प्रशंसा
praśaṃsāस्त्री · fem.In 12 kośas: 8 synonym verses, 22 as a meaning of another word.
परुषं निष्ठुरं रूक्षं विक्रुष्टमथ घोषणा ।उच्चैर्घुष्टं वर्णनेडा स्तवः स्तोत्रं स्तुतिर्नुतिः ॥ २६९ ॥श्लाघा प्रशंसार्थवादः सा तु मिथ्या विकत्थनम् ।
अनुष्टुप्
genderस्त्रीfem.
अर्थवादः प्रशंसा च स्तोत्रमीडा स्तुतिर्नुतिः ।विकत्थनं स्तवः श्लाघा वर्णना च निगद्यते ॥ १४५ ॥
अनुष्टुप्
genderस्त्रीfem.
परुषं निष्ठुरं रूक्षं विक्रुष्टं चाप्यथ स्तुतिः ।वर्णनेडा प्रशंसा स्यान्नुतिः श्लाघा स्तवो नवः ॥ ८१ ॥
अनुष्टुप्
genderस्त्रीfem.
चिन्ताभिलाषः स्मरणं प्रशंसाप्रलाप उद्वेजनमामयश्च ।जडत्वमुन्मादयुगन्तकालो-ऽवस्था दशैता विरहातुराणाम् ॥ १९९ ॥
उपजातिः
genderस्त्रीfem.
पृष्ठमांसादनं पृष्ठे परदोषविभाषणम् ।स्तोत्रमीडा स्तवः श्लाघा प्रशंसा वर्णना नुतिः ॥ १८६ ॥
अनुष्टुप्
genderस्त्रीfem.
प्रशंसा वर्णना श्लाघा स्तवः स्तोत्रं स्तुतिर्नुतिः ।कीर्तिः श्लोको यशो वर्णः साधुवादः समाज्ञया ॥ १२६ ॥
अनुष्टुप्
genderस्त्रीfem.
अथेडा वर्णना श्लाघा स्तवः स्तुतिर्नुतिस्तथा ।स्तोत्रं तथा प्रशंसा स्यादर्थवादश्च मन्यते ॥ ३९० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्तु (wrong syllable)
genderस्त्रीfem.
उत्प्रासः स्यादुपालंभः परिवाग्भाषणीति च ।श्लाघा शंसा प्रशंसा च स्तवः स्तोत्रं स्तुतिर्नुतिः ॥ ३५ ॥
अनुष्टुप्
genderस्त्रीfem.
प्रशंसा as a meaning in nānārtha verses
- धरणिकोश श्लाघामघौषधे मघा ऋक्षे श्लाघा त्विच्छाप्रशंसयोः । मेघौ मुस्तकजीमूतावर्घौ पूजाप्रतिक्रयौ ॥ Dharaṇikośa 4.1.1
- धरणिकोश ननुननु च प्रश्ने विरोधोक्तौ सम्यग्बाढप्रशंसयोः । Dharaṇikośa 34.4.1
- धरणिकोश अतिअतिशब्दः प्रशंसायां प्रकर्षे लङ्घनेऽप्यति । नितान्तासंप्रतिक्षेपवाक्येऽप्येष सुसम्मतः ॥ Dharaṇikośa 34.7.8
- धरणिकोश जोषम्जोषं सुखे प्रशंसायां तूष्णींलङ्घनयोरपि । साम्प्रतं तु द्वयोरेव [स्याद्यु]क्तार्थाधुनार्थयोः ॥ Dharaṇikośa 34.15.5
- कोषकल्पतरु अभिनन्दतिआङ्परो नन्दतिर्हर्षे स्तुतौ स प्रतितः परः । अभेस्तु स परो व्याप्तौ प्रशंसायामपीष्यते । वठति पीवति मीवति तीवति स्थविमति प्रथितोऽत्र च नीवति । उपचिनोति तु *** लिम्पते कथय(?)गोमयति प्रणिदेग्धि च ॥ १६ ॥ Koṣakalpataru 3.5.16
- कोषकल्पतरु संस्करोतिप्रतियत्ने समुदये प्रत्युपान्निष्क्रये समः । संकल्पेऽनुभवे संघे प्रतियत्न-प्रशंसयोः ॥ ५५ ॥ Koṣakalpataru 3.5.55
- कोषकल्पतरु सम्यक्घ हिंसाप्रातिलोम्याङ्घ्रि[पू]रणेषु प्रकीर्तितम् । तिर्यक् तिरोऽर्थे वक्रे च सम्यग्बाढ-प्रशंसयोः ॥ ८२ ॥ Koṣakalpataru 5.1.82
- कोषकल्पतरु अतिअहो बतामन्त्रणविस्मयेषु कष्टे दयायामपि चाभिमुख्ये । ततो यतः स्तो नियमे विभागेऽ- थातिः प्रशंसापचितिप्रकर्षे । अतिक्रमासंप्रतिवाचकः स्या- दारात्तु दूरान्तिकवाचकश्च ॥ ९४ ॥ Koṣakalpataru 5.1.94
- शब्दरत्नावली श्लाघाश्लाघा स्त्री परिचर्यायामभिलासप्रशंसयोः । Śabdaratnāvalī 7.4.6
- शब्दरत्नावली पांशुचामरस्यात्पांशुचामरो दुर्वातटीभूर्य्याञ्चतेषु च । धूलिगुच्छप्रशंसाङ्कपूरोटिषु च न स्त्रियाम् ॥ Śabdaratnāvalī 7.27.148
- शब्दरत्नावली शंसाव्यासो मुन्यन्तरे पुंसि विस्तारभावभेदयोः । शंसा वाक्ये तु वाञ्छायां प्रशंसायामपि स्त्रियाम् ॥ Śabdaratnāvalī 7.32.11
- शब्दरत्नावली दुष्ठुसुष्ठु प्रशंसनेऽत्यर्थे दुष्ठु निन्दाप्रशंसयोः । अपष्ठु शोभनार्थे स्यान्निरवद्ये च तद्भवेत् ॥ Śabdaratnāvalī 8.1.20
- शब्दरत्नावली तुपक्षान्तरे नियोगे च प्रशंसायां विनिग्रहे । अस्तु प्रकर्षे पीडायां प्रशंसायाञ्च लङ्घने ॥ असम्प्रत्यभ्यनुज्ञानेऽधिक्षेपासूययोरपि । इति प्रकरणे हेतौ परकृत्यनुकर्षयोः ॥ Śabdaratnāvalī 8.1.23
- शब्दरत्नावली चित्उत्प्रश्नात्यर्थतर्केषु सन्देहेऽपि च कुत्रचित् । चित्पक्षान्तरसाकल्यप्रशंसाकुत्सितेषु च ॥ Śabdaratnāvalī 8.1.25
- शब्दरत्नावली पश्यतजात्वसम्भावितार्थे च गर्हा कदाचिदर्थयोः । निद्विकल्पे निषेधे च प्रतिज्ञालङ्घनेऽपि च ॥ प्रति प्रतिनिधौ वीप्सेत्थम्भूताख्यानलक्षणे । प्रतिदाने चाभिमुख्ये स्वभावमात्रयोरपि ॥ हन्त हर्षार्त्तिवादेषु वाक्यारम्भे च सम्भ्रमे । पश्यत स्यात्प्रशंसायां विस्मयाक्षेपभाषणे ॥ बत हर्षामन्त्रणयोः खेदानुक्रोशविस्मये । स्वस्ति स्यान्मङ्गलाशसापुण्यसन्तोषणेषु च ॥ Śabdaratnāvalī 8.1.26
- शब्दरत्नावली यावत्यावत्तावत्प्रशंसायां साकल्ये चावधारणे ॥ Śabdaratnāvalī 8.1.29
- शब्दरत्नावली यथायथा तुल्येऽनुमाने च प्रशंसायामपीष्यते । वृथा निष्कारणे व्यर्थे तथा निष्फलचालने ॥ अव्यथा वितथे दुष्टे भिन्नार्थेऽपि निगद्यते । सर्वथा तु प्रतिज्ञायां भृशे हेतौ च कीर्त्यते ॥ Śabdaratnāvalī 8.1.36
- शब्दरत्नावली पश्यअयि सम्बोधने सानुनयप्रश्नानुरागयोः ॥ अये विषादे क्रोधे च स्मृतौ सम्बोधनेऽपि च । पश्य प्रशंसास्मययोर्दिष्ट्या मङ्गलहर्षयोः ॥ समया निकटे मध्ये कालविज्ञायनेऽपि च । Śabdaratnāvalī 8.1.51
- शब्दरत्नावली अहअह कोपे प्रशंसायां नियोगे च विनिग्रहे । अहो धिगर्थे शोके च करुणार्थविषादयोः ॥ सम्बोधने प्रशंसायामाश्चर्ये पादपूरणे । असूयायां वितर्के च खेदाख्याने निगद्यते ॥ Śabdaratnāvalī 8.1.64
- शब्दरत्नाकर अतिअनु प्रकारे वीप्सायां पश्चाल्लक्षणहेतुषु । अति प्रशंसातिक्रान्त्योरधिकार्थेऽपभाषणे ॥ २२६२ ॥ Śabdaratnākara 5.2.2262
- त्रिकाण्डशेष अङ्गपुनरर्थेऽङ्ग भोर्थे च दुष्ट्यर्थप्रशंसयोः । पादपूरणे पक्षान्तरे हेतौ विनिश्चये ॥ ४६५ ॥ Trikāṇḍaśeṣa 3.3.465
- वैजयन्ती अतिअति स्यादधिकार्थोक्तौ प्रशंसायामतिक्रमे । पश्चाद्धेतूनसाम्येषु भागे वीप्साप्रकारयोः ॥ १५ ॥ Vaijayantī 8.7.15