कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

निर्जरा

nirjarāस्त्री · fem.

In 5 kośas: 2 synonym verses, 3 as a nānārtha head word.

कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.78 · p. 182
चित्रप्रश्नी विरूपा च निर्जरा पुष्पपत्रिका ।कूलजा वनजा तुम्बपत्री स्याच्चारुपत्रिका ।क्षुद्राम्लिका तु चाङ्गेरी चुक्रिका चाम्ललोणिका ॥ ७८ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.159 · p. 69
गुडुची स्यात् छिन्नरुहा जीवन्ती तन्त्रिकामृता ।वत्सादनी सोमवल्ली निर्जरा मधुपर्णिका ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 छि (wrong syllable)
genderस्त्रीfem.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1042 · p. 138
निर्जरा तु गुलूच्यां स्त्री द्वे देवे त्रि जरोज्झिते ।नीवलस्तु द्वयोर्मर्त्यजातिभेदे प्रकीर्तितः ॥ १०४२ ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र रत्रिः Śivakoṣa 22.3.402 · p. 37
द्रुभेदे नागरं विश्वे मुस्ते देव्यां तु नागरी ।निर्जरा तालपर्ण्यां च वत्सादन्यां शिवाफले ॥ ४०२ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.361 · p. 218
धान्योत्क्षेपे निकारः स्याद्गुडूच्यामपि निर्जरा ।नभश्चरौ पक्षिदेवौ पांशुला च निशाचरी ॥ ३६१ ॥
अनुष्टुप्