जडत्व
jaḍatvaक्ली · neut.In 3 kośas: 1 synonym verse, 3 as a meaning of another word.
चिन्ताभिलाषः स्मरणं प्रशंसाप्रलाप उद्वेजनमामयश्च ।जडत्वमुन्मादयुगन्तकालो-ऽवस्था दशैता विरहातुराणाम् ॥ १९९ ॥
उपजातिः
genderक्लीneut.
जडत्व as a meaning in nānārtha verses
- धरणिकोश स्तम्भशुभो योगे शुभं क्षेमे डिम्भः शिशौ च बालिशे । शम्भुरर्हच्छिवो ब्रह्मा स्तम्भः स्थूणाजडत्वयोः ॥ Dharaṇikośa 23.1.2
- कोषकल्पतरु स्तम्भभ्रूणे तथा गर्भककण्टके स्यात् स्या[29a]ज्जृम्भणेऽथ त्रिषु जृम्भ उक्तः । जृम्भा विकासे गृहधारणे तु स्तम्भो जडत्वेऽप्यथ रम्भ उक्तः ॥ ४२ ॥ Koṣakalpataru 6.24.42
- शब्दरत्नावली स्तम्भदम्भः स्यात्कैतवे कल्के साटोपाहङ्कृतावपि । दृन्भूश्चवज्रचक्राहिमुख्यभूतिषु च स्त्रियाम् ॥ नाभिर्ना चक्रमध्ये च क्षत्रिये मुख्यभूपतौ । द्वयोः प्राण्यङ्गमध्ये तु स्त्रियां कस्तूरिकामदे ॥ निभो व्याजे तु पुंलिङ्गः प्रकाशे सदृशे त्रिषु । रम्भः कपौ च वंशे ना कदल्यप्सरसोः स्त्रियाम् ॥ विभुर्वृद्धे प्रभौ राज्ञि ब्रह्मशङ्करयोः पुमान् । शम्भुर्महेश्वरे सिद्धे सुगते परमेष्ठिने ॥ शुभं क्षेमे शुभोयोगे शुभा कान्तीच्छयोः स्त्रियाम् । सभाद्यूते मन्दिरे च गोष्ट्यां सामाजिके स्त्रियाम् ॥ स्वभूर्विष्णौ विधौ पुंसि स्तम्भः स्थूनाजडत्वयोः । Śabdaratnāvalī 7.24.7