कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Koṣakalpataru

कोषकल्पतरु Koṣakalpataru

6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)

स्वर्गकाण्डः · नाट्यवर्गः (2/2)

तर्जन्यादिष्वङ्गुलीषु प्राच्याः प्राच्याः पराः पराः ।दूरस्था वा मनावे(ग्व?)क्रा धनुर्वक्रा तु तर्जनी ॥ १२१ ॥
1.6.121 · p. 87
अनुष्टुप्
तन्मूले कुञ्चिताङ्गुष्ठो यत्रारालः स उच्यते ।तलमध्य[56b]स्थितानि स्युरङ्गुल्यग्राणि यत्र च ॥ १२२ ॥
1.6.122 · p. 87
अनुष्टुप्metre not read in every line
निःपीड्य तिष्ठत्यङ्गुष्ठो मध्यमां मुष्टिकाभिधः ।अयमूर्ध्वीकृताङ्गुष्ठः शिखरो जायते करः ॥ १२३ ॥
1.6.123 · p. 87
अनुष्टुप्
यदाङ्गुलाग्रलग्नाग्रा तर्जनी स कपित्थकः ।यद्यनामाकनीयस्यावुत्क्षिप्ते कुटिलीकृते ॥ १२४ ॥
1.6.124 · p. 87
अनुष्टुप्
विरली च कपित्थस्य स भवेत्कटकामुकः ।यदा त्वरालहस्तस्य वक्रे तर्जन्यनामिके ॥ १२५ ॥
1.6.125 · p. 87
अनुष्टुप्
शुकतुण्डस्तदा हस्तो जायते शुकतुण्डवत् ।एवमन्येऽपि भेदाश्च ज्ञेयाः सूचीमुखादयः ॥ १२६ ॥
1.6.126 · p. 87
अनुष्टुप्
विभावो रसहेतुः स्यादनुभावस्तु तद्भवः ॥ १२७ ॥
1.6.127 · p. 87
रसोत्पत्तौ सहाया ये भावास्ते व्यभिचारिणः ।काव्ये नाट्ये विभावाद्यैर्व्यक्तः स्थायी रसः स्मृतः ॥ १२८ ॥
1.6.128 · p. 87
अनुष्टुप्
रत्यादयः स्थायिनः स्यू रसास्वादस्तु चर्वणा ।शृङ्गोऽस्त्रीमन्मथोद्भेदो रतिस्त्वनुरतिः स्त्रियौ ॥ ११८ ॥
1.6.118 · p. 88
अनुष्टुप्
अनुरागोऽपि रागोऽथ भावो मानसविक्रिया ।ईषद्व्यक्ता रतिर्हावो हेला व्यक्ततरा रतिः ॥ ११९ ॥
1.6.119 · p. 88
अनुष्टुप्
शृङ्गार-हास्य-करुणा भयानको रौद्र-वीर-बीभत्साः ।शान्ता[57a]द्भुताविति रसा दशमो वात्सल्यनामापि ॥ १२० ॥
1.6.120 · p. 88
आर्या
शृङ्गारोऽस्त्री रसज्यायाञ्शुचिरुज्ज्वल इत्यपि ।समौ संयोग-संभोगौ यूनोः पूर्णे मनोरथे ॥ १२१ ॥
1.6.121 · p. 88
अनुष्टुप्
विप्रलम्भो विप्रयोगो वियोगो विरहस्तथा ।हासो हसो हासिका स्त्री हसनं हास्यघर्घरे ॥ १२२ ॥
1.6.122 · p. 88
अनुष्टुप्
स्मितं त्वदृष्टदन्तं तत्तत्तु वक्रोष्ठिकं नरि ।दृश्यदन्तं तु हसितं मध्यं विहसितं भवेत् ॥ १२३ ॥
1.6.123 · p. 88
अनुष्टुप्
स्यादाच्छुरितकं चावच्छुरितं पररोषकृत् ।अट्टहासो महाहासोऽतिहासस्तु समं ततः ॥ १२४ ॥
1.6.124 · p. 88
अनुष्टुप्
अपहासोऽकारणजः स्मेरस्तच्छीलवांस्त्रिषु ।मिथोहासो व्यावहासी स्त्रियां विनिमयाद्धसेः ॥ १२५ ॥
1.6.125 · p. 88
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable)
हासिका क्रमतो हासः शोक-खेदौ च शोचनम् ।शुक् स्त्रियामथ दैन्यं स्यात्कार्पण्यं दीनता खिदा ॥ १२६ ॥
1.6.126 · p. 88
अनुष्टुप्
कृपानुकम्पा करुणा घृणा च दयया सह ।शूकोऽस्त्री ना न्वनुक्रोशः कारुण्यं च दरस्त्रिषु ॥ १२७ ॥
1.6.127 · p. 88
अनुष्टुप्
आतङ्कोऽस्त्री पुमांस्त्रासो भयं साध्वसमन्तिमे ।आशङ्का-भी-भीति-भियाः[57b] स्त्रियोऽथाग्न्यादिजन्म तत् ॥ १२८ ॥
1.6.128 · p. 89
अनुष्टुप्metre not read in every line
अदृष्टमथ दृष्टं स्याद्भयं स्वपरचक्रजम् ।भूभृतां स्यादहिभयं स्वपक्षप्रभवं भयम् ॥ १२९ ॥
1.6.129 · p. 89
अनुष्टुप्
अत्याहितं महाभीतिरथ पुंसि रसार्थकाः ।भीषणो भैरवो भीमो भीष्मो घोरो भयंकरः ॥ १३० ॥
1.6.130 · p. 89
अनुष्टुप्
भयानकः प्रतिभयो दारुणश्च भयावहः ।आभीरश्चाथ रौद्रः स्यादुग्रस्तद्वत्स्वमी त्रिषु ॥ १३१ ॥
1.6.131 · p. 89
अनुष्टुप्
उग्रा रौद्री भैरवीति विशेष्यं यदि कामिनी ।रोषामर्ष-क्रोध-कोप-प्रतिघाः क्रुध्-क्रुधा-रुषाः ॥ १३२ ॥
1.6.132 · p. 89
अनुष्टुप्
रुट् स्त्री मन्युर्भाम-खष्पौ वीरस्तूत्साहवर्धनः ।उत्साह ऊर्ज उद्योग उद्यमश्चाभियोगवत् ॥ १३३ ॥
1.6.133 · p. 89
अनुष्टुप्
सर्गोर्थ(था?)ध्यवसायः स्यात्सूत्रतन्तुः प्रगल्भता ।समर्थता शूरता च प्रौढिः स्त्री कियदेतिका ॥ १३४ ॥
1.6.134 · p. 89
अनुष्टुप्
न पुंसि वीर्यं शौण्डीर्यमवज्ञा चातिशक्तिता ।बीभत्सो विकृतः पुंसि वैकृतस्त्रिष्वथार्त्तनम् ॥ १३५ ॥
1.6.135 · p. 89
अनुष्टुप्
घृणा जुगुप्सा वीज्या स्यादृतीया च हृणीयमा(?) ।ऋतिर्ह्रणीयाथ शमः शमथोपशमावपि ।तृष्णा[58a]क्षयः स्त्रियां शीतिर्विस्मयश्चित्रमद्भुतम् ॥ १३६ ॥
1.6.136 · p. 89
अनुष्टुप्metre not read in every line
चौद्यमाश्चर्य-वीक्षे च चित्राद्या भेद्यलिङ्गकाः ।ऋतिंकरस्त्रिषु भवेज्जुगुप्साकृत्समार्थकाः ।डम्बरः स्याच्चमत्कारः प्रश्रयः प्रेम न स्त्रियाम् ॥ १३७ ॥
1.6.137 · p. 89
अनुष्टुप्
प्रियता प्रणयः स्नेहो विद्वेषस्तु विरोधवत् ।वैरं चाथ भवेद्वाम्यं प्रातिकूल्यं प्रतीपता ॥ १३८ ॥
1.6.138 · p. 90
अनुष्टुप्
उपनाहो वैरबन्धः कातिर्वक्त्रानुकूलता ।आनुकूल्यं तु दाक्षिण्यमथ विप्रतिसारवत् ।विप्रतीसार उद्दिष्टोऽनुतापानुशयौ तथा ॥ १३९ ॥
1.6.139 · p. 90
अनुष्टुप्metre not read in every line
पश्चात्तापोऽप्यथावज्ञा रीढा लीढावमानना ॥ १४० ॥
1.6.140 · p. 90
हेला त्रिष्ववहेलं स्यादसूर्क्षणमसूक्षणम् ।अनादरोऽथाभिभव-परिभाव-पराभवाः ॥ १४१ ॥
1.6.141 · p. 90
अनुष्टुप्
तिरस्कारः परिभवो न्यक्कारश्च निकारवत् ।अत्याकारोऽपि धिक्कारः प्रतिध्वंसोऽवधीरणम् ॥ १४२ ॥
1.6.142 · p. 90
अनुष्टुप्
पुंसि मर्षः क्षमा क्षान्तिस्तितिक्षा च सहिष्णुता ।सहनं चाप्यभिध्यानमभिध्यान्यस्वदुःस्पृहा ॥ १४३ ॥
1.6.143 · p. 90
अनुष्टुप्
असूयाभ्यवसूया च मत्सरो दोषरोपणम् ।ई[58b]र्ष्या त्वीर्क्ष्या तथेरस्या परोत्कर्षासहिष्णुता ।स्पर्धा स्त्री पुंसि संघर्षो द्रोहस्तु स्यादपक्रिया ॥ १४४ ॥
1.6.144 · p. 90
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 र्ष्या (syllables merged)
निकारो विप्रकारः स्यात्खलीकारोऽपि सम्मतः ।दर्पोऽवलेपोऽहंकारोऽभिमानो गर्व-गर्वरौ ॥अहंता ममता मानोऽस्त्री स्मयो मानसोन्नतिः ।मानग्रन्थिर्भवेन्मन्तुः स स्थिरस्तु ग्रहो मतः ॥अहं पूर्वमहं पूर्वमित्यहंपूर्विका स्त्रियाम् ।अहोपुरुषिका दर्पाद्या स्यात्संभावनात्मनि ॥ १४६ ॥
1.6.146 · p. 90
अनुष्टुप्
अहमहमिका तु गर्वो मिथोऽथ विद्यापदीष्यादेः(?) ।अवहेलनमात्मीयं निर्वेदो निर्विदा खेदः ॥ १४७ ॥
1.6.147 · p. 90
उपगीतिः
क्लमथस्तु क्लमो ग्लानिः क्लमि(?)र्म्लानिर्बलक्षतिः ।शङ्कानिष्टोन्नयोऽथ स्यान्मदो मुन्मोहसंगमः ॥ १४८ ॥
1.6.148 · p. 91
अनुष्टुप्
श्रमः परिश्रमः क्लेशः खेद आदीनवास्रवौ ।व्यायामश्च प्रयासः स्यादायासः स्त्यानमन्तिमे ॥ १४९ ॥
1.6.149 · p. 91
अनुष्टुप्
कौसीद्यं मिद्धमालस्यं चिन्तश्चिन्ता च चिन्तिया ।स्त्रियां स्मृतिः पंसनं(?) स्याद्ध्यानं [न] नरि चिन्तना ॥ १५० ॥
1.6.150 · p. 91
अनुष्टुप्
आध्यानं तूत्कण्ठापूर्वकचिन्ता द्वये तु चो[59a]त्कण्ठा ।उत्कलिका रतिरायल्लकं तथा पुंसि रणरणक उक्तः ॥ १५१ ॥
1.6.151 · p. 91
गीतिः
औत्सुक्यं हृल्लेखो रुहिरुहिका मुण्मूसो(?)धिकस्तथा शूका ।मोहो मूर्च्छा कश्मलमौढ्ये च शेश्च मूर्च्छायः ॥ १५३ ॥
1.6.153 · p. 91
metre not recognised
तोषस्तु धैर्यं स्वास्थ्यं च स्वस्थता च धृतिश्चतुप्रा(?) ।हृदयं लिखति कर्मण यग्घृदयस्य हृल्लेखेति हृत् ।द्वयोर्व्रीडस्त्रपा लज्जा ह्री ह्रीका ह्रीकया युता ।नटाम्बि(न्ति)का च मन्दाक्षं तदन्यस्मादपत्रपा ॥ १५३ ॥
1.6.153 · p. 91
अनुष्टुप्metre not read in every line
चापलं त्वनवस्थानं हर्षश्चेतःप्रसन्नता ।संवेगः संभ्रमावेगावाटोपो रभसस्तथा ।संरम्भोऽपि स्त्रियां तूर्त्ति-तूस्त्वरा-त्वरि-तूर्णयः ॥ १५४ ॥
1.6.154 · p. 91
अनुष्टुप्
जडता जडिम-स्तम्भौ मौर्ख्यं स्त्री तु विषादिता ।विषादः खेद-सादौ चावसादोऽप्यथ संलयः ॥ १५५ ॥
1.6.155 · p. 91
अनुष्टुप्
संवेशः स्याच्छयः स्वप्नः स्वापः शयनमस्त्रियाम् ।निद्रा सुप्तिरथावेशोऽपस्मारः सहसा भयम् ॥ १५६ ॥
1.6.156 · p. 92
अनुष्टुप्
कालेशयनमाख्यातमासीनप्रचलायितम् ।तन्द्रिर्नन्दीमुखी तन्द्रा श्वासहेतिः प्रमीलिका ॥चक्रावर्तो भ्रमो भ्रान्ति[59b]र्भ्रमिर्घूर्णिश्च घूर्णनम् ।साधिका स्त्री सुषुप्तिः स्यात्सुप्तं स्वप्नेऽपि या मतिः ॥ १५७ ॥
1.6.157 · p. 92
अनुष्टुप्metre not read in every line
बोधः प्रबोधो जागर्या जागरो न नपुंसके ॥ १५८ ॥
1.6.158 · p. 92
अमार्षोऽभिनिवेशोऽथाकारगुप्तिश्च संविधा ।अवहित्थं न पुंसि स्यादत्युग्रत्वं तु चण्डता ॥ १५९ ॥
1.6.159 · p. 92
अनुष्टुप्
भ्रूभङ्गोऽचक्षुरन्त्ये स्याद्भ्रकुटिर्भ्रुकुटिः कुदृक् ।भ्रूकुटिर्भृकुटी स्त्री स्याददृष्टिरपदृष्टिवत् ॥ १६० ॥
1.6.160 · p. 92
अनुष्टुप्
आधिः पुंसि मनस्तापोऽथोन्मादश्चित्तविभ्रमः ।मरणं चेतनानाशो मूर्च्छाभेदो बुधैर्मतः ॥ १६१ ॥
1.6.161 · p. 92
अनुष्टुप्
निर्वेदाद्यास्त्रयस्त्रिंशदुद्दिष्टा व्यभिचारिणः ।कटाक्षाद्यास्तु शृङ्गारस्यानुभावाः शरीरजाः ॥ १६२ ॥
1.6.162 · p. 92
अनुष्टुप्
निर्वर्णनं स्यान्निध्यानं दर्शनं च निभालनम् ।निशामनं निशमनं वीक्षणं च निरूपणम् ॥ १६३ ॥
1.6.163 · p. 92
अनुष्टुप्
आलोकनं द्योतनं च दृष्टिदर्क(र्दृक्च?) स्त्रियामुभे ।काक्षः कटाक्षोऽपाङ्गेक्षा वर्कराटोऽक्षिकूणितम् ॥ १६४ ॥
1.6.164 · p. 92
अनुष्टुप्
उन्मीलनं स्यादुन्मेषो निमेषस्तु निमीलनम् ।आघूर्णमानमध्या या क्षामान्ताञ्चिततारका ॥दृष्टिर्विकसितापाङ्गा [60a]मदिरा साभिधीयते ।निक्षणं चुम्बनं चुम्बो मेलके सङ्ग-संगमौ ॥ १६६ ॥
1.6.166 · p. 92
अनुष्टुप्metre not read in every line
श्लेषः परिष्वङ्गरहोपगूहोऽ-प्यमी परीरम्भयुताः पुमांसः ।क्रोडीकृतिस्तत्सद(दृ?)गङ्कपालीमा(आ?)लिङ्गनं नार्युपगूहनं च ॥ १६७ ॥
1.6.167 · p. 93
उपजातिः
यद्योषितः सम्मुखमागतायाःपरापदेशाद्व्रजतो नरस्य ।गात्रेण गात्रं घटते तदेनद्आलिङ्गनं स्पृष्टकमाहुरार्याः ।बाहुभ्यां कण्ठमालिङ्ग्य कामिनी कान्त उत्थिते ।अङ्कमारोहते यच्च वृक्षारूढं तदुच्यते ॥ १६९ ॥
1.6.169 · p. 93
उपजातिःtwo metres in one verse
उपविष्टं प्रियं कान्ता सुप्ता वेष्टयते यदि ।तल्लतावेष्टितं ज्ञेयं कामानुभववेदिभिः ॥अर्धेन्दुस्तु नखाङ्कश्चोत्पलपत्रं नखक्षतम् ।तत्स्त्रीकुचे बर्कराटः शृङ्गारप्रणवोऽधरे ॥मणिमाला च खण्डाभ्रं नारीणां दशनक्षतम् ।अथ स्याद्दशनोच्छिष्टं यूनोरधरचुम्बने ॥स्याद्ग्राम्यधर्मो मदनोत्सवश्च[60b]व्यवाय-संभोगक-संप्रयोगाः ।कुरीर-संवेशन-मोहनानिमहासुखं स्यात्सुरतं रतं च ॥ १६९ ॥
1.6.169 · p. 93
उपेन्द्रवज्राmetre not read in every linenearly उपेन्द्रवज्रा: pāda 1, syllable 1 स्या (wrong syllable)
निधुवनं च रहो रहमन्तिमेनिगदिते च कुटारक-मैथुने ।मदनकेलि-रती च पशुक्रिया-थ विपरीतरते पुरुषायितम् ॥ १७० ॥
1.6.170 · p. 94
द्रुतविलम्बितम्
रजन्यां यद्रतं गोप्यं तत्खञ्जनरतं भवेत् ।निर्वेश-प्रगमौ भाटिभीटिः कीला रताहतिः ।अङ्गजाः स्युरलंकाराः स्त्रीणां भावादयस्त्रयः ॥ १७१ ॥
1.6.171 · p. 94
अनुष्टुप्
शोभा कान्तिश्च दीप्तिश्च माधुर्यं च प्रगल्भता ।औदार्यं धैर्यमित्यासामलंकाराः प्रयत्नजाः ॥ १७२ ॥
1.6.172 · p. 94
अनुष्टुप्
लीला विलासो विच्छित्तिर्बिब्बोकः किलकिञ्चितम् ।मोट्टायितं कुट्टमितं विभ्रमो ललितं मदः ॥ १७३ ॥
1.6.173 · p. 94
अनुष्टुप्
विकृतं तपनं मौग्ध्यं विक्षेपश्च कुतूहलम् ।चकितं हसितं केलिरित्यष्टादश शीलजाः ॥ १७४ ॥
1.6.174 · p. 94
अनुष्टुप्
स्नानं वसनं तिलको लेपो हारोऽञ्जनं काञ्ची ।नासामौक्तिककुण्डलनूपुरकुचकञ्चुकीमालाः ॥ १७५ ॥
1.6.175 · p. 94
उपगीतिः
कबरीबन्धो वलयं ताम्बूलं चातुरी चेति ।[61a]षोडश योषाभूषा औपाधिक्यो बुधैः कथिताः ॥ १७६ ॥
1.6.176 · p. 94
metre not recognised
रूपयौवनलालित्यैः शोभा स्यादङ्गभूषणम् ।रूपं क्लीबे च लावण्यं सौन्दर्यं च समं त्रयम् ।कामेनाप्यायिता कान्तिः सैव दीप्तिस्ततोऽधिका ॥ १७७ ॥
1.6.177 · p. 94
अनुष्टुप्
सर्वावस्थासु सौन्दर्य माधुर्यं परिकीर्तितम् ।केलिकर्मणि वैयात्यं प्रागल्भ्यं समुदीरितम् ॥ १७८ ॥
1.6.178 · p. 95
अनुष्टुप्
सापराधेऽपि कान्ते स्यादौदार्यं विनयः सदा ।धैर्यं स्थैर्यं मनोवृत्तेरथ श्लिष्टोक्तिचेष्टितैः ॥ १७९ ॥
1.6.179 · p. 95
अनुष्टुप्
प्रियस्यानुकृतिर्लीला क्रीडा खेला च खेलनम् ।देवनं नर्मकेलिस्तु द्वयोः पुंसि तु बर्करः ॥ १८० ॥
1.6.180 · p. 95
अनुष्टुप्
परिहासः परीहासो द्रवश्च सदृशार्थकाः ।विलासो वल्लभालोके सात्त्विकानां समुद्भवः ॥ १८१ ॥
1.6.181 · p. 95
अनुष्टुप्
स्तोकाप्याकल्परचना विच्छित्तिः कान्तिपोषकृत् ।विब्बोकस्त्वतिगर्वेण वस्तुनीष्टेऽप्यनादरः ॥ १८२ ॥
1.6.182 · p. 95
अनुष्टुप्
हर्षाद्रुदितगीतादिव्यामिश्रं किलकिञ्चितम् ।क्रन्दितं रुदितं क्रुष्टं परिदेवनमित्यपि ॥ १८३ ॥
1.6.183 · p. 95
अनुष्टुप्
आक्रन्दश्चाथ तं धावन्भवेदाक्रन्दिकस्त्रिषु ।[61b]स्त्री विशेष्या यदि भवेदसावाक्रन्दिकी मता ॥तद्भावभाविते चित्ते वल्लभस्य कथादिषु ।जृम्भणं कर्णकण्डूयेत्यादि मोट्टायितं भवेत् ॥ १८४ ॥
1.6.184 · p. 95
अनुष्टुप्
पुंसि वक्रविकासः स्याज्जृम्भस्तु त्रिषु जृम्भणम् ।केशस्तनाधरादीनां ग्रहे हर्षेऽपि संभ्रमात् ॥ १८५ ॥
1.6.185 · p. 95
अनुष्टुप्
नेति नेति शिरःपाणिधूतिः कुट्टमितं मतम् ।त्वरया हर्षरागादेर्दयितागमनादिषु ॥ १८६ ॥
1.6.186 · p. 95
अनुष्टुप्
अस्थाने भूषणादीनां विन्यासो विभ्रमो भवेत् ।सुकुमारतयाङ्गानां विन्यासो ललितं मतम् ॥ १८७ ॥
1.6.187 · p. 95
अनुष्टुप्
मादो मदो विकारो यो यौवनाद्यवलेपजः ।वक्तव्यकालेऽप्यवचो लीलया विकृतं भवेत् ॥ १८८ ॥
1.6.188 · p. 95
अनुष्टुप्
नयनं प्रियविश्लेषे स्मरावेगोत्थचेष्टितम् ।अज्ञानादिव या पृच्छा प्रतीतस्यापि वस्तुनः ॥ १८९ ॥
1.6.189 · p. 96
अनुष्टुप्
वल्लभस्य पुरः प्रोक्तं मौग्ध्यं तत्तत्त्वदर्शिभिः ।भूषाणामर्घरचना वृथा विष्वगवेक्षणम् ॥ १९० ॥
1.6.190 · p. 96
अनुष्टुप्
रहस्याख्यानमीषच्च विक्षेपो दयितान्तिके ।सा कर्णाकर्णिका प्रोक्ता रहस्योक्तिर्मिथःश्रुतौ ॥ १९१ ॥
1.6.191 · p. 96
अनुष्टुप्
रम्यवस्तुसमालोके लोलता स्यात्कुतूहलम् ।कौतूहलं कौतुकं च कुतुकं च विनोदकः ॥ १९२ ॥
1.6.192 · p. 96
अनुष्टुप्
हसितं तु[62a] वृथाहासो यौवनोद्भेदसंभवः ।विलासे सह कान्तेन क्रीडायां केलिरुच्यते ॥ १९३ ॥
1.6.193 · p. 96
अनुष्टुप्metre not read in every line
देवनं कूर्द्दनं खेला खेलो विहृतिरित्यपि ।क्रीडा च ललनं चाथ तस्यां प्रहरणं यदा ॥दण्डा हि(दि?)स्यात्तदा दाण्डा मौष्टा याष्टैवमुन्नयेत् ।आवीनकं तर्णकानां स्थालीषु क्रीडनं मतम् ॥रासो रासे रसो गो(?)धुग्जनस्य क्रीडनं मतम् ।विप्रलम्भो विसंवादोऽभ्युपपत्तिरनुग्रहः ॥ १९४ ॥
1.6.194 · p. 96
अनुष्टुप्
पुंस्याचारश्चरित्रं स्याच्चारित्रं चरणं तथा ।चरितं वृत्तमस्त्री तत्रिष्वा(?)शीलोऽस्त्रियां शुचि ॥ १९५ ॥
1.6.195 · p. 96
अनुष्टुप्
भावः स्वभावः सहजो धर्मोऽस्त्री स्वो निसर्गकः ।आजानलक्षणानूकरूपतत्त्वानि शीलकम् ।संसिद्धि-प्रकृती रीतिः शीलीयं शीलजे त्रिषु ॥ १९६ ॥
1.6.196 · p. 97
अनुष्टुप्
माया स्त्री कुसृतिस्तथा च निकृतिर्व्याजोऽपदेशोपधीदम्भः कैतवपक्ष(त्र?)शाठ्यकुहकं दण्डाजिनं स्यान्मिषम् ।* * * * * * * * * * * * *छद्म स्याच्छलमस्त्रियां तु कपटं कूटं च संश्चन्निभम् ॥ १९७ ॥
1.6.197 · p. 97
शार्दूलविक्रीडितम्metre not read in every line
वञ्चनमतिसंधानं प्रतारणा स्त्री व्यलीकमस्त्री न(?) ।माया तु शाम्बरी[62b] स्यात्कुसृतिर्जालं तथा कुहकम् ॥ १९८ ॥
1.6.198 · p. 97
आर्या
चिन्ताभिलाषः स्मरणं प्रशंसाप्रलाप उद्वेजनमामयश्च ।जडत्वमुन्मादयुगन्तकालो-ऽवस्था दशैता विरहातुराणाम् ॥ १९९ ॥
1.6.199 · p. 97
उपजातिः
तर्षोऽभिलाषोऽपि मनोरथोऽस्त्रीकामो वशः स्त्री तु तृषा तृडाशा ।काङ्क्षा स्पृहेहापि च कान्तिरिच्छा-ऽऽशंसा च वाञ्छा कविरन्न(?)लिप्सा ॥ २०० ॥
1.6.200 · p. 97
इन्द्रवज्रा
प्रेप्सा च तृष्णापि च दोहदोऽस्त्रीस्याल्लालसात्यर्थमसौ न षण्ढे ।लोभस्तु गर्द्धामिथुना(?) धनाया-ऽथोद्वेग उक्तो विषयेष्वनिच्छा ॥ २०१ ॥
1.6.201 · p. 97
इन्द्रवज्रा
इच्छान्नस्याशनाया स्त्री जिघत्सा क्षुत्क्षुधा रुचिः ।उदन्या स्त्री पिपासा च तृषा-तृष्णा-तृषोऽम्बुनः ॥ २०२ ॥
1.6.202 · p. 97
अनुष्टुप्
रोचको अथ तर्षः स्याद्वित्सा स्त्री चोपलासिका(?) ।एवं स्त्रियस्तत्तदिच्छासूक्ताः पिपठिषादयः ।यदृच्छा स्वैरिता स्वेच्छा तथा स्वाधीनता स्त्रियः ॥ २०३ ॥
1.6.203 · p. 97
अनुष्टुप्
स्तम्भः स्वेदः स्वरभ्रंशो रोमाञ्चोऽपि विवर्णता ।बाष्पश्च कम्पः प्रलय इत्यष्टौ सात्त्विका मताः ॥ २०४ ॥
1.6.204 · p. 97
अनुष्टुप्
विष्टम्भः प्रतिबन्धो नरि प्रतिष्टम्भ ईरितो जडिमा ।स्वेदः सिप्रोऽङ्गरसो निदाघ-घर्मौ स्वजोपि घर्मान्त्ये[63a] ॥ २०५ ॥
1.6.205 · p. 98
गीतिःmetre not read in every line
स्वरभेदः स्वरसादो स्वरभङ्गः स्यात्स्वरध्वंसः ।कण्टक-पुलकावस्त्री रोमाञ्चो रोमहर्षश्च ॥ २०६ ॥
1.6.206 · p. 98
metre not recognised
रोमविकारो रोमाङ्कुरं रोमोद्भेद ईरितोऽपि पुलः ।उद्धर्षणमुल्लसनं त्वक्पुष्पं च त्वदङ्कुरोऽस्त्री स्यात् ॥ २०७ ॥
1.6.207 · p. 98
metre not recognised
विवर्णता तु कालिका दृगम्बुबाष्पमस्त्रियाम् ।तथैव लोतमस्रु चाश्रु मुस्रमश्र-रोदने ॥ २०८ ॥
1.6.208 · p. 98
पञ्चचामरम्
कम्पो वेपथुरत्र कम्पनमथो दर्दूः स शीताधिकामूर्छा स्त्री प्रलयो विचेष्टनमथोद्धर्षोद्धवौ च क्षणः ।पुंसि स्यान्मह उत्सवोऽथ चरमे सान्तं महः सम्मतंप्रोक्तः खण्डरसश्च चित्ररसयुक्सर्वेऽपि यस्मिन्रसाः ॥ २०९ ॥
1.6.209 · p. 98
शार्दूलविक्रीडितम्