अभिलाष
abhilāṣaपुं · masc.In 16 kośas: 15 synonym verses, 28 as a meaning of another word.
गृध्नुस्तु गर्धनस्तृष्णग्लिप्सुर्लुब्धोऽभिलाषुकः ॥ ४२९ ॥लोलुपो लोलुभो लोभस्तृष्णा लिप्सा वशः स्पृहा ।काङ्क्षाशंसागर्धवाञ्छाशेच्छेहातृण्मनोरथाः ॥ ४३० ॥कामोऽभिलाषोऽभिध्या तु परस्वेहोद्धतः पुनः ।अविनीतो विनीतस्तु निभृतः प्रश्रितोऽपि च ॥ ४३१ ॥
अनुष्टुप्
genderपुंmasc.
प्रेमा ना प्रियता हार्दं प्रेम स्नेहोऽथ दोहदम् ।इच्छा काङ्क्षा स्पृहेहा तृड्वाञ्छा लिप्सा मनोरथः ॥ २७ ॥कामोऽभिलाषस्तर्षश्च सोऽत्यर्थं लालसा द्वयोः ।
अनुष्टुप्
genderपुंmasc.
तृष्णाभिलाषो लिप्साशा धनाया गर्धनोच्यते ।अधरो हीनवादी स्यात्प्रसक्तः प्रसृतः स्मृतः ॥ ३६४ ॥
अनुष्टुप्
genderपुंmasc.
अभिलाषश्च लिप्सा तु घना सेर्ष्या तु गन्धना ।गर्भिण्याः पुनरिच्छायां श्रद्धा दोहददौहृदम् ॥ ९८ ॥
अनुष्टुप्
genderपुंmasc.
कान्तिरिच्छा रुगाकाङ्क्षा तृषस्तर्षो मनोरथः ।अनुतर्षोऽभिलाषश्च काम ईहारुची स्त्रियौ ॥ १३८ ॥
अनुष्टुप्
genderपुंmasc.
चिन्ताभिलाषः स्मरणं प्रशंसाप्रलाप उद्वेजनमामयश्च ।जडत्वमुन्मादयुगन्तकालो-ऽवस्था दशैता विरहातुराणाम् ॥ १९९ ॥
उपजातिः
genderपुंmasc.
तर्षोऽभिलाषोऽपि मनोरथोऽस्त्रीकामो वशः स्त्री तु तृषा तृडाशा ।काङ्क्षा स्पृहेहापि च कान्तिरिच्छा-ऽऽशंसा च वाञ्छा कविरन्न(?)लिप्सा ॥ २०० ॥
इन्द्रवज्रा
genderपुंmasc.
वियोगं मदनावस्थां विरहं पल्लकं विदुः ।प्रेमाभिलाषमालभ्यं रागं स्नेहमतः परम् ॥ १६० ॥
अनुष्टुप्
genderपुंmasc.
अभिलाषस्तथा कामोऽभिध्या स्यात्परवस्तुनः ।अविनीतोद्धतौ तुल्यौ विनीते प्रश्रितो मतः ॥ ९२ ॥
अनुष्टुप्
genderपुंmasc.
लोभस्तृष्णा स्पृहा लिप्सा काङ्क्षा सेहा च लालसा ।कामस्तर्षोऽभिलाषस्तृडिच्छा वाञ्छा मनोरथः ॥ ८६ ॥
अनुष्टुप्
genderपुंmasc.
अभिलाषोऽभिषस्तिश्च नामानि याचकस्य वै ।अथ स्यादुत्पतिष्णुर्वै तथाप्युत्पतिता खलु ॥ ५७७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 नि (wrong syllable)
genderपुंmasc.
आशंसा चाऽभिलाषस्तृट् चेच्छा चेहा मनोगवी ।ईप्सा चेहो मनोराज्यं प्रोक्तं मनोरथस्तथा ॥ ६५१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 म (wrong syllable)
genderपुंmasc.
ईहा तृट् तर्ष आकाङ्क्षा कान्तिरुग्रुचयोऽपि च ।दोहदञ्चाभिलासः स्यादभिलाषश्च कीर्तितः ।इच्छा सुमहती या स्यात् सा भवेत् लालसा द्वयोः ॥
अनुष्टुप्
genderपुंmasc.
ईप्सा लिप्सा स्पृहा वाञ्छा काङ्क्षेहेच्छातृषः समाः ।तर्षो मनोरथः कामोऽभिलाषो लालसा द्वयोः ॥ ९७५ ॥
अनुष्टुप्
genderपुंmasc.
अभिलाषश्च लिप्सा तु धनायेप्सा च गर्धना ।गर्भिण्याः पुनरिच्छायां श्रद्धा दोहलदौहृदे ॥ १८० ॥
अनुष्टुप्
genderपुंmasc.
अभिलाष as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् छन्दस्छन्दः पद्येऽभिलाषे च तपः कृच्छ्रादिकर्म च । Amarakośa 3.3.452
- धरणिकोश रुचात्वक्त्वचाचोचशब्दाः स्युः वल्के चर्मणि पत्रके । रुग्रुचावपि रश्मिः स्याच्छोभाभिलाषयो रुचा ॥ Dharaṇikośa 5.2.1
- धरणिकोश रुचिरुचिर्दीप्तौ च शोभायामभिष्वङ्गाभिलाषयोः । कचः केशे च विख्यातो ह्रीबेरासुरभेदयोः ॥ Dharaṇikośa 5.2.2
- धरणिकोश संमतिसम्मतिः स्यादनुज्ञायामभिलाषोऽपि सम्मतिः । प्रकृतिः सहजे योनावमात्ये परमात्मनि ॥ Dharaṇikośa 15.2.38
- कोषकल्पतरु कौतुकप्रसेकः स्रुतौ सेचने वक्त्रलाला- स्रुतौ स्यादथ द्रोणिकायां जलस्य । विचारे रहोऽर्थे च शस्तो विवेक- स्त्रिषु त्वेकको निःसहाये रसे ना । कङ्कोलके मृणाले कोरकमस्त्री च कुड्मलार्थेऽपि । अभिलाषोत्सवनर्म- प्रीतिविवा[253a]हीयगीतसूत्रादौ ॥ ७५ ॥ Koṣakalpataru 6.1.75
- कोषकल्पतरु श्लाघास्त्री पाटलायां च मघास्तु भे स्यु- र्मघी तु जायौ धननाम्नि षण्ढे । श्लाघाभिलाषार्चनवर्णनेषु पुंस्युद्धमाहुः करसंपुटे च । देहानिलेऽग्नौ कथितः प्रशस्तौ Koṣakalpataru 6.4.5
- कोषकल्पतरु इष्टिस्यात्संग्रहश्लोकमखाभिलाषे- ष्विष्टिः परीमाणमुदोस्तु दिष्टिः । विष्टिस्तु भद्राकरणेऽपि जन्यौ संप्रेषणे कर्मकरे च योषि[271a]त् ॥ १५ ॥ Koṣakalpataru 6.10.15
- कोषकल्पतरु गाधस्थाधे ? तु गाधं क्लिशि चाभिलाषे व्याधस्तु धृष्टे मृगयौ च पुंसि । मेधः क्रतौ स्यान्मतिनाम्नि मेधा मेधिः स्त्रियां किं च खलस्य काष्ठे ॥ ५२ ॥ Koṣakalpataru 6.20.52
- कोषकल्पतरु अनुतर्षतृष्णायामभिलाषेऽथ वातरूषस्तथोत्कोचे । ऐन्द्रे चापे परवद्वातूलेऽथाम्बरीषोऽस्त्री । भ्राष्ट्रे रणेऽथ पुंसि क्ष्मापतिभेदे रवौ बाले ॥ ६७ ॥ Koṣakalpataru 6.30.67
- नानार्थार्णवसंक्षेप रुचिअभिष्वङ्गेऽभिलाषेंऽसौ दीप्तौ स्याद्देवतान्तरे । शोभायां तिन्त्रिणीकायाः फले वृक्षाम्लसंज्ञके ॥ ८७ ॥ Nānārthārṇavasaṃkṣepa 2.1.87
- नानार्थार्णवसंक्षेप इप्इप्वा स्त्री पुत्रसन्तत्यां कुटुम्बे चेति केचन । कलत्रे त्वपरे ना तु स्यादाचार्याभिलाषयोः ॥ ८५ ॥ Nānārthārṇavasaṃkṣepa 2.5.85
- नानार्थार्णवसंक्षेप गृधुनाभिलाषे गृही तु त्रिर्गृहवत्यथ स द्वयोः । गृहस्थे कीटभेदे तु गृहिणी स्त्री यदाह्वयः ॥ ३६६ ॥ Nānārthārṇavasaṃkṣepa 2.5.366
- नानार्थार्णवसंक्षेप मनोरथपाणिप्रकोष्ठसन्धौ च मणेर्बन्धेऽप्यथोदितः । मनोरथोऽभिलाषेऽन्यैर्वाञ्छितार्थे तथा परैः ॥ ९६ ॥ Nānārthārṇavasaṃkṣepa 6.96
- परमानन्दीयनाममाला दाढादंष्ट्राभिलाषयोर्दाढा दोग्धा बल्लववत्सयोः । द्रोणः काकान्तरे भूध्रकृपीपत्योर्द्रुणः शरे ॥ २३५ ॥ Paramānandīyanāmamālā 5.16.235
- शब्दरत्नावली कौतुककोरकोऽस्त्री कुद्मले स्यात् कक्कोलकमृणालयोः । कौतुकस्त्वभिलाषे च नर्मण्युत्सवहर्षयोः ॥ Śabdaratnāvalī 7.1.60
- शब्दरत्नावली श्लाघाश्लाघा स्त्री परिचर्यायामभिलासप्रशंसयोः । Śabdaratnāvalī 7.4.6
- शब्दरत्नावली रुचिपिचुर्ना दैत्यभित्कुष्ठभेदयोः कर्षतूलयोः । मोचः शोभाञ्जने मोचा शाल्मलीरम्भयोः स्त्रियाम् ॥ रुचिर्दीप्तौ च शोभायामभिलाषाभिषङ्गयोः । रुचा रुग्दीप्तिशोभेछाशारिकाशुकवाक्सु च ॥ Śabdaratnāvalī 7.6.8
- शब्दरत्नावली इष्टिइष्टिर्यज्ञेऽभिलाषे च संग्रहश्लोकयोः स्त्रियाम् । कटः कट्यां द्वयोर्ना तु सूक्ष्मकाष्ठे तृणे शवे ॥ Śabdaratnāvalī 7.11.3
- शब्दरत्नावली सम्मतिसमाप्तिः स्त्रीपरिप्राप्तावनसाने समर्थने । सम्मतिः स्यादनुज्ञायामभिलाषेऽपि च स्त्रियाम् ॥ Śabdaratnāvalī 7.16.147
- शब्दरत्नावली अनुतर्षअनिमेषः सुरे मीने कामिनीबन्धमित्यपि । अनुतर्षः सुरापानपात्रे तृष्णाभिलाषयोः ॥ Śabdaratnāvalī 7.31.28
- शब्दरत्नावली अभिअभीत्थम्भूतवीप्साभिमुख्याभिलाषसन्धिषु । Śabdaratnāvalī 8.1.47
- शब्दरत्नाकर आशिस्आशीः स्यादभिलाषेऽथ स्यादिनः स्वामिसूर्ययोः । इरा सुराम्बुभूवाक्षु सगोनडीषु तास्विडा ॥ १८७४ ॥ Śabdaratnākara 4.1.1874
- शब्दरत्नाकर लालसाऔत्सुक्ये चाभिलाषे च ललामोऽस्त्री ललाम च । श्रेष्ठभूषापुण्ड्रशृङ्गपुच्छचिह्नाश्वलिङ्गिषु ॥ २१५८ ॥ Śabdaratnākara 4.1.2158
- त्रिकाण्डशेष अनुतर्षअभिलाषेऽनुतर्षः स्यात्पानेच्छायामथामिषम् । सम्भोगोत्कोचमांसेषु उषा बाणात्मजा निशा ॥ ४३५ ॥ Trikāṇḍaśeṣa 3.3.435
- वैजयन्ती इष्वइंद्रो विषात्मशक्रार्केष्वीश्वरे नामतः परः । इष्वोऽभिलाष आचार्य ऊमो व्योम्नि पुरेऽपि च ॥ ८ ॥ Vaijayantī 6.1.8
- वैजयन्ती आशिस्आस्था गोष्ठ्यां प्रतिज्ञायां तत्परत्वेऽवलंबने । आशीरुरगदंष्ट्रायां शुभवाक्याभिलाषयोः ॥ २ ॥ Vaijayantī 6.2.2
- वैजयन्ती श्रद्धाशक्तिः कासूर्बलं लक्ष्मीः शरदावृतुवत्सरौ । शंका वितर्कभययोः श्रद्धास्तिक्याभिलाषयोः ॥ ३८ ॥ Vaijayantī 6.2.38
- वैजयन्ती लालसलालसा तु न नौत्सुक्ये दौहृदाद्यभिलाषयोः । ललामोऽस्त्री ललामापि प्रभावे पौरुषे ध्वजे ॥ ७२ ॥ Vaijayantī 7.5.72