कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

प्रसृता

prasṛtāस्त्री · fem.

In 10 kośas: 10 synonym verses, 1 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.614 · p. 26
कपोली त्वग्रिमो जङ्घा प्रसृता नलकिन्यपि ॥ ६१४ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.72
जङ्घा तु प्रसृता जानूरुपर्वाष्ठीवदस्त्रियाम् ॥ ७२ ॥
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.515 · p. 59
जानुः स्यादष्ठीवान् प्रसृता जङ्घा च घुण्टको गुल्फः ।ऊरुः सक्थि पिचण्डं जठरोदरतुन्दकुक्षिगर्भाः स्युः ॥ ५१५ ॥
गीतिः
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीलिङ्गाधिकारः Koṣakalpataru 4.2.53 · p. 100
तृणता त्रिवृतामृता लतालिखिता सातिसिता तपताथ ।व्रततिः प्रसृता च मार्जितारसवत्यक्षवतीति रंहतिः ॥ ५३ ॥
वियोगिनीmetre not read in every line
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.272 · p. 135
प्रसृता चाग्रिमो जङ्घा कपोली नलकिन्यपि ।पादग्रन्थौ तु गुल्फः स्याद्घुटो घुटिकघुण्टकौ ॥ २७२ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास स्त्रीलिङ्गसंग्रहः Paramānandīyanāmamālā 6.2.50 · p. 217
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.140 · p. 43
पादोपरिस्थितग्रन्थौ घुटिका घटिकापि च ।अधोभागे गुल्फयोस्तु पार्ष्णिः स्यादथ प्रसृता ॥ १४० ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.991 · p. 152
जङ्घा च प्रसृता नाम नलकिनी निगद्यते ।अग्रजङ्घा प्रतिजङ्घा जङ्घाग्रभाग उच्यते ॥ ९९१ ॥
metre not recognised
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.269 · p. 100
टङ्का टङ्कञ्च प्रसृता स्याज्जङ्घा टङ्किकापि च ।द्वेऽष्ठीवान् अस्त्रियामेव क्लीबे जानूरुपर्वणि ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.58 · p. 177
पादांगुष्ठांगुलीमध्ये क्षिप्रं क्षेपणमस्त्रियाम् ।प्रसृता जाघनी जंघा पिण्डिका स्यात् पिचिण्डिका ॥ ५८ ॥
अनुष्टुप्
genderस्त्रीfem.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1106 · p. 144
प्रद्युम्नो मन्मथे पुंसि प्रकृष्टद्युम्नके त्रिषु ।प्रसृता तु स्त्रियां जङ्घासंज्ञाङ्गे पुन्नपोः पुनः ॥ ११०६ ॥
अनुष्टुप्