क्षिप्र
kṣipraवि · adj.In 14 kośas: 23 synonym verses, 1 as a nānārtha head word, 7 as a meaning of another word.
पादाग्रं प्रपदं क्षिप्रं त्वङ्गुष्ठाङ्गुलिमध्यतः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्यो (wrong syllable)
genderक्लीneut.
त्वरितं सत्वरं तूर्णं शीघ्रं क्षिप्रं द्रुतं लघु ।चपलाविलम्बिते च झम्पा संपातपाटवम् ॥ १४७० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 वि (wrong syllable)
genderविadj.
शरीरस्था इमे रंहस्तरसी तु रयः स्यदः ।जवोऽथ शीघ्रं त्वरितं लघु क्षिप्रमरं द्रुतम् ॥ ६४ ॥सत्वरं चपलं तूर्णमविलम्बितमाशु च ।
अनुष्टुप्
genderविadj.
द्राक् चपलं लघु मङ्क्षु स्राक् तूर्णं त्वरितमाशु शीघ्रमरम् ।अह्नाय सत्वरं च क्षिप्रं द्रुतमञ्जसा झटिति ॥ ६९७ ॥
आर्या
genderविadj.
व्याघ्राटस्तु भरद्वाजः क्षिप्रः श्येनः सपर्णिकः ।वाचालमुखराशारिकोयष्टिः शेखरीति च ॥ २९६ ॥
अनुष्टुप्
genderपुंmasc.
तन्मध्यसंधिर्ग्रन्थिः स्त्री क्लीबे पर्व परुः पुनः ।यदङ्गुष्ठाङ्गुलीमध्ये तत्स्यात्क्षिप्रं पुनस्ततः ॥ १७५ ॥
अनुष्टुप्
genderक्लीneut.
अथ तत्रापि च क्षिप्रमङ्गुष्ठाङ्गुलिमध्यतः ।कूर्चमस्त्री तदुपरि स्कन्धोंह्रिशिर इत्यपि ॥ २१९ ॥
अनुष्टुप्
genderक्लीneut.
ह्रसिष्ठश्च वसिष्ठश्च प्रकर्षार्था अमी पुनः ।पीवरोऽभीप्सितः क्षुद्रः पृथुः क्षिप्रो बहुस्तथा ॥ १८४ ॥
अनुष्टुप्
genderविadj.
जवोऽथ शीघ्रं त्वरिं लघु क्लीबेऽरमव्ययम् ।क्षिप्रं द्रुतं सत्वरं च चपलं तूर्णमाशु च ॥ १६ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 घ्रं (syllables merged)
genderक्लीneut.
पुलाकश्चपलं क्षिप्रं झम्पासंपातपाटवम् ।अजस्रं नित्यमनिशमश्रान्तं सततं तथा ॥ १६५ ॥
अनुष्टुप्
genderक्लीneut.
क्षिप्राणि तान्यश्वकिनी च हस्तःपुष्योऽभिजिद्याथ मघा त्रिपूर्वा ।याम्या तथोग्राप्यथ मूलमार्द्राज्येष्ठा हि दैवी च सुदारुणानि ॥ १०१ ॥
इन्द्रवज्रा
genderविadj.
पदमस्त्री च चरणो गोहिरं मूलमस्य च ।पादाग्रं प्रपदं क्षिप्रं त्वङ्गुष्ठाङ्गुलिमध्यगम् ॥ ४८ ॥
अनुष्टुप्
genderक्लीneut.
शीघ्रं क्षिप्रं द्रुतं तूर्णं त्वरितं सत्वरं लघु ।अनारतानिशे नित्याजस्त्रे त्वविरतं पुनः ॥ ३५२ ॥
अनुष्टुप्
genderविadj.
गोहिरं पादमूले च घुण्टाधः पार्ष्णिरुच्यते ।प्रपदं क्षिप्रमंह्र्यग्रे [74] तलं पादतले स्मृतम् ॥ २७४ ॥
अनुष्टुप्
genderक्लीneut.
त्वरितं सत्वरं शीघ्रं तूर्णं क्षिप्रं द्रुतं लघु ।जवो वेगो रयो रंहस्तरो मन्दे तु मन्थरः ॥ १०६ ॥
अनुष्टुप्
genderविadj.
कथ्यतेऽपि पुनः क्षिप्रमङ्गुष्ठाङ्गुलिमध्यतः ।कूर्चं क्षिप्रस्योपर्यंहिस्कन्धः कूर्चशिरः समे ॥ ९९५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्यो (wrong syllable)
genderक्लीneut.
शीघ्रं क्षिप्रं द्रुतं तूर्णं त्वरितं सत्वरं लघु ।आशुमङ्क्षु तथाऽह्नायश्चपलमविलम्बितम् ॥ २६७२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 प (wrong syllable)
genderविadj.
शीघ्रं तूर्णं द्रुतं क्षिप्रं चपलं लघु सत्वरम् ।अरं त्वरितमाशु स्यादविलम्बितमित्यपि ॥
अनुष्टुप्
genderक्लीneut.
समे तु रंहस्तरसी जवो वेगो रयः स्यदः ।द्रुतं तूर्णं लघु क्षिप्रमरमाश्वविलम्बितम् ॥ १३० ॥
अनुष्टुप्
genderविadj.
व्याघ्राटस्तु भरद्वाजः श्येनः क्षिप्रः सुपर्णकः ।श्येनी तु प्राचिका दार्वाघाटस्तु शतपत्रकः ॥ ७९५ ॥
अनुष्टुप्
genderपुंmasc.
कलविंकस्त्वसौ पीतमुण्डः श्यामा तु पोतकी ।व्याघ्राटस्तु भरद्वाजः क्षिप्रः श्येनः सुपर्णकः ॥ १९ ॥
अनुष्टुप्
genderपुंmasc.
पादांगुष्ठांगुलीमध्ये क्षिप्रं क्षेपणमस्त्रियाम् ।प्रसृता जाघनी जंघा पिण्डिका स्यात् पिचिण्डिका ॥ ५८ ॥
अनुष्टुप्
genderपुंक्लीm. n.
अरालं कुटिलं भुग्नमवक्रे प्रगुणोऽप्यृजुः ।सत्वरं त्वरितं तूर्णमरं क्षिप्रं लघु द्रुतम् ॥ १२४ ॥
अनुष्टुप्
genderविadj.
क्षिप्रं तु पादाङ्गुष्ठस्य तर्जन्याश्चान्तरे नपुम् ।असत्त्वेऽपि च शीघ्रार्थे त्रि तु स्यात् सत्त्वगामि चेत् ॥ २०६ ॥
अनुष्टुप्
क्षिप्र as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप श्वात्रधने क्षिप्रेऽप्यथो शिल्पं कारुकर्मणि कर्मणि । कर्मान्तराणां निर्माणविज्ञाने शाकटायनः ॥ ६४ ॥ Nānārthārṇavasaṃkṣepa 2.3.64
- नानार्थार्णवसंक्षेप ओषक्षिप्रे रक्तफलासंज्ञवल्ल्यां (चो?त्वो)ष्ठी स्त्रियामथ । ओष्ठो दन्तच्छदे पुंसि मार्जारे त्वोतुवाग्द्वयोः ॥ १२५ ॥ Nānārthārṇavasaṃkṣepa 2.5.125
- नानार्थार्णवसंक्षेप शीघ्रश्लेष्मातके वेतसे च शीघ्रो ना मारुते त्रिषु । क्षिप्रे क्लीबं त्वसत्त्वे चेत्याहुरेकेऽथ शीरवाक् ॥ १३७४ ॥ Nānārthārṇavasaṃkṣepa 2.5.1374
- नानार्थार्णवसंक्षेप तरणिगवामुत्थापनं काष्ठं पतितानां समीरितम् । सज्जनस्तु रयेऽप्याह त्रि तु क्षिप्रे पुमान् पुनः ॥ ८४० ॥ Nānārthārṇavasaṃkṣepa 4.840
- नानार्थार्णवसंक्षेप भुरण्युभुरण्यो भास्करे विष्णौ वह्नौ क्षिप्रे पुनस्त्रिषु । भूमिजस्तु पुमान् दैत्यभेदे नरकसंज्ञके ॥ १३०५ ॥ Nānārthārṇavasaṃkṣepa 4.1305
- त्रिकाण्डशेष अतक्षिप्राद्रिभेदयोरतः स्याल्लाजेष्वपि चाक्षतम् । कृषावसत्येऽप्यनृतमाकृतिर्जातिरूपयोः ॥ १४७ ॥ Trikāṇḍaśeṣa 3.3.147
- वैजयन्ती लघुन्याय्यलब्धव्ययोर्लभ्यं लिप्तो भक्षितदिग्धयोः । लघु त्वसारागुरुणोरिष्टे क्षिप्रमनोज्ञयोः ॥ १५ ॥ Vaijayantī 6.4.15