All kośas › Śabdaratnāvalī
शब्दरत्नावली Śabdaratnāvalī
4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)
भूमिकाण्डः · वनौषधिवर्गप्रकाशः (2/3)
निम्वः स्यात् पिचुमर्दश्च पिचुमन्दोऽर्कपादपः ।अरिष्टो हिङ्गुनिर्यासः सर्वतोभद्रमालकौ ॥
3.4.121 · p. 66
अनुष्टुप्
शिंशपागुरुसारा च पिच्छिलागुरुशिंशपा ।सा चेत् कपिलवर्णा स्याद् भस्मगर्भा निगद्यते ॥
3.4.122 · p. 66
अनुष्टुप्
क्वचित्तु कपिला भस्मगर्भा च गुरुशिंशपा ।पिच्छिला शिंशपायुग्मपत्रिका गुरु चेत्यपि ।शिरीषः स्याच्च भण्डीसो भण्डिलश्च कपीतनः ॥
3.4.123 · p. 66
अनुष्टुप्
चम्पकः पुष्पगन्धः स्याच्चाम्पेयः कुसुमाधिपः ।हेमपुष्पक हेमाङ्गो गन्धराजक इत्यपि ॥
3.4.124 · p. 66
अनुष्टुप्
वरलब्धः सिधुगन्धो मुकुरो मुकुलोऽपि च ।वञ्जुलोऽशोक-कङ्काल्लि-नट-कान्ताङ्घ्रिदोहदाः ।दाडिमः पिण्डपुष्पोऽपि दाडिम्बः शुकवल्लभः ॥
3.4.126 · p. 66
अनुष्टुप्metre not read in every line
स्वाद्वम्लः करकश्चापि पिण्डीरफल इत्यपि ।तगरः सितपुष्पः स्यात् कालपर्णः कटुच्छदः ॥
3.4.127 · p. 66
अनुष्टुप्
नागकेशरचाम्पेयकेमराः काञ्चनाह्वयः ।स्यात् पुष्परोचनो नागपुष्पो नागोऽपि च कुत्रचित् ॥
3.4.128 · p. 66
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
जयन्ती वैजयन्ती स्यात् तर्कारी वैजयन्तिका ।जया जैत्री च नादेयी भवेत् नादेयिकापि च ॥
3.4.129 · p. 66
अनुष्टुप्
गणिकारिश्च गणिका श्रीपर्णं गणिकारिका ।अग्निमन्थो हरिमन्थस्तेजोमन्थो जयत्यपि ॥
3.4.130 · p. 66
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 रि (wrong syllable)
कुटजः पाण्डरः शक्रः वत्सको गिरिमल्लिका ।इन्द्रयवं भद्रयवं कालिङ्गं कौटजे फले ॥
3.4.131 · p. 67
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 न्द्र (wrong syllable)
करमर्दः करामर्दः आविग्नो विग्न इत्यपि ।कृष्णपाकं पाककृष्णः सुषणः करमर्दकः ॥
3.4.132 · p. 67
अनुष्टुप्
कृष्णपाकफलः कृष्णस्तथा पाकफलोऽपि च ।तमालः स्याच्च तापिच्छकालस्कन्धतमालकाः ।सिमुन्धकं सिन्धुवारः सिन्धुकः सुरसोऽपि च ॥
3.4.133 · p. 67
अनुष्टुप्metre not read in every line
तथेन्द्रसुरसस्त्विन्द्रसुरसः सिन्धुवारितः ।निर्गुण्डीन्द्रानिकेन्द्राणी सुरसा सिन्धुवारकः ॥
3.4.134 · p. 67
अनुष्टुप्
देवताडस्तु जीमूतः खरी वेणी खरीखरा ।श्रीहस्तिनी तु भूरुण्डी चेनीति समाह्वये ॥
3.4.135 · p. 67
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
मल्लिर्मल्ली शीतभीरुः शतभीरुश्च मल्लिका ।तृणशूल्या मोदयन्ती भूपदी मदयन्तिका ॥
3.4.136 · p. 67
अनुष्टुप्
तृणशूल्यं विचकिलं सितपुष्पा सितेत्यपि ।आस्फोता वनमल्ली स्यात् आस्फाटा सुभगा च सा ॥
3.4.137 · p. 67
अनुष्टुप्
शेफालिका तु शेफालिर्नीलिका मसिकाऽपि च ।सुवहा रजनीहासा निर्गुण्डी निशिपुष्पिका ॥
3.4.138 · p. 67
अनुष्टुप्
सा शुक्ला श्वेतसुरसा भूतवेशी च कीर्तिता ।अथ शेफालिकावृन्तं मसी मसिरिति द्वयम् ॥
3.4.139 · p. 67
अनुष्टुप्
यूथिका गणिका यूथी प्रसहन्ती च मागधी ।अम्वष्टेत्यपि सा पीता हेम स्यात् हेमपुष्पिका ॥
3.4.140 · p. 67
अनुष्टुप्
वसन्तदूती वासन्ती माधवी माधवीलता ।लता लतामाधवी स्यादतिमुक्तश्च पुण्ड्रकः ॥
3.4.141 · p. 67
अनुष्टुप्
मालती सुमना जाती सुमनाजातिरित्यपि ।जातिपुष्पकलिका च सोमनस्यायनी भवेत् ॥सप्तला गन्धनिलया मालिका नवमालिका ।कुन्द्यं माघ्यं वोरटञ्च वरटञ्चापि कुत्रचित् ॥
3.4.142 · p. 67
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 लि (wrong syllable)
बन्धूको बन्धुको बन्धुर्बन्धुलो बन्धुजीवकः ।रक्तको बन्धुजीवः स्याद् बन्धुलिर्बन्धुरोऽपि च ॥
3.4.143 · p. 68
अनुष्टुप्
भवेद्घृतकुमारी तु कुमारी तरणिः सहा ।महासहा स्यादम्लानो द्वयमम्लानभुरुहे ॥
3.4.144 · p. 68
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 भु (wrong syllable)
रक्ताम्लाने कुरुवकस्तथा कुरवकोऽपि च ।पीतवर्णे तु तत्रैव कुरुण्टक-कुरण्टकौ ॥
3.4.145 · p. 68
अनुष्टुप्
नीलझिण्टी द्वयोर्वाणा दासी चार्तगलोऽपि च ।सैरेयकश्च सैरेयः झिण्टी साधारणे द्वयम् ॥
3.4.146 · p. 68
अनुष्टुप्
एतस्मिन्नपि रक्ते स्यात्तथा कुरुवके द्विधा ।पीते द्वयोः सहचरी सहाचर-कुरुण्टकौ ॥
3.4.147 · p. 68
अनुष्टुप्
ओड्रपुष्पं रक्तपित्तं जवापुष्पं जवा यवा ।स्यात् पुष्पं वज्रपुष्पञ्च तिलपुष्पे निगद्यते ॥
3.4.148 · p. 68
अनुष्टुप्
मरुदेशे कण्टकिते त्रितयं करभप्रिये ।धुस्तुरोऽपि च धुस्तूरो धुतुरो धूर्त इत्यपि ॥
3.4.150 · p. 68
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क (wrong syllable)
मदनोन्मत्तकितवा मातुलः कनकाह्वयः ।धुस्तूरस्य फले सद्भिरुक्तो मातुलपुत्रकः ॥फलपूरो वीजपूरः पूर्णको वीजपूरकः ।च्छोलङ्गो मातुलुङ्गश्च रुचको मातुलुङ्गुके ॥
3.4.151 · p. 68
अनुष्टुप्
समीरणश्च जम्बीरो जम्बीरकः फणिज्जकः ।प्रस्थपुष्पो मरुवकः षट्कं कण्टकजम्बीरे ॥
3.4.152 · p. 68
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable); pāda 4, syllable 7 म्बी (wrong syllable)
पर्णासस्तुलसी वृन्दा कठिञ्जर-कुठेरकौ ॥
3.4.153 · p. 68
स्याच्चित्रश्चित्रकः पाठी वह्निसंज्ञक इत्यपि ।अथार्कपर्णो वसुको गणरूपो विकीरणः ॥
3.4.155 · p. 68
अनुष्टुप्
आस्फोतास्फोटमन्दाराकुस्थकाश्चार्क इत्यपि ।अर्कपर्णे शुक्लवर्णे स्यादलर्कः प्रतापसः ॥
3.4.156 · p. 69
अनुष्टुप्
एकाष्ठीला पाशुपतो वकपुष्पा वुको बकः ।शिवमल्ली वसुश्चैव वसुका चैव कुत्रचित् ॥
3.4.157 · p. 69
अनुष्टुप्
वृक्षादनी वृक्षवहा वन्दा जीवन्तिकापि च ।शेखरी वन्दका सेव्या वन्दाका परवासिका ॥
3.4.158 · p. 69
अनुष्टुप्
गुडुची स्यात् छिन्नरुहा जीवन्ती तन्त्रिकामृता ।वत्सादनी सोमवल्ली निर्जरा मधुपर्णिका ॥
3.4.159 · p. 69
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 छि (wrong syllable)
जीवन्तिकामृतलता विशल्या गुडूचीत्यपि ।मूर्वा मधुरसा देवी तेजनी मोरटा स्रवा ।पौलुपर्णी मधुश्रेणी मूर्वी मूर्वासमाह्वये ॥
3.4.160 · p. 69
अनुष्टुप्metre not read in every line
वचा सदृशपत्राट्ये धनुगुणसमत्वचि ।पाठाम्बष्ठा पापचेली प्राचीना स्थापनी रसा ॥
3.4.161 · p. 69
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 2 नु (wrong syllable)
अबिद्धकर्णिका बिद्धकर्णी च बिद्धकर्णिका ।एकाष्ठीला विद्धकर्णा श्रेयसी वनतिक्तिका ॥
3.4.162 · p. 69
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
कटुकी कटुकाशोकरोहिणी शकुलादनी ।मत्सपित्ता रोहिणी च कृष्णभेदी कटुम्भरा ॥स्यादशोकापि च कटुश्चक्राङ्गी कटुरोहिणी ।शूकशिम्बिः शूकशिम्बी शुकशिम्बिश्च वानरी ॥
3.4.163 · p. 69
अनुष्टुप्
कपिकच्छुः कपिकच्छूः कच्छुरा प्रावृषायनी ।शूकशिम्बा च कण्डूरा जहा ऋण्डा च मर्कटी ॥ऋष्यप्रोक्ता स्वयंगोप्ता स्वगुप्ता शूकपिण्डिका ।आत्मगुप्ता शूकपिण्डिः शूकपिण्डी कपिप्रभा ॥रण्डा मूषिकपर्णा स्यान्न्यग्रोधा सम्बरी वृषा ।प्रत्यक्श्रेणी सुतश्रेणी द्रवन्ती मूषिपर्णिका ॥
3.4.164 · p. 69
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 पि (wrong syllable)
कपिकच्छुस्त्रीकपिकच्छूस्त्रीकच्छुरास्त्रीप्रावृषायनीस्त्रीशूकशिम्बास्त्रीकण्डूरास्त्रीजहास्त्रीऋण्डास्त्रीमर्कटीस्त्रीऋष्यप्रोक्तास्त्रीस्वयंगोप्तास्त्रीस्वगुप्तास्त्रीशूकपिण्डिकास्त्रीआत्मगुप्तास्त्रीशूकपिण्डिस्त्रीशूकपिण्डीस्त्रीकपिप्रभास्त्रीरण्डास्त्रीमूषिकपर्णास्त्रीन्यग्रोधास्त्रीसम्बरीस्त्रीवृषास्त्रीप्रत्यक्श्रेणीस्त्रीसुतश्रेणीस्त्रीद्रवन्तीस्त्रीमूषिपर्णिकास्त्री
चित्रोपचित्रा सञ्चित्रा मूषिकर्णी स्वकर्णिका ।अपामार्गः शैखरेयश्चमत्कार-मयूरकौ ।धामार्गवः शैखरिकं शिखरी खरमञ्जरी ॥
3.4.165 · p. 69
अनुष्टुप्
प्रत्यक्पर्णी मधुरकः किलिही किलियीत्यपि ।कीशपर्णी कीशपर्णिः केशपर्णीत्यपाङ्गकः ॥
3.4.166 · p. 70
अनुष्टुप्
ब्रह्मयष्टिर्ब्रह्मयष्टी ब्राह्मणी ब्रह्मयष्टिका ।फञ्जिका कञ्जिका पद्मा यष्टी ब्राह्मणयष्टिका ॥
3.4.167 · p. 70
अनुष्टुप्
अङ्गारबल्ली भाङ्गी स्याद् वर्वरोऽङ्गारवल्लरी ।बालेयशाकवालेयवर्धका ब्राह्मिकेत्यपि ॥
3.4.168 · p. 70
अनुष्टुप्
मञ्जिष्ठा कालमेषी च काला स्यात् कालमोर्षका ।समङ्गा विकसा जिङ्गी जिङ्गियोजन वल्ल्यपि ॥
3.4.169 · p. 70
अनुष्टुप्
भण्डीरी भाण्डरी भण्डी भण्डिका भाण्डिकेत्यपि ॥
3.4.170 · p. 70
अनन्ता च समुद्रान्ता दुरालभ्भा च रोदिनी ।पृश्निपर्णी पृश्निपर्णिः धारणिर्धारणी गुहा ॥
3.4.173 · p. 70
अनुष्टुप्
चित्रपर्णी पृथक्पर्णी कलशिः कलशीति च ।सिंहपुच्छी क्रोष्टुपुच्छी क्रोष्टुविन्नाङ्घ्रिवल्लिका ॥
3.4.174 · p. 70
अनुष्टुप्
निदिग्धिका कुलिः क्षुद्रा बृहती कटकारिका ।प्रचोदनी स्पृशी व्याघ्री दुःस्पर्शा राष्ट्रिकापि च ॥
3.4.175 · p. 70
अनुष्टुप्
नीली क्लीतः क्लीतकिका काला दोला मेला च नीलिका ।ग्रामीणा रञ्जनी तुत्था श्रीकली मधुपर्णिका ।द्रोणी च नीलिनी तूली तूलिका तोलिकापि च ॥
3.4.176 · p. 70
अनुष्टुप्
सोमराजी सोमवल्ली वाण्डजी सोमवल्लिका ।वाकुची कालमेषी च सुवल्लिः कालमेषिका ॥
3.4.177 · p. 70
अनुष्टुप्
कृष्णफला पूतिफली वाण्डजा सोमराजिका ।पिप्पली पिप्पलिः कृष्णा वैदेही मागधी कणा ॥
3.4.178 · p. 71
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 ष्ण (wrong syllable)
कोणोपकुल्या चपला शौण्डी स्यादूषणोषणा ।कपिवल्ली कोलवल्ली श्रेयसी करिपिप्पली ॥
3.4.179 · p. 71
अनुष्टुप्
कनीचिः कृष्णला गुञ्जा तुलाबीजन्तु चिञ्चिका ।काकचिञ्ची काकचिञ्चा काकाचिञ्चा तु सा स्मृता ॥
3.4.181 · p. 71
अनुष्टुप्
गोक्षुरः स्याद्गोक्षुरको गोक्षुरश्च त्रिकण्टकः ।गोकण्टकस्त्रिकण्ठः स्यात् त्रिकटः त्रिक इत्यपि ॥
3.4.182 · p. 71
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्गो (wrong syllable)
इक्षुगन्धा क्षुरोऽपि स्यात् श्वदंष्ट्रा च पलङ्कषः ।वनशृङ्गा च शृङ्गाटा विक्षुरः स्वादुकण्टकः ॥
3.4.183 · p. 71
अनुष्टुप्
भवेदतिविषा विश्वा विषाप्युपविषारुणा ।महौषधं प्रतिविषा शृङ्गी च शृङ्गिकेत्यपि ॥
3.4.184 · p. 71
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
क्षीरावी दुग्धिका दुग्धी क्षीरी क्षीराविकापि च ।नारायणी बहुसुता शतमूली शतावरी ।अभीरुपत्री चाभीरुरहेरुः स्यादभीरुका ॥
3.4.185 · p. 71
अनुष्टुप्
इन्दीवरी वरी ऋष्यप्रोक्ता ऋष्यगतापि च ।दार्वी दारुहरिद्रा स्याद् दारु दारुनिशा निशा ॥
3.4.186 · p. 71
अनुष्टुप्
पीतद्रुश्च हरिद्रुश्च पर्जनी स्यात् पचम्पचा ।कालेयको हरिद्रा च तथा कालीयकोऽपि च ॥
3.4.187 · p. 71
अनुष्टुप्
वचोग्रगन्धा षड्ग्रन्था षड्ग्रन्थी शतपर्विका ।गोलोमी शतपर्वा च वचापर्याय ईरितः ॥
3.4.188 · p. 71
अनुष्टुप्
अथ हैमवती शुक्लवचा नाम निगद्यते ।वासको वासिका वासा वासो वाशा च वाशिका ।अटरुषो वृषो वाजी सिंहास्यो वाजिदन्तकः ॥
3.4.189 · p. 71
अनुष्टुप्metre not read in every line
वैद्यसिंही मातृसिंही सिंहिकाटरुषोऽपि च ।विष्णुक्रान्ता तथा स्फोता गिरिकर्ण्यपराजिता ॥
3.4.190 · p. 72
अनुष्टुप्
कोकिलाक्ष इक्षुगन्धा काण्डेक्षुरिक्षुरः क्षुरः ।मधुरा स्यान्मधुरिका मधुरी च मिसिर्मिसी ॥
3.4.191 · p. 72
अनुष्टुप्metre not read in every line
मिश्रेया स्यात् शितशिवः शूद्रा कालेय इत्यपि ।स्नुही समन्तदुग्धा सीहुन्तः स्नुक् स्नुही स्नुहा ॥
3.4.192 · p. 72
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वज्रो वज्रद्रुमो वज्रा सिहुन्तश्च गुडा गुहा ।अस्त्री विडङ्गं वेणुश्च तण्डुलाश्चित्रतण्डुलाः ॥
3.4.193 · p. 72
अनुष्टुप्
क्रिमिघ्नश्च कृमिघ्नश्च मोघा च मोघा च तण्डुलुः ।वाट्टालकः शीतपाकी वाट्टा भद्रोदनी बला ।कटी च विनया चैव वाट्टाली वाटिका तथा ॥
3.4.194 · p. 72
अनुष्टुप्metre not read in every line
पीता लीत्याह्वये घण्टारवा तु शणपुष्पिका ।द्राक्षा मधुरसा स्याद्वी मृद्वीका गोस्तनी रसी ।त्रिपुटा रसना श्वेता रेचनी त्रिवृता त्रिवृत् ॥
3.4.195 · p. 72
अनुष्टुप्
स्वाहा च त्रिभण्डी चैव सर्वानुभूतिरित्यपि ।श्यामा सुषेणिका सारा काला च कालमेषिका ॥
3.4.196 · p. 72
metre not recognised
अर्धचन्द्रा च पालिन्दी मसूरविदलापि च ।अथ यष्टी-मधुकं स्यान्मधुयष्टी तु यष्टिका ॥
3.4.197 · p. 72
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 धु (wrong syllable)
मधुकायष्टि मधुकायष्टी च मधुयष्टिका ।मधुर्मधुकयष्टिः स्यात् क्लीतकं मधुकञ्च तत् ॥
3.4.198 · p. 72
अनुष्टुप्
इक्षुगन्धा क्षीरशुक्ला विदारीचेक्षुगन्धिका ।ऋक्षगन्धा महाश्वेता क्षिरीका ऋक्षगन्धिका ॥
3.4.199 · p. 72
अनुष्टुप्
तथा क्षीरविदारी च भवेत् क्षीरविदारिका ।शारदी लाङ्गली तोयपिप्पली शकुलादनी ॥
3.4.200 · p. 72
अनुष्टुप्
चाचडा इति विख्याते जलाङ्की जलपिप्पली ।मयूरो दीप्यको दीप्यः कारवी लोचमस्तकः ॥
3.4.201 · p. 72
अनुष्टुप्
गोपी गोपा गोपवल्ली सारीवोत्पलसारिका ।अनन्ता शारिवा श्यामा अष्टौ श्यामलताह्वये ॥
3.4.203 · p. 73
अनुष्टुप्
काकोली क्षीरकाकोलीत्यष्टवर्गः प्रकीर्तितः ।कदली स्यात् कदलको मोचकः कदलेत्यपि ॥
3.4.204 · p. 73
अनुष्टुप्
रोचको रोचका रम्भा काष्ठीला भानुमत्फला ।वारवुषा वारवूषा मोचा स्यादंशुमत्फला ॥
3.4.205 · p. 73
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 वु (wrong syllable)
मुद्गपर्णी काकमुद्गा सहा सहरमापि च ।वार्ताकुरपि वार्ताकी वार्तिकः वार्तिकोऽपि च ॥
3.4.206 · p. 73
अनुष्टुप्
वातिङ्गनः वातिगः स्याद् वृन्ताको वङ्गनोऽङ्गनः ।भण्टाकी हिङ्गली सिंही वार्ताकी दुष्प्रधर्षिणी ॥
3.4.207 · p. 73
अनुष्टुप्
रास्ना सुगन्धा सुरसा च्छत्राकी गन्धनाकुली ।भुजङ्गाक्षी च सुवहा नकुलेष्टा च नाकुली ॥
3.4.208 · p. 73
अनुष्टुप्
शालपर्णी सालपर्णी स्थिरा चांशुमती ध्रुवा ।गन्धा विदारी शालानी शालिका च विदारिका ॥
3.4.209 · p. 73
अनुष्टुप्
कर्पासी वदरा सूत्रपुष्पा च वदरीत्यपि ।समुद्रान्ता तुण्डिकेरी तथा कापालिकापि च ॥
3.4.210 · p. 73
अनुष्टुप्
भार्द्वाजी वनकार्पासी भारद्वाजी यशस्विनी ।महावीर्या सुवीर्या च तथा वनसरोजिनी ॥
3.4.211 · p. 73
अनुष्टुप्
कर्पासी भूरुहफले कर्पासन्तु नपुंसकम् ।शृङ्गी स्त्रियान्तु ऋषभे ऋषभो वृष इत्यपि ॥
3.4.212 · p. 73
अनुष्टुप्
अष्टवर्गाभ्यन्तरे स्यादृषभाख्ये महौषधे ।झषा गाङ्गेरुकी नागवला ह्रस्वगवेधुका ॥
3.4.213 · p. 73
अनुष्टुप्
धामाङ्गवः घोषकः स्याद् घोषो घोणालताह्वये ।धामाङ्गवे पीतवर्णे महाजाली प्रकीर्तिता ।परोलिका परोली च ज्योत्स्नी जाली पटोलिका ॥
3.4.214 · p. 73
अनुष्टुप्metre not read in every line
नादेयिका च नादेयी भूजम्बुर्भूमिजम्बुका ।भूमिजम्बूलतायां स्यात् केचित्तु भूमिचम्पके ॥
3.4.215 · p. 73
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त्तु (wrong syllable)
अग्निजाला लाङ्गलिका लाङ्गलिक्यपि लाङ्गली ।अग्निशिखा लाङ्गिलिकी लाङ्गलक्यपि सा मता ॥
3.4.216 · p. 74
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 ला (wrong syllable); pāda 3, syllable 2 ग्नि (wrong syllable)
काकाङ्गी काकजङ्घा च काकाञ्ची काकनासिका ।गोधापदी तु सुवहा स्याद्गोधापदिकेत्यपि ॥
3.4.217 · p. 74
अनुष्टुप्
मुषली तालमूली स्यात्तालिका तालमूलिका ।अजशृङ्गी विषाणी स्यात्तथा कर्कटशृङ्गिका ।गोजिह्वा दार्विका चेति दार्वी गोजिह्विकापि च ॥
3.4.218 · p. 74
अनुष्टुप्
अथ पर्णलता नागवल्ली ताम्बूलवल्लिका ।ताम्बूलवल्ली ताम्बूली पर्णवल्ली च ताम्बुलिः ॥
3.4.219 · p. 74
अनुष्टुप्
हरेणुः कपिला कौन्ती रेणुका भस्मगन्धिनी ।द्विजा च रेणुकाख्ये तु गन्धद्रव्ये निगद्यते ॥
3.4.220 · p. 74
अनुष्टुप्
एलवालुकामैलेयमेलबालञ्च वालुकम् ।स्यादैलवालुकं वालु सुगन्धि हरिवालुकम् ॥
3.4.221 · p. 74
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable)
पालङ्की कुन्दुरुः कुन्दुः मुकुन्दुः कुन्द इत्यपि ।बाल-बालक-ह्रीवेर-वहिष्टं केशनामकम् ॥
3.4.222 · p. 74
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क (wrong syllable)
ह्रीवेरोदीच्यपानीयनाम वारिदमित्यपि ।शैलजं स्यात् शीतशिवं शैलेयञ्च शिलासनम् ॥
3.4.223 · p. 74
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 शी (wrong syllable)
शिलेयं शीतलं शैलं कालानुसार्यशैलकम् ।बृद्धं कालानुसारं स्यादश्मपुष्पञ्च शीरणम् ॥
3.4.224 · p. 74
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 नु (wrong syllable)
मुरा गन्धकुटी दैत्या लालपर्णी च गन्धिनी ।स्यात् शल्लकी मल्लकी च सुरभिः सुरभी रसा ॥
3.4.225 · p. 74
अनुष्टुप्
गजभक्ष्या गजगजक्ष्या(?) ह्रादिनी ह्लादिनीति च ।महेरुणा कुन्दुरुकी सिह्लकी सिह्लभूमिका ।धातृपुष्पी धातुपुष्पी धातकी धातृपुष्पिका ॥
3.4.226 · p. 74
अनुष्टुप्metre not read in every line
अग्निज्वाला सुभिक्षा च धातृ च धातुपुष्पिका ।एला च बहुला चन्द्रबाला निष्कुटिरित्यपि ॥
3.4.227 · p. 74
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
पृथ्वीका निष्कुटी चन्द्रा चन्द्रिका वालिकेत्यपि ।सैव सूक्ष्मा यदि भवेत् कोरङ्गी च त्रुटिः त्रुटी ॥
3.4.228 · p. 74
अनुष्टुप्
तथोपकुञ्चिका तुत्था त्रिपुटा पूटिकापि च ।कुष्ठं व्याधिः पारिभाव्यं गदाह्वन्तु गदाह्वयम् ॥
3.4.229 · p. 75
अनुष्टुप्
कौवेरं भासुरं वाप्यमाप्यं पाकलमुत्पलम् ।चोरपुष्पी शङ्खिनी च केशिनी चोरपुष्पिका ॥
3.4.230 · p. 75
अनुष्टुप्
अस्त्री वितुन्नकः ताली शिवा तामलकी मला ।अज्झटा श्यामला झटा स्याद्भूम्यामलकीति च ॥
3.4.231 · p. 75
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 झ (wrong syllable)
पौण्डरीकं पुण्डरीकं पुण्डरी पुण्डरीयकम् ।प्रपौण्डरीकं चक्षुष्यं पौण्डर्यं तालपुष्पकम् ॥
3.4.232 · p. 75
अनुष्टुप्
सालपुष्पं दृष्टिकृतं स्थलपद्मञ्च मालकम् ।केचित्तु पूर्वदशकं पद्मकाष्ठे प्रचक्ष्यते ॥
3.4.233 · p. 75
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दृ (wrong syllable)
नन्दीवृक्षो नन्दिवृक्षः कुलिः कच्छः कुवेरकः ।तुलिस्तुल्वः कान्तलको नन्दिको नन्दिवृक्षकः ॥
3.4.234 · p. 75
अनुष्टुप्
स च क्षीरमयोऽश्वत्थसदृशस्तु सरित्तटे ।चण्डा धनहरी क्षेमो राक्षसी गणहासकः ॥
3.4.235 · p. 75
अनुष्टुप्
दुष्पुत्रो दुष्कुलीनश्च विवोधः क्रोधमूर्छितः ।व्याडायुधं व्याघ्रनखं नखाङ्कं चक्रकारकम् ॥
3.4.236 · p. 75
अनुष्टुप्
नखी नखस्तु करजं तथा व्याघ्रनखीत्यपि ।शुषिरा स्यात् कपोताङ्घ्रिः नली नाली नटीति च ॥
3.4.237 · p. 75
अनुष्टुप्
गन्धद्रव्ये नलीनाम्नि केचित्तु नालिकाह्वये ।अथ हट्टविलासिन्यां धमनि धमनीति च ॥
3.4.238 · p. 75
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 त्तु (wrong syllable); pāda 4, syllable 2 म (wrong syllable)
नखरीखुर इत्येवं गन्धद्रव्यं नखीति यत् ।आटकी मृत्तिका मृत्स्ना तुवरी तूवरीत्यपि ॥
3.4.240 · p. 75
अनुष्टुप्