कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Trikāṇḍaśeṣa

त्रिकाण्डशेष Trikāṇḍaśeṣa

1,058 verses · 9,515 words tagged · 1,059 marked doubtful (dashed)

द्वितीयः काण्डः · मनुष्यवर्गः

इति सिंहादिवर्गः ॥ ५ ॥

स्त्री वधूर्योषिता रामा मण्डयन्ती वधूजनः ।कन्यकाऽलकनन्दा सा दूषिता धर्मकारिणी ॥ १ ॥
2.6.1 · p. 49
अनुष्टुप्
सस्वेदा चाथ तरुणी दिक्करी धनिका च सा ।मरुण्डोच्चललाटा स्यात्सश्मश्रुर्नरमानिनी ॥ २ ॥
2.6.2 · p. 49
अनुष्टुप्
स्नुषा वधूटी मधुरनिस्वना हंसगद्गदा ।सुखोष्णशीता तुहिनग्रीष्मयोर्वरवर्णिनी ।क्रोधना भामिनी चण्डी दारुस्त्रीशालभञ्जिका ॥ ३ ॥
2.6.3 · p. 49
अनुष्टुप्
विरक्ता दुर्भगा सप्तपुत्रसूः सुतवस्करा ।पतिव्रतैकपत्नी स्याद्विधवा जालिका मता ॥ ४ ॥
2.6.4 · p. 49
अनुष्टुप्
विश्वस्ता लञ्जिनी तु स्याल्लक्षिका कलकूजिका ।वेश्या शूला वारवाणिर्झर्झराप्यथ कुट्टिनी ॥ ५ ॥
2.6.5 · p. 49
अनुष्टुप्
इज्या स्याद्रतताली च घटदासी गणेरुका ।मलिष्ठा सरजाः षाण्मातुरद्वैमातुरौ समौ ॥ ६ ॥
2.6.6 · p. 49
अनुष्टुप्
समदुर्दुहिता पुत्री द्वितीयः कुलधारकः ।पिता जनयिता वप्ता शिशुकः क्षीरकण्ठकः ॥ ७ ॥
2.6.7 · p. 50
अनुष्टुप्
बालो मुष्टिन्धयश्चाथ श्यालिका केलिकुञ्चिका ।नागरो देवलः श्यालो वारकीरोऽथ साश्रुधीः ॥ ८ ॥
2.6.8 · p. 50
अनुष्टुप्
श्वश्रुर्वृद्धः शतानीको जरन्तः स्यादथांशकः ।सगन्धाज्ञातिदायादा मातुलो मातुकेशटः ॥ ९ ॥
2.6.9 · p. 50
अनुष्टुप्
भर्ता भरुर्नर्मकीलः प्राणनाथः सुखोत्सवः ।हृदयेशो रतगुरुर्जारः पापपतिः समौ ॥ १० ॥
2.6.10 · p. 50
अनुष्टुप्
कुमारभृत्या स्याद्बालतन्त्रं गर्भिण्यवेक्षणम् ।गर्भाष्टमो देवमासो नाभिनालाऽमला स्मृता ॥ ११ ॥
2.6.11 · p. 50
अनुष्टुप्
आधानिकं पुंसवनं सीमन्तोन्नयनं च तत् ।खल्लीटः खलितिः कल्लो बधिरः खोरखञ्जकौ ॥ १२ ॥
2.6.12 · p. 50
अनुष्टुप्
दोर्गडुर्बाहुकुण्टः स्यादौषधं तु भिषग्जितम् ।त्वक्पुष्पिका किलासं स्थाच्छ्लीपदं पादगण्डिरः ॥ १३ ॥
2.6.13 · p. 51
अनुष्टुप्
योन्यर्शः कन्दसंज्ञः स्यात्किणः शुष्कव्रणोऽपि च ।अजीर्णे वायुगण्डोऽन्तर्वमिश्चपलताशयः ॥ १४ ॥
2.6.14 · p. 51
अनुष्टुप्
पापरोगो रक्तवटी मसूर्यथ तमोव्रणः ।वल्मीकोऽथातिसारोऽन्नगन्धिः स्यादुदरामयः ॥ १५ ॥
2.6.15 · p. 51
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र (wrong syllable)
कुरण्डवृद्धः सिङ्घानशेटौ स्कन्दनरेचने ।गर्भण्डो नाभिगुडकोऽभिमन्थो लोचनामये ॥ १६ ॥
2.6.16 · p. 51
अनुष्टुप्
युवगण्डोऽवगण्डः स्यात्पित्तं मायुः पलङ्करः ।श्लेष्मा बलाशो मांसं तु जरूथमथ शोणितम् ॥ १७ ॥
2.6.17 · p. 51
अनुष्टुप्
पलक्षारोऽथ मस्तिष्को मस्तलुङ्गोऽप्यथ स्नसा ।वस्नसाऽथोऽध्वरमधु क्लीबे वक्त्रासवः पुमान् ॥ १८ ॥
2.6.18 · p. 51
अनुष्टुप्
जिह्वामलं तु कुलुकं पिप्पिका दन्तजे मले ।पिण्डोऽस्त्रियां कुलं क्षेत्रं शरीरं स्कन्धपञ्जरौ ॥ १९ ॥
2.6.19 · p. 52
अनुष्टुप्
शस्तं वपुः पुद्गलं स्यादाङ्गमङ्गं तु कोमलम् ।पायुस्तनुह्रदो मार्ग उच्चारस्तु पुरीषणः ॥ २० ॥
2.6.20 · p. 52
अनुष्टुप्
भगं गुह्यं वराङ्गं च कलत्रं जन्मवर्त्म च ।स्मरागारं रतिगृहमधोधस्थादिमेऽव्यये ॥ २१ ॥
2.6.21 · p. 52
अनुष्टुप्
ना सन्धिरधरोऽवाच्यदेशश्च स्मरकूपकः ।संसारमार्गश्च रतिकुहरं प्रकृतिः स्त्रियाम् ॥ २२ ॥
2.6.22 · p. 52
अनुष्टुप्
पुष्पापत्यपथौ चाथ नितम्बः स्यात्कटीरकः ।लिङ्गं तु लाङ्गलं शेफः साधनं मदनांकुशः ॥ २३ ॥
2.6.23 · p. 52
अनुष्टुप्
स्मरस्तम्भश्च कन्दर्पमुषलो ध्वज इत्यपि ।स्त्रियां नागलता चाण्डकोषस्तु फलकोषकः ॥ २४ ॥
2.6.24 · p. 52
अनुष्टुप्
नाभिर्द्वयोस्तुन्दकूपी तुन्दिस्तुन्दीकरः पुमान् ।अधोमर्मशकृद्द्वारमूरुः सक्थि च जाघनी ॥ २५ ॥
2.6.25 · p. 52
अनुष्टुप्
भुजा बाहा च बाहौ स्यात्कुलिर्हस्तो भुजादलः ।कुचौ वक्षोरुहौ प्रोक्तौ हस्तपुच्छं तु कल्पुषम् ॥ २६ ॥
2.6.26 · p. 53
अनुष्टुप्
नखं पुनर्भवः कामाङ्कुशः स्यात्करकण्टकः ।करेटुः करशूकश्च पुच्छट्यङ्गुलिमोटनम् ॥ २७ ॥
2.6.27 · p. 53
अनुष्टुप्
स्यात्काकलं कण्ठमणिर्नसा नस्या च नासिका ।गन्धनाली च नासिक्यं वाग्दलं दन्तवाससि ॥ २८ ॥
2.6.28 · p. 53
अनुष्टुप्
दन्तः खरुर्वक्रखुरो जम्भो हानुर्द्विजस्तथा ।राजदन्तास्तु चत्वारो दशनानां पुरःस्थिताः ॥ २९ ॥
2.6.29 · p. 53
अनुष्टुप्
गोधिभालौ महाशङ्खो देवदीपस्तु लोचनम् ।अम्बकं चाथ नेत्राम्बु बाष्पो ना लोतमस्त्रियाम् ॥ ३० ॥
2.6.30 · p. 53
अनुष्टुप्
कटाक्षकाक्षौ काकुस्तु जिह्वाऽथ प्रतिजिह्विका ।सुधास्रवा च कर्णस्तु श्रोतः क्लीबे ध्वनिग्रहः ॥ ३१ ॥
2.6.31 · p. 53
अनुष्टुप्
स्याच्छब्दाधिष्ठानमथ कबरः केशगर्भकः ।कबरी जूटकश्चाथ कौटीरः स्याज्जटा सटा ॥ ३२ ॥
2.6.32 · p. 54
अनुष्टुप्
करारोटोङ्गुलीकः स्यात्ताडङ्कः कर्णदर्पणः ।अन्दुकः पादकटकोऽभिषेकः स्नानमित्यापि ॥ ३३ ॥
2.6.33 · p. 54
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 त्या (wrong syllable)
पटच्चरो जीर्णवस्त्रं सिचयप्रोथशाटकाः ।पटवापः पटमयं दूष्यं वस्त्रगृहं स्थलम् ॥ ३४ ॥
2.6.34 · p. 54
अनुष्टुप्
खरग्रहः खरगृहं कुवा तु स्थूशाटकः ।चोलोण्डुकः शिरोवेष्टे विरङ्गिन्यवगुण्ठिका ॥ ३५ ॥
2.6.35 · p. 54
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पाठी यवनिका सूर्यरक्तसंज्ञं तु कुङ्कुमम् ।जागुडं दीपनं घस्रं सौरभं सुघृणं च तत् ॥ ३६ ॥
2.6.36 · p. 54
अनुष्टुप्
स्याद्रङ्गमातृका लाक्षा गन्धकाठं तु गोङ्गकम् ।कपिचञ्चलतैलाख्यः सिह्लोऽथ सरलद्रवः ॥ ३७ ॥
2.6.37 · p. 54
अनुष्टुप्
दधिक्षीरघृताह्वः स्याद्धूनको वह्निवल्लभः ।शालवेष्टः सर्जमणिः कस्तूरी गन्धचेलिका ॥ ३८ ॥
2.6.38 · p. 55
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स (wrong syllable)
मदाह्वश्चाथ सञ्चारी धूपो गन्धपिशाचिका ।रेणुसारस्तु कर्पूरश्चन्द्रभस्म हिमाह्वयः ॥ ३९ ॥
2.6.39 · p. 55
अनुष्टुप्
वेधको मालयस्तु स्याच्छ्रीखण्डो रौहिणश्च सः ।विच्छित्तिस्तु कषायः स्यात्समालम्भनमित्यपि ॥ ४० ॥
2.6.40 · p. 55
अनुष्टुप्
ललाटिका शङ्खचरी विष्टरः पीठमस्त्रियाम् ।निषद्या खट्टिका सन्दी चातुरस्तु मसूरकः ॥ ४१ ॥
2.6.41 · p. 55
अनुष्टुप्
प्रतियत्नस्तु रचना कटकोलः पतद्ग्रहः ।पूगपीठं च दीपस्तु स्नेहाशः कज्जलध्वजः ॥ ४२ ॥
2.6.42 · p. 55
अनुष्टुप्
दशेन्धनो गृहमणिर्दोषातिलक इत्यपि ।शिखातरुर्दीपवृक्षो ज्योत्स्नावृक्षोऽथ लोचकः ॥ ४३ ॥
2.6.43 · p. 55
अनुष्टुप्
कज्जले स्यादिरिपके कन्दुकश्चोदनागुडः ।निश्चुक्कणं दन्तशाणं पिष्टातो धूलिगुच्छकः ॥ ४४ ॥
2.6.44 · p. 56
अनुष्टुप्