कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

आमय

āmayaपुं · masc.

In 14 kośas: 13 synonym verses, 4 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.154 · p. 22
रोगो रुजा रुगातङ्को मान्द्यं व्याधिरपाटवम् ॥ ४६२ ॥आम आमय आकल्यमुपतापो गदः समाः ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.85
स्त्री रुग्रुजा चोपतापरोगव्याधिगदामयाः ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.600 · p. 67
रोगो रुक् व्याधिराकल्यं गदो मान्द्यमपाटवम् ।आम आमय आतङ्क उपतापो रुजा स्मृता ॥ ६०० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.304 · p. 54
स्त्री ग्लानिरर्त्तिरार्त्तिः स्याद्रुग्रुजा षणपाटवम् ।भयं मान्द्यं च पुंसि स्यादामयोथ महागदः ॥ ३०४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.199 · p. 97
चिन्ताभिलाषः स्मरणं प्रशंसाप्रलाप उद्वेजनमामयश्च ।जडत्वमुन्मादयुगन्तकालो-ऽवस्था दशैता विरहातुराणाम् ॥ १९९ ॥
उपजातिः
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.1 · p. 306
आतङ्क-तङ्कावस्त्रीकावम आम-गदामयाः ।श्वयीचिरुपतापश्चामन-रोगौ च रुग्रुजे ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.126 · p. 117
रुग्रुजा व्याधिमान्द्ये चोपतापो गद आमयः ।आम आकल्यमप्युक्तं राजयक्ष्मा क्षयस्तथा ॥ १२६ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.76 · p. 42
वैरं विरोधो विद्वेषः शृङ्खलो निगडोऽन्दुकः ।विघ्नोऽन्तरायः प्रत्यूहो रोगातङ्कगदामयाः ॥ ७६ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.709 · p. 97
रुगाऽऽतङ्को रुजा रोगो व्याधिरपाटवं तथा ।आम आमय आकल्यं मान्द्यं तथाऽऽमनं गदः ॥ ७०९ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable); pāda 4, syllable 3 त (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.221 · p. 97
औषधं भेषजं जायुर्भैषज्यमगदोऽपि च ।उपतापो रुजा रुक् स्त्री रोगव्याध्यामया गदः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.85 · p. 195
व्लासो दन्त्य-तालव्यप्रान्तकः कथितो बुधैः ।कफे, व्याधौ रोग-रुजौ रुजाऽप्यामय आमकः ॥ ८५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 व्ला (syllables merged)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1093 · p. 135
व्याधिरामय आतङ्को गदो रोगो रुजा च तत् ।क्षयः शोषो राजयक्ष्मा यक्ष्मा जूर्तिर्जरोऽन्तकः ॥ १०९३ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.138 · p. 184
व्याधिव्याप्यामया माथरोगामा देहमर्दनः ।संतापोऽपाटवं मान्द्यमाकुल्यं रुग्रुजे स्त्रियौ ॥ १३८ ॥
अनुष्टुप्
genderपुंmasc.

आमय as a meaning in nānārtha verses

  • कोषकल्पतरु रोगविष्कम्भकादौ वपुषः स्थिरत्वे रोगस्तु कुष्ठौषध आमये च । वेगो महाकालफले प्रवाहे प्लवे च पूगः क्रमुके च वृन्दे । चङ्गस्तु दक्षे रुचिरेऽन्यलिङ्गो- ऽथेङ्गोऽद्भुतज्ञानस[263a]मिङ्गितेषु । स्याज्जङ्गमे चाथ कृपाणभेद- जङ्घाखनित्रेष्वपि टङ्गमस्त्री ॥ ९३ ॥ Koṣakalpataru 6.3.93
  • कोषकल्पतरु हत्नुदानू पराक्रान्तवदान्यकौ स्तो मनू द्वयोरादिनृपालमन्त्रौ । हत्नू [उ ?]भावायुधमामयश्च जह्नू तरौ कृष्णनृपर्षिभेदौ ॥ ४ ॥ Koṣakalpataru 6.21.4
  • नानार्थार्णवसंक्षेप द्रुमामयद्रुमामयस्तु लाक्षायां द्रुमस्याप्यामये तथा । अथ देवरथो ना(न्यै ? ट्ये)रति रामत्य भूमिकाम् ॥ ६३ ॥ Nānārthārṇavasaṃkṣepa 6.63
  • त्रिकाण्डशेष गदशिवजूटे वराटेऽपि कपर्दोऽथाऽमये गदः । विष्णोर्भ्रातरि चास्त्रे स्त्री पलाशे गरुति च्छदः ॥ २०६ ॥ Trikāṇḍaśeṣa 3.3.206