गुडूची
guḍūcīस्त्री · fem.In 13 kośas: 11 synonym verses, 1 as a nānārtha head word, 41 as a meaning of another word.
व्याघ्री निर्दिग्धिका कण्टकारिका स्यादथामृता ।वत्सादनी गुडूची च विशाला त्विन्द्रवारुणी ॥ ११५७ ॥
अनुष्टुप्
genderस्त्रीfem.
वत्सादनी छिन्नरुहा गुडूची तन्त्रिकामृता ॥ ८२ ॥जीवन्तिका सोमवल्ली विशल्या मधुपर्ण्यपि ।
अनुष्टुप्
genderस्त्रीfem.
शुण्ठी नागरमुक्ता महौषधं विश्वभेषजं विश्वा ।मधुकं यष्टिमधु स्यादमृता वत्सादनी गुडूची च ॥ ६१५ ॥
गीतिः
genderस्त्रीfem.
वत्सादनी गुडूची च जीवन्ती सोमवल्ल्यपि ।चन्द्रहासा लता सोमा वयःस्था चक्रलक्षणा ॥ २४ ॥
अनुष्टुप्
genderस्त्रीfem.
नागरातिविषा मुस्तं त्रयमेतत्त्रिकार्षिकम् ।गुडूचीमिश्रितं चैतच्चतुर्भद्रं प्रकीर्तितम् ॥ ५० ॥
अनुष्टुप्
genderस्त्रीfem.
गुडूच्याममृता सोमवल्ली वत्सादनी धरा ।छिन्नोद्भवा छिन्नरुहा विषघ्नी देवनिर्मिता ॥ ३१८ ॥
अनुष्टुप्
genderस्त्रीfem.
सप्तपर्णस्त्वयुक्पत्रे गुडूच्यमृतवल्लिका ।छिन्ना छिन्नोद्भवा छिन्नरुहा वत्सादनीत्यपि ॥ ४६ ॥
अनुष्टुप्
genderस्त्रीfem.
छिन्नोद्भवा मृतलता गुडूची मधुपर्णिका ।मूर्वा दूर्वा मधुरसा मोरटा तेजिनी मिरा ॥ १९१ ॥
अनुष्टुप्
genderस्त्रीfem.
जीवन्तिकामृतलता विशल्या गुडूचीत्यपि ।मूर्वा मधुरसा देवी तेजनी मोरटा स्रवा ।पौलुपर्णी मधुश्रेणी मूर्वी मूर्वासमाह्वये ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
नागरातिविषामुस्तात्रयमेतत् त्रिकर्षकम् ।तदेव हि चतुर्भद्रं गुडूचीपरिमिश्रितम् ॥ १४६३ ॥
अनुष्टुप्
genderस्त्रीfem.
पाठांबष्ठा विद्धकर्णी प्राचीना श्रेयसी रसा ।गुडूच्यां कुण्डली धीरा छन्ना च्छिन्नरुहा धरा ॥ १३१ ॥
अनुष्टुप्
genderस्त्रीfem.
भद्राशट्योस्तु गन्धालीत्येतद्रभसभाषितम् ।गुडूची(त्य?त्व)मृतानाम्नि वल्ल्या कुस्तुम्बुरुण्यपि ॥ २६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
गुडूची as a meaning in nānārtha verses
- कोषकल्पतरु जीवन्तिकाजीवन्तिका गुडूची- वन्दाजीवाख्यशाकेषु । स्याद्वृह[260a]तिका च भिक्षौ वसन[वि]भेदे बुधैः कथिता ॥ ६१ ॥ Koṣakalpataru 6.1.61
- कोषकल्पतरु अमृतअयाचिते स्याच्च घृते सुधायां स्त्रियां गुडूच्यामलकाभयासु । असत्यकृष्योरनृतं हरौ तु प्रोक्तोऽजितो निर्जितकेऽन्यवत्स्यात् ॥ ७० ॥ Koṣakalpataru 6.16.70
- कोषकल्पतरु रास्नाचिह्नं पताकाङ्कनयोरथ स्यात् द्युम्नं धनेंऽसे च पराक्रमे च । मृत्स्ना मृदग्र्या तुबरी तथोक्ता रास्ना गुडूचीसुवहाहिनेत्रा ॥ ९८ ॥ Koṣakalpataru 6.21.98
- कोषकल्पतरु विषघ्नीस्त्रियां गुडूचीत्रिवृतोः शिखी तु वह्नौ वृषे स्याद्विशिखे च वृक्षे । केतुग्रहे केकिनि कुक्कुटे च स्याच्छार्ङ्गकेषु त्रितये सचूडे ॥ ७४ ॥ Koṣakalpataru 6.21.74
- कोषकल्पतरु तिक्तपर्वन्घनसारे चाब्धिकफे चन्द्रे च श्वेतधामा स्यात् । हिलमोच्यां च गुडूच्यां पथ्याह्वे तिक्तपर्वा च ॥ ६५ ॥ Koṣakalpataru 6.21.65
- कोषकल्पतरु विशल्यारसाञ्जने नेत्रहितेऽन्यवत्स्या- द्दन्त्यां विशल्याऽग्निशिखागुडूच्योः । एलागता चाथ यशस्यभिख्या तथाभिधाने छविवाचिका च ॥ ७९ ॥ Koṣakalpataru 6.26.79
- नानार्थार्णवसंक्षेप तन्त्रीरज्जौ सिरायामालस्ये गुडूच्यामिति पञ्चसु । तण्डूर्द्रोणिप्लवे दर्व्यां ताडिराभरणान्तरे ॥ ४३ ॥ Nānārthārṇavasaṃkṣepa 2.1.43
- नानार्थार्णवसंक्षेप जीवन्तीज्योतिष्मतीगुडूच्योश्च जूर्णस्तु स्यान्नृलिङ्गकः । वज्रेऽपि यावनालेऽपि त्रि तु वृद्धे स्त्रियां पुनः ॥ ४८६ ॥ Nānārthārṇavasaṃkṣepa 2.5.486
- नानार्थार्णवसंक्षेप देवीगुडूचीस्पृक्कयोर्देवी सुरे तु द्वे पुमान् पुनः । देष्णो बाहौ द्वयोस्तु स्याद् यजमानेऽथ स त्रिषु ॥ ६१७ ॥ Nānārthārṇavasaṃkṣepa 2.5.617
- नानार्थार्णवसंक्षेप धराभूमीगुडूच्योर्ध्रत्रस्तु ना वृक्षेऽर्केऽप्यथो नपि । गृहे नभसि सूत्रे च धत्रा तु दिवि सा स्त्रियाम् ॥ ६३५ ॥ Nānārthārṇavasaṃkṣepa 2.5.635
- नानार्थार्णवसंक्षेप धीरास्त्री तु धीरा गुडूच्यां स्याद् धीवा व्याधौ पुमान् द्वयोः । मत्स्ये कश्चित् तु देवे द्वे त्रि तु कर्मकरे स्त्रियाम् ॥ ६४८ ॥ Nānārthārṇavasaṃkṣepa 2.5.648
- नानार्थार्णवसंक्षेप अमृतदेवे तु द्वे स्त्रियां तु स्यादमृता मद्यभिक्षयोः । आमलक्यां हरीतक्यां गुडूच्यां रभसः पुनः ॥ ३ ॥ Nānārthārṇavasaṃkṣepa 4.3
- नानार्थार्णवसंक्षेप अमरगुडूचीन्द्रपुरीस्थूणास्वमर्तरि तु वाच्यवत् । द्वे तु देवेऽथ पुंसि स्यादररः सोमसंज्ञके ॥ ३३ ॥ Nānārthārṇavasaṃkṣepa 4.33
- नानार्थार्णवसंक्षेप कुञ्जरापाटलायां च धातक्यां द्वे तु हस्तिन्यथ स्त्रियाम् । काञ्चनद्रौ गुलूच्यां च कुण्डली क्ली तु पाशके ॥ ५५१ ॥ Nānārthārṇavasaṃkṣepa 4.551
- नानार्थार्णवसंक्षेप निर्जरानिर्जरा तु गुलूच्यां स्त्री द्वे देवे त्रि जरोज्झिते । नीवलस्तु द्वयोर्मर्त्यजातिभेदे प्रकीर्तितः ॥ १०४२ ॥ Nānārthārṇavasaṃkṣepa 4.1042
- नानार्थार्णवसंक्षेप विशल्याविशल्याग्निशिखानाम्न्यामोषधौ स्यात् तथैव सा । दन्तिकायां गुडूच्यां च निश्शल्ये त्वभिधेयवत् ॥ १६९७ ॥ Nānārthārṇavasaṃkṣepa 4.1697
- नानार्थार्णवसंक्षेप विषघ्नीगुलूच्यां वृश्चिकाल्यां च भार्ङ्गीनाम्नि च भेषजे । त्रिवृतासंज्ञवल्ल्यां च शिरीषे तु पुमानयम् ॥ १७०३ ॥ Nānārthārṇavasaṃkṣepa 4.1703
- नानार्थार्णवसंक्षेप मधुपर्णीमधुपर्णी तु काष्मर्यगुडूचीनीलिनीषु च । मन्दाकिनी स्यादाकाशगङ्गायामापगान्तरे ॥ ४३ ॥ Nānārthārṇavasaṃkṣepa 6.43
- नानार्थार्णवसंक्षेप सोमवल्लीधान्ये शाकविशेषे च सोमवल्ली त्ववल्गुजे । ब्राह्मीगुडूच्योश्चाथ स्याद् विद्युद्विद्युद्विशेषयोः ॥ ५६ ॥ Nānārthārṇavasaṃkṣepa 6.56
- परमानन्दीयनाममाला अमृताअमृता मागधीपथ्यामलकीषु गुडूच्यपि । अनयः पामरे नाशे व्यसनेऽथावधिर्बिले ॥ २९ ॥ Paramānandīyanāmamālā 5.1.29
- शिवकोष इन्दुलेकाअग्निमुखी न क्लीबं भल्लाते स्त्री सुगर्भपातिन्याम् । इन्दुलेखा सोमलतागुडूचीवाकुचीषु च ॥ ८० ॥ Śivakoṣa 2.2.80
- शिवकोष विषघ्नीवितुन्नं वन्यभूधात्रीधानास्वस्तिकशीबले । विषघ्नी नाकुलीश्वेतागुडूचीत्रिवृतास्वथ ॥ २६८ ॥ Śivakoṣa 16.1.268
- शिवकोष तिक्तपर्वन्तिक्तपर्वा जलब्रह्मीगुडूचीमधुयष्टिषु । पीतचन्दनमुद्दिष्टं कालीयकहरिद्रयोः ॥ २८३ ॥ Śivakoṣa 16.3.283
- शिवकोष लक्ष्मीरोचनाजीवनीमल्लिगन्धिकालागुरुण्यपि । विशल्याग्निशिखादन्तीगुडूचीत्रिवृतासु च ॥ ३५८ ॥ Śivakoṣa 21.2.358
- शिवकोष वज्रावज्रा गुडूच्यां व्याघ्रस्तु रक्तैरण्डकरञ्जयोः । व्याघ्री निदिग्धिकायां च वेरं वङ्गेऽपि कुङ्कुमे ॥ ३८८ ॥ Śivakoṣa 22.2.388
- शब्दरत्नावली अमृताअमृतामलकीपथ्यागुडूचीमागधीषु च । अमृतन्तु भवेत्कृष्यामसत्ये च नपुंसकम् ॥ Śabdaratnāvalī 7.16.72
- शब्दरत्नावली अनन्तादूर्वादुरालभागौरीगुडूचीपिप्पलीषु च । अम्बन्तं मरणे चूल्यामसृभे(?)ऽनवधावपि ॥ Śabdaratnāvalī 7.16.76
- शब्दरत्नावली जीवन्तीजीवातुरस्त्रियां भुक्त जीवनौषधजीविते । जीवन्ती तु शमी वन्दा गुडूची जीवनीषु च ॥ Śabdaratnāvalī 7.16.104
- शब्दरत्नावली वयस्थाब्राह्मीगुडूचीपश्यासु स्त्रियां स्यात्तरुणे त्रिषु । वमथुर्वमने पुंसि स्यात्कुम्भिकरशीकरे ॥ विदिथः पण्डिते योगे शमथुः शान्तिमन्त्रिणोः । षड्ग्रन्थो ना करञ्जे स्याद्वचायामपि च स्त्रियाम् ॥ समर्थः शक्तहितयोः सम्बन्धे चान्यलिङ्गकः । सिद्धार्थः शाक्यसिंहे च सार्थके श्वेतसर्षपे ॥ Śabdaratnāvalī 7.17.14
- शब्दरत्नावली छिन्नाछन्नन्तु निर्जने क्लीबं छादितेऽप्यभिधेयवत् । छिन्ना स्त्रियां गुडूच्याञ्च तथा कृत्ते त्रिलिङ्गकम् ॥ Śabdaratnāvalī 7.20.6
- शब्दरत्नावली तन्त्रीकुस्तुम्बुरुण्यतिच्छत्रे छत्रः पर्वतभिद्यपि । तन्त्रं प्रधाने सिद्धान्ते तन्त्रवाये परिच्छदे ॥ कुटुम्बकृत्ये हेतौ स्यादुभयार्थप्रयोजके । इतिकर्तव्यतोषध्योः श्रुतिशाखान्तरेऽपि च ॥ शास्त्रभेदे प्रबन्धे च तन्त्री वीणागुणे स्त्रियाम् । गुडूची देहशिरयोर्नदीभिद्युवतीभिदोः ॥ तन्त्रा स्यात्तु प्रमीलायां निद्रायामपि च स्त्रियाम् ॥ Śabdaratnāvalī 7.27.13
- शब्दरत्नावली वज्रारौद्रं धर्मे रसे क्लीबं चण्डायां स्त्री भीषणे त्रिषु । वज्रो योगान्तरे पुंसि क्लीबं धात्र्याञ्च बालके । वज्रा स्नुहीगुडुच्योस्तु वज्री स्रुह्यन्तरे स्त्रियाम् ॥ Śabdaratnāvalī 7.27.41
- शब्दरत्नावली अमराअमरस्त्रिदशे वज्रद्रुमेनेन्द्रपुरि स्त्रियाम् ॥ गुडुच्यामपि दूर्वायां जरायुस्थूनयोरपि । अपरा च जरायौ स्याद्गज(?)पश्चार्द्धके स्त्रियाम् ॥ अर्वाचीने वाच्यलिङ्गमितरस्मिन्नपि त्रिषु । अछरो वसुभेदे स्यात्सावधाने क्रतौ पुमान् ॥ अन्तरे परिधाने स्यादवकाशे परात्मनि । छिद्रतादर्थ्यभेदेषु तुल्येऽवसरमध्ययोः ॥ Śabdaratnāvalī 7.27.52
- शब्दरत्नावली कुण्डलीकुण्डली स्त्री गुडुच्याञ्च तथा काञ्चनभूरुहे । केवलं त्वतिनिर्णीते त्रिलिङ्ग्यामेककृत्स्नयोः ॥ Śabdaratnāvalī 7.28.56
- त्रिकाण्डशेष इन्दुलखाइन्दुलेखा गुडूच्यां च पूः सुखं स्वर्न्नभश्च खम् । गोमुखं लेपने वाद्यभाण्डे सर्पेऽपि दुर्मुखः ॥ ४९ ॥ Trikāṇḍaśeṣa 3.3.49
- त्रिकाण्डशेष अमृतामोक्षः सुधा यज्ञशेषोऽयाचितं वारि चामृतम् । अमृता तु गुडूची स्याद्धरीतक्यामलक्यपि ॥ १४३ ॥ Trikāṇḍaśeṣa 3.3.143
- त्रिकाण्डशेष अनन्तशेषे विष्णावनन्तो ना गुडूचीदूर्वयोः स्त्रियाम् । क्लीबं खे त्रिष्वनवधावनन्तं मरणेऽशुभे ॥ १४४ ॥ Trikāṇḍaśeṣa 3.3.144
- त्रिकाण्डशेष अमराअङ्कुरो रोम्नि रुधिरे वारिण्यभिनवोद्भिदि । अमरा नाभिनालायां गुडूच्यामप्यथाम्बरम् ॥ ३२६ ॥ Trikāṇḍaśeṣa 3.3.326
- त्रिकाण्डशेष निर्जराधान्योत्क्षेपे निकारः स्याद्गुडूच्यामपि निर्जरा । नभश्चरौ पक्षिदेवौ पांशुला च निशाचरी ॥ ३६१ ॥ Trikāṇḍaśeṣa 3.3.361
- वैजयन्ती तन्त्रीतन्त्रीर्गुडूचीसिरयो रज्वां वीणादिगे गुणे । तन्दूर्द्रोणिप्लवे दर्व्यां वाद्ये काले लवे तुटिः ॥ १६ ॥ Vaijayantī 6.2.16
- वैजयन्ती अमराप्रधानेऽव्यक्तमव्यक्तो ब्रह्मण्यस्पष्टमूर्खयोः । अमरेन्द्रपुरी स्थूणा गुडूची चामराः सुराः ॥ १३ ॥ Vaijayantī 7.5.13