कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

जाघनी

jāghanīस्त्री · fem.

In 4 kośas: 3 synonym verses, 2 as a nānārtha head word.

कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.216 · p. 44
कपोली तदधो भागो जङ्घा प्रत्यग्रयोः पुरः ।जङ्घापिण्डी पिचण्डी च जाघनी कुल्फगुल्फकौ ॥ २१६ ॥
अनुष्टुप्
genderस्त्रीfem.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव मनुष्यवर्गः Trikāṇḍaśeṣa 2.6.25 · p. 52
नाभिर्द्वयोस्तुन्दकूपी तुन्दिस्तुन्दीकरः पुमान् ।अधोमर्मशकृद्द्वारमूरुः सक्थि च जाघनी ॥ २५ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.58 · p. 177
पादांगुष्ठांगुलीमध्ये क्षिप्रं क्षेपणमस्त्रियाम् ।प्रसृता जाघनी जंघा पिण्डिका स्यात् पिचिण्डिका ॥ ५८ ॥
अनुष्टुप्
genderस्त्रीfem.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.787 · p. 115
कालेयके तु क्लीबं स्याज्जापकं भेद्यवत् पुनः ।जपकारिण्यथ स्त्री स्याज्जङ्घायां जाघनी त्रि तु ॥ ७८७ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.788 · p. 116
जघनस्य तु सम्बन्धिन्यथो जाबालवाग्द्वये ।अजाजीवे जबालायां अपत्ये चाथ जाह्नवी ॥ ७८८ ॥
अनुष्टुप्
doubtful