कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Dharaṇikośa

धरणिकोश Dharaṇikośa

1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)

भान्ताः · भपादः

॥ इति बान्तवर्गः ॥

॥ भपादः ॥

भूः पृथिव्यां स्थानमात्रे निभो व्याजसदृक्षयोः ।प्रभुर्नित्ये प्रभुः शब्दे स्वभूर्गोविन्दवेधसोः ॥
23.1.1 · p. 137
अनुष्टुप्
शुभो योगे शुभं क्षेमे डिम्भः शिशौ च बालिशे ।शम्भुरर्हच्छिवो ब्रह्मा स्तम्भः स्थूणाजडत्वयोः ॥
23.1.2 · p. 138
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 शि (wrong syllable)
जृम्भे जृम्भणविकासे रम्भा वारयोषाप्सराः ।सनाभिः सदृशे ज्ञातावात्मभूः स्मरवेधसोः ।ककुभ् शास्त्रे दिशि ज्ञेया अनुष्टुब्वाचि छन्दसि ॥
23.1.3 · p. 138
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 चि (wrong syllable)