥ १३ ॥
2.4.13 · p. 407
अनुष्टुप्metre not read in every line
तस्याः परेऽर्द्धे शकुनिः पूर्वेऽर्द्धे चतुरंह्रिकम् ।अमोत्तरार्द्धे नागाख्यममून्येकादशैव हि ॥ १४ ॥
2.4.14 · p. 407
अनुष्टुप्
करणानीति तिथयश्चतुरङ्गा प्रगेव्ययम् ।प्रातश्च काल्यं कल्यं षण् दिवसार्थान्मुखार्थकम् ॥ १५ ॥
2.4.15 · p. 407
अनुष्टुप्
व्युष्टं विभातं प्रत्यूषः स्त्रियां प्रत्युषमित्यपि ।गोसर्गश्चाथ मध्याह्नो दिनार्थान्मध्यमित्यपि ॥ १६ ॥
2.4.16 · p. 407
अनुष्टुप्
मध्यं दिनमथोत्सूरोऽपराह्णः पुंनपुंसकम् ।दिवसार्थावसानस्य पर्यायं सायमव्ययम् ॥ १७ ॥
2.4.17 · p. 407
अनुष्टुप्
सायोऽपि स्यात्स्त्रियां सन्ध्या पितृपर्यायसूर्रुमा ।निण्मुखं च प्रदोषः स्यात्सन्धा सन्धिश्च पुंस्ययम् ॥ १८ ॥
2.4.18 · p. 407
अनुष्टुप्
सन्ध्यानां त्रितये चापि वैणवं च त्रिसन्ध्यकम् ।पुंसि त्रिसन्धिश्चाथ स्याच्चतुर्थ्यां प्रहरावधि ॥ १९ ॥
2.4.19 · p. 407
अनुष्टुप्
आसार्द्धयामं सप्तम्यां त्रयोदश्यां ततः पुनः ।आयामयुगमेवं स्यात् प्रदोषोऽध्यायविघ्नकृत् ॥ २० ॥
2.4.20 · p. 407
अनुष्टुप्
षष्टिदीर्घाक्षरोच्चारा मेरुका घटिका घटी ।नाडी च नाडिका यामनाडी स्याद्यामघोषिणी ॥ २१ ॥
2.4.21 · p. 407
अनुष्टुप्
विकालिका मानरन्ध्रात्ताम्रिकाऽप्यथ तद्द्वयम् ।अह्नः पञ्चदशोंशोऽस्त्री मुहूर्त्तस्ते क्रमादथ ॥ २२ ॥
2.4.22 · p. 408
अनुष्टुप्
आद्यो रौद्रोऽथ द्वितीयोऽहिः सितोऽथाज इत्यपि ।मैत्रोऽथारभटश्चापि पितरः सारटोऽप्यथ ॥ २३ ॥
2.4.23 · p. 408
अनुष्टुप्
सावित्रो वासवश्चाथ वैराजश्च जयन्तकः ।आप्योऽथ विश्वो गान्धर्वो वेधास्तु कुतपोऽभिजित् ॥ २४ ॥
2.4.24 · p. 408
अनुष्टुप्
विधिस्तु रौहिणो विन्दोऽथोबलश्च विरेचनः ।एकादशस्तु विजयः पुरुहूतोऽथ नैरृतः ॥ २५ ॥
2.4.25 · p. 408
अनुष्टुप्
वह्निश्चाथ महेन्द्रस्तु रक्षश्चाथ जलेश्वरः ।चतुर्दशः पञ्चदशो भटस्तु स्यात्तथा भगः ॥ २६ ॥
2.4.26 · p. 408
अनुष्टुप्
स्यादेवं पञ्चदशधा दिवसः पञ्चधा पुनः ।प्रातः संगवमध्याह्नाः पराह्णाः सायमित्यथ ॥ २७ ॥
2.4.27 · p. 408
अनुष्टुप्
पूर्वाह्णः प्रहरः सार्द्धो मध्याह्नस्तु तदुत्तरः ।प्रहरोऽथापराह्णस्तु घटिकानां चतुष्टयम् ॥ २८ ॥
2.4.28 · p. 408
अनुष्टुप्
सायाह्नः प्रहरश्चैवं चतुर्द्धाऽथ त्रिधा पुनः ।पूर्वाह्णश्चापि मध्याह्नोऽपराह्णश्चेत्यथ द्विधा ॥ २९ ॥
2.4.29 · p. 408
अनुष्टुप्
पूर्वाह्णश्चापराह्णश्च रात्रेस्तावन्त एव हि ।आद्यो रौद्राऽथ गन्धर्वोऽजैकपादथ भास्करः ॥ ३० ॥
2.4.30 · p. 408
अनुष्टुप्
अहिर्बुध्न्योऽथ पूषाऽपि कुबेरोऽथ सदागतिः ।दस्रादथ यमोऽग्निश्च विधाता त्वष्टमस्ततः ॥ ३१ ॥
2.4.31 · p. 409
अनुष्टुप्
सौम्योऽदितिस्तु ब्राह्मोऽथ वाक्पतिर्द्वादशो रविः ।त्रयोदशोऽप्यथापि स्युस्त्वष्टृब्रह्मसमीरणाः ॥ ३२ ॥
2.4.32 · p. 409
अनुष्टुप्
स्यान्नैरृतः पञ्चदशः स्याच्चतुर्भिस्तु तैः पुनः ।प्रहरश्च यमो यामो घटीपर्यायमालकः ॥ ३३ ॥
2.4.33 · p. 409
अनुष्टुप्
अथ क्षपा तु रजनिः क्षणदा क्षणिनी निशा ।अव्ययानव्ययं दोषा वसती वसतिः समौ ॥ ३४ ॥
2.4.34 · p. 409
अनुष्टुप्
रात्रिस्त्रियामा स्याद्घोरा श्यामा तुङ्गी निषद्वरी ।याम्या च रक्षोजनना रजनी चक्रभेदिनी ॥ ३५ ॥
2.4.35 · p. 409
अनुष्टुप्
उमा हतार्चिः पैशाची शर्वरी नक्तमव्ययम् ।क्षपा तमस्विनी तुङ्गा तमिर्वासरकन्यका ॥ ३६ ॥
2.4.36 · p. 409
अनुष्टुप्
तमी तमा हिमा चैव वासतेयी विभावरी ।निशीथिनी निशीथ्या निट् शताक्षी वासुरा निशा ॥ ३७ ॥
2.4.37 · p. 409
अनुष्टुप्
यामिनी स्यात्तमिस्रापि तमस्यतितमोयुता ।ज्योत्स्ना तु चन्द्रिकायुक्ता बहुनिड्गणरात्रकम् ॥ ३८ ॥
2.4.38 · p. 409
अनुष्टुप्
पक्षिणी पक्षतुल्याभ्यां दिनाभ्यां वेष्टिता निशा ।गर्भकं रजनीद्वन्द्ववेष्टितं यदहर्भवेत् ॥ ३९ ॥
2.4.39 · p. 409
अनुष्टुप्
अर्द्धरात्रो निशीथश्च शिवावसर इत्यपि ।निःसंपातो महानिट् चाथोच्चन्द्रापररात्रकौ ॥ ४० ॥
2.4.40 · p. 410
अनुष्टुप्
अपि पश्चिमरात्रोऽथ श्वनिशं श्वनिशा च सा ।यस्यां मत्ता निशि श्वानो भूतःकृष्णचतुर्दशी ॥ ४१ ॥
2.4.41 · p. 410
अनुष्टुप्
भूतेष्टा चाथ तद्भूतपञ्चदश्योर्यदन्तरम् ।पर्वमूलं च प्रतिपत्पञ्चदश्योर्यदन्तरम् ॥ ४२ ॥
2.4.42 · p. 410
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च (wrong syllable)
स पर्वसन्धिरथ च पूर्णमासी तु पूर्णिमा ।पूर्णमा पौर्णमासी च कलाहीने विधौ च सा ॥ ४३ ॥
2.4.43 · p. 410
अनुष्टुप्
विज्ञेयानुमतिस्तत्र पूर्णे राका निशाकरे ।सरस्वती शारदी तु द्यूतपर्यायपूर्णिमा ॥ ४४ ॥
2.4.44 · p. 410
अनुष्टुप्
शक्रोत्सवो ध्वजोत्थानं क्लीबे कोजागरः पुमान् ।स्यादस्त्री कौमुदीचारः शरत्पर्वाथ होलिका ॥ ४५ ॥
2.4.45 · p. 410
अनुष्टुप्
होलाकापि च होली च वासन्ती कूर्दना स्त्रियः ।मधूत्सवः कामिमहो रजःपर्यायतो महः ॥ ४६ ॥
2.4.46 · p. 410
अनुष्टुप्
पुष्ययुक्ता पूर्णमासी मासे पौषी च सा पुनः ।मृगशीर्षयुता मार्गशीर्षे स्यादाग्रहायणी ॥ ४७ ॥
2.4.47 · p. 410
अनुष्टुप्
अमावास्यामाऽमावस्याऽमामासी चाप्यमावसी ।सूर्येन्दुसंगमो दर्शस्तत्र नष्टेन्दुमण्डला ॥ ४८ ॥
2.4.48 · p. 410
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 माऽ (wrong syllable)
कुहुः कुहूश्च गुङ्गुश्च गुङ्गूर्नष्टाब्जमण्डला ।सिनीवाल्यथ दीपाली यक्षनिड्वलिपर्व च ॥ ४९ ॥
2.4.49 · p. 411
अनुष्टुप्
स्यादस्त्रियामहोरात्रमथ नक्तंदिवं पुनः ।नक्तं दिवं चाहर्दिवं नैरन्तर्येऽव्ययं पुनः ॥ ५० ॥
2.4.50 · p. 411
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ह (wrong syllable)
निमेषनिमिषौ तुल्यौ व्यापारे नेत्रपक्ष्मणोः ।अष्टादश निमेषास्तु काष्ठास्त्रिंशत्तु ताः कलाः ॥ ५१ ॥
2.4.51 · p. 411
अनुष्टुप्
तास्तु त्रिंशत् क्षणस्ते तु मुहूर्त्तो द्वादशापि च ।ते तु त्रिंशदहोरात्रः पक्षस्ते दश पञ्च च ॥ ५२ ॥
2.4.52 · p. 411
अनुष्टुप्
स च स्याद्द्विविधः शुक्लकृष्णपर्यायभेदभाक् ।पितॄणां दिनरात्र्योश्च पर्यायौ तावनुक्रमात् ॥ ५३ ॥
2.4.53 · p. 411
अनुष्टुप्
मासस्तु दिनमालोमा वर्षार्थात्कोश इत्यपि ।अंशः श्रामश्चतुर्द्धासः सावनस्तु दिनैर्नगैः ॥ ५४ ॥
2.4.54 · p. 411
अनुष्टुप्
चान्द्रः स्यात्पूर्णिमाऽमान्तः सौरस्तु रविसंक्रमात् ।आसङ्क्रान्त्यथ सर्वर्क्षभोगादिन्दोः स भोद्भवः ॥ ५५ ॥
2.4.55 · p. 411
अनुष्टुप्
मार्गशीर्षो मार्गशिरो वर्षाद्यः स्यात्सहाः सहः ।आग्रहायणिको मार्गः स च स्यादाग्रहायणः ॥ ५६ ॥
2.4.56 · p. 411
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 मा (wrong syllable)
तिष्यश्चापि च पुष्योऽपि पौषस्तैषः सहस्यवत् ।अस्त्री माघे तपाश्चापि तपस्यस्तपसस्तपः ॥ ५७ ॥
2.4.57 · p. 411
अनुष्टुप्
फाल्गुनाडः फाल्गुनिकः फल्गुनः फाल्गुनोऽपि च ।स्याच्चैत्रावरजो मोहनिकोऽथ स्यान्मधुः पुमान् ॥ ५८ ॥
2.4.58 · p. 412
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 फा (wrong syllable)
चैत्रश्च चैत्रिकोऽथ द्वौ वैशाखे राधमाधवौ ।उत्सरः स्यादथ ज्येष्ठे ज्यैष्ठश्च खरकोमलः ॥ ५९ ॥
2.4.59 · p. 412
अनुष्टुप्
आषाढपूर्वजो ज्येष्ठामूलीयः शुक्रमस्त्रियाम् ।श्रावणानुज आषाढ आशाढोऽषाढ इत्यपि ॥ ६० ॥
2.4.60 · p. 412
अनुष्टुप्
शुचिर्नभस्तु नभसो नभाः श्रावणिकश्च सः ।भाद्रो भाद्रपदः प्रौष्ठपदोऽपि च नभस्यकः ॥ ६१ ॥
2.4.61 · p. 412
अनुष्टुप्
अथाश्वयुक् चाश्वयुज आश्विनेऽप्यथ कौमुदः ।इष ऊर्जः कार्त्तिकिको बाहुलः कार्त्तिकः सरी ॥ ६२ ॥
2.4.62 · p. 412
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable)
अधिमासोंहस्पतिः स्याद् द्वात्रिंशद्दिनमालकैः ।दिनैः षोडशभिर्यानैश्चतुर्नाडीसमन्वितैः ॥ ६३ ॥
2.4.63 · p. 412
अनुष्टुप्
प्रवृत्तिरस्य प्रायेण क्वचिन्न्यूनाधिकैरपि ।सोऽसंक्रान्तो द्विसंक्रान्तः कालेन बहुना स च ॥ ६४ ॥
2.4.64 · p. 412
अनुष्टुप्
जायते सक्षयस्तौ द्वौ गर्हितौ शुभकर्मणि ।यत्र क्षयो भवेन्मासस्तत्र द्वावधिमासकौ ॥ ६५ ॥
2.4.65 · p. 412
अनुष्टुप्
मासत्रये कार्त्तिकादौ क्षयो नान्येषु माःसु च ।द्वाभ्यां सौरादिमासाभ्यामृतुः समयवाचकः ॥ ६६ ॥
2.4.66 · p. 412
अनुष्टुप्
हिमागमस्तु हेमन्तः प्रालेयो रौद्रहेमनौ ।अस्त्रियां शिशिरः सैषो वसन्तः पिकबान्धवः ॥ ६७ ॥
2.4.67 · p. 413
अनुष्टुप्
पुष्पपर्यायकालार्थः सुरभिश्च पलाङ्गकः ।उष्णस्तूष्मायणोऽपि स्यान्निदाघस्तप ऊष्मकः ॥ ६८ ॥
2.4.68 · p. 413
अनुष्टुप्
ग्रीष्म ऊष्मागमस्त्र्यूष्मा स्यादुष्णोपगमः पुनः ।घनार्थादत्ययः पुंसि स्त्रियां स्याच्छरदा शरत् ॥ ६९ ॥
2.4.69 · p. 413
अनुष्टुप्
भूयो वर्षति पर्जन्यो गङ्गाया दक्षिणे तटे ।अतः प्रावृट् च वर्षाश्च द्वावृतू परिकल्पितौ ॥ ७० ॥
2.4.70 · p. 413
अनुष्टुप्
तस्या एवोत्तरे कूले हिमवद्विन्ध्यसंकुले ।भूयः शीतमतस्तत्र हेमन्तशिशिरावुभौ ॥ ७१ ॥
2.4.71 · p. 413
अनुष्टुप्
शिशिराद्यैश्च ऋतुभिरयनं स्यात्स्त्रिभिश्च षण् ।अयने द्वे गतिरुदग्दक्षिणार्कस्य वत्सरः ॥ ७२ ॥
2.4.72 · p. 413
अनुष्टुप्
ससंपरीदेदनुभ्यो युगांशो हायनोऽस्त्रियाम् ।ऋतुवृत्तिर्मासमालः कालग्रन्थिः शरत्स्त्रियाम् ॥ ७३ ॥
2.4.73 · p. 413
अनुष्टुप्
शरदापि स्त्रियां भूम्नि समा वत्सः पुमानयम् ।पुंसि वा वरिषं वर्षं स्त्रियां भूम्नि समा अपि ॥ ७४ ॥
2.4.74 · p. 413
अनुष्टुप्
संपत्संवदव्यये द्वे मकरः कर्कटोऽयने ।तुलामेषौ तु विषुवत् विशुवद्द्वे नपुंसके ॥ ७५ ॥
2.4.75 · p. 413
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 व (wrong syllable)
विषुणो विषुवान् पुंसि विषुवोऽस्त्र्यव्यये उभे ।विश्वग्विष्वक् च विषुवत्केषांचनमतेव्ययम् ॥ ७६ ॥
2.4.76 · p. 414
अनुष्टुप्
विष्णुपद्यः सिंहवृषकुम्भा वृश्चिक इत्यपि ।षडशीतिमुखाः कन्याधनुर्मीनयुगानि च ॥ ७७ ॥
2.4.77 · p. 414
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सिं (wrong syllable)
अथ भेदा वत्सराणामतुलैः (३६०) सावनो भवेत् ।दिवसैर्मातुलैः (३६५) सौरश्चान्द्रः स्याद्विमलै(३५४)र्दिनैः ॥ ७८ ॥
2.4.78 · p. 414
अनुष्टुप्
आर्क्षो वराङ्गै(३२४)र्गौरोपि पतङ्गैः (३६१) पञ्चधेति च ।कृतं सत्ययुगं क्लीबे त्रेताग्नेयी स्त्रियामुभे ॥ ७९ ॥
2.4.79 · p. 414
अनुष्टुप्
द्वापरो यज्ञियः पुंसि क्लीबे कर्मयुगं कलिः ।तिष्यो झर्झरकोऽथैषां वर्षसंख्या क्रमादिमाः ॥ ८० ॥
2.4.80 · p. 414
अनुष्टुप्
हठसर्पैः (१७२८०००) तद्वरकै (१२८६०००) र्भतुच्छैः (७६४०००) खलवैः (४३२०००) क्रमात् ।सर्वैस्त्रिनान्तैर्वर्षैः स्यान्नॄणां पूर्णचतुर्युगी ॥ ८१ ॥
2.4.81 · p. 414
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त (wrong syllable)
तेषां तावच्छती सन्ध्या सन्ध्यांशश्च यथाक्रमात् ।अष्टाविंशी प्रयात्येषा तस्याः स्यात्साम्प्रतं कलिः ॥ ८२ ॥
2.4.82 · p. 414
अनुष्टुप्
तद्गताब्दाः कुतिथिभाः (४७६१) संवर्त्तः पलयः क्षयः ।परिवर्तः परीवर्तः संहारः कल्प इत्यपि ॥ ८३ ॥
2.4.83 · p. 414
अनुष्टुप्
जहानकः समसुप्तिः संहारो युगकल्पयोः ।दैनंदिनो लोकशेषः परान्तः सर्वनाशनः ॥ ८४ ॥
2.4.84 · p. 415
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 म (wrong syllable)
दैनन्दिनः प्राकृतश्च स च स्याद्द्विविधोऽथ च ।किल्विषं कल्मषं किण्वं कल्कः पङ्कश्च न स्त्रियाम् ॥ ८५ ॥
2.4.85 · p. 415
अनुष्टुप्
पुंसि पाप्माथ सुकृतं श्रेयः पुण्यं वृषः पुमान् ।क्लीबे धर्म च धर्मोऽस्त्री मुदा मुच्च स्त्रियामुभे ॥ ८६ ॥
2.4.86 · p. 415
अनुष्टुप्
मोदो मोदः समाप्रेभ्यो मदः सम्मद इत्यपि ।नन्द्यानन्दथुरानन्दिर्नन्दिरानन्द एव च ॥ ८७ ॥
2.4.87 · p. 415
अनुष्टुप्
क्लीबाव्ययं तु कं जोषमुपजोषमथो सुखम् ।कमव्ययं च खं शर्म सौख्यं श्वःश्रेयसं पुनः ॥ ८८ ॥
2.4.88 · p. 415
अनुष्टुप्
शातं सातमथो भद्रं भगं मद्रं च भावुकम् ।भविकं मङ्गलं वा ना भव्यं द्रव्यं शिवं शुभम् ॥ ८९ ॥
2.4.89 · p. 415
अनुष्टुप्
शस्तं प्रशस्तं कुशलं कुषलं क्षेममस्त्रियाम् ।श्रेयः श्वःश्रेयसं रिष्टं निःश्रेयसमरिष्टवत् ॥ ९० ॥
2.4.90 · p. 415
अनुष्टुप्
शमव्ययं भवः पुंसि द्रव्ये पापादिकं त्रिषु ।काले शुभोत्तरे तु स्यात् स्त्रियामायतिरित्यपि ॥ ९१ ॥
2.4.91 · p. 415
अनुष्टुप्
तज्जं फलमुदर्को ना क्लीबे सांदृष्टिकं हि तत् ।तात्कालिकं तदात्वं स्यादयः शुभावहो विधिः ॥ ९२ ॥
2.4.92 · p. 415
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 शु (wrong syllable)
हेतुर्ना कारणं बीजं क्लीबे करणमित्यपि ।क्लीब आद्यं कारणं तु निदानं मूलवस्तु तत् ॥ ९३ ॥
2.4.93 · p. 416
अनुष्टुप्
क्षेत्रज्ञ आत्मा पुरुषः पूरुषश्चाक्षरः कविः ।अन्तर्यामीश्वरो देही जीवोऽजो बहुलोऽतनुः ॥ ९४ ॥
2.4.94 · p. 416
अनुष्टुप्
ब्रह्मास्त्रियां कः स एष पुमर्थः प्रकृतिः स्त्रियाम् ।स्वः षण् प्रधानमव्यक्तमक्षरं बहुधातुकम् ॥ ९५ ॥
2.4.95 · p. 416
अनुष्टुप्
क्षेत्रं तमः प्रसूनं स्यात् पुंसि सत्त्वं रजः पुमान् ।रजस् क्लीबे तमः पुंसि तमस् क्लीबेऽथ जन्म षण् ॥ ९६ ॥
2.4.96 · p. 416
अनुष्टुप्
जननं च प्रजननं जननिश्च जनिः स्त्रियौ ।उद्भवः सम्भवो भावो भवो जन्युश्च पुंस्यमी ॥ ९७ ॥
2.4.97 · p. 416
अनुष्टुप्
जनी जनू जनुश्चास्त्री जीवो जन्यश्च पुंस्ययम् ।करणं खं पदं पुंसि हर्षि वैकारिकेन्द्रिये ॥ ९८ ॥
2.4.98 · p. 416
अनुष्टुप्
अक्षं च नियतं चाथ भूतानि तनवः पुनः ।घोरा विकारा भूतानि विशेषा विग्रहा अपि ॥ ९९ ॥
2.4.99 · p. 416
अनुष्टुप्
प्राणी तु चेतनो जन्मी जन्तुजन्यशरीरिणः ।व्यष्टिर्जातिः स्त्रियां जातं क्लीबेऽथ व्यक्तिरित्यपि ॥ १०० ॥
2.4.100 · p. 416
अनुष्टुप्
चेतः स्वान्तं मानसं च मनः क्लीबेऽन्तरिन्द्रियम् ।कल्पद्रौ केशवकृते भुवः स्कन्धे द्वितीयके ।कालाभिधः प्रकाण्डोऽयं साङ्गः सिद्धिमुपागतः ॥ १०२ ॥
2.4.102 · p. 417
अनुष्टुप्metre not read in every line