All kośas › Trikāṇḍaśeṣa
त्रिकाण्डशेष Trikāṇḍaśeṣa
1,058 verses · 9,515 words tagged · 1,059 marked doubtful (dashed)
तृतीयः काण्डः · नानार्थवर्गः (4/5)
गह्वरे द्वे गुहाकुञ्जे पूर्द्वारि द्वारि गोपुरम् ।नग्नकन्योमयोर्गौरी गौरः स्यादुज्ज्वलेऽपि च ॥ ३४७ ॥
3.3.347 · p. 213
अनुष्टुप्
गोत्रं नाम्नि कुले पुंसि शैले भूगव्ययोः स्त्रियाम् ।स्वरे रणे च गान्धारो गृध्रः स्याल्लोभिपक्षिणोः ॥ ३४८ ॥
3.3.348 · p. 213
अनुष्टुप्
कर्ब्बुरे तिलके चित्रं सुभद्रातारयोः स्त्रियाम् ।चन्द्रः शशिनि कर्पूरे चारो बन्धापसर्पयोः ॥ ३४९ ॥
3.3.349 · p. 213
अनुष्टुप्
मृते देवकुले चैत्रं ना भूभृन्मासभेदयोः ।सपें विष्णौ चक्रधरश्चिकुरौ वृक्षभित्कचौ ॥ ३५० ॥
3.3.350 · p. 214
अनुष्टुप्
चक्रः कोके व्रजे पुंसि क्लीबे सैन्यरथाङ्गयोः ।ग्रामजाले कुम्भकारभाण्डे राष्ट्रे च दृश्यते ॥ ३५१ ॥
3.3.351 · p. 214
अनुष्टुप्
नदप्रभेदे वाद्ये च झर्झरोऽथ गुणध्वनौ ।प्रसिद्धावपि टङ्कारस्तारोऽत्युच्चस्वरे त्रिषु ॥ ३५२ ॥
3.3.352 · p. 214
अनुष्टुप्
तारिण्यङ्गदमात्रोः स्त्री न ना ऋक्षाक्षिमध्ययोः ।दृग्रोगे तिमिरं ध्वान्ते तोत्रे प्राजनवेणुके ॥ ३५३ ॥
3.3.353 · p. 215
अनुष्टुप्
धान्याके तुम्बरी शुन्यां ताम्रं शुल्वेऽरुणे त्रिषु ।पेटके नावि च तरी तुषारः शीकरे हिमे ॥ ३५४ ॥
3.3.354 · p. 215
अनुष्टुप्
इतिकर्तव्यता तन्त्रमुपायश्च द्विसाधकः ।तीव्रं कटुनितान्तञ्च दर्दरः शैलभुग्नयोः ॥ ३५५ ॥
3.3.355 · p. 215
अनुष्टुप्
उपाये निर्गमे द्वारं दारुः स्याद्देवदारु च ।दासीसुतोष्ट्रौ दासेरौ देवयात्राऽशने मृतौ ॥ ३५६ ॥
3.3.356 · p. 216
अनुष्टुप्
दिगम्बरोऽन्धकारे च वाद्यमेघौ च दर्दुरौ ।धात्री भुव्यामलक्याञ्च हरिशैलौ धराधरौ ॥ ३५७ ॥
3.3.357 · p. 216
अनुष्टुप्
धारा हरिद्राश्वगतिनिशाम्बुस्रुतिराजिषु ।धाराधरो खड्गमेघौ धीरः पण्डितमन्दयोः ॥ ३५८ ॥
3.3.358 · p. 217
अनुष्टुप्
धीरञ्च कुङ्कुममथो धरा पृथ्वी धरो गिरिः ।नेत्रो नेतरि नेत्रञ्च गुणे मूले विलोचने ॥ ३५९ ॥
3.3.359 · p. 217
अनुष्टुप्
ना षिड्गे नागरं शुण्ठ्यां नरोऽजे मनुजेऽर्ज्जुने ।नरेन्द्रो वार्त्तिके राज्ञि विषवैद्येऽपि दृश्यते ॥ ३६० ॥
3.3.360 · p. 217
अनुष्टुप्
धान्योत्क्षेपे निकारः स्याद्गुडूच्यामपि निर्जरा ।नभश्चरौ पक्षिदेवौ पांशुला च निशाचरी ॥ ३६१ ॥
3.3.361 · p. 218
अनुष्टुप्
वलीकवनयोर्नीघ्रं पूरः खाद्ये पयश्चये ।यत्नारम्भौ परिकरौ खड्गफलेऽपि पुष्करम् ॥ ३६२ ॥
3.3.362 · p. 218
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 फ (wrong syllable)
नद्यन्तराले पात्रं स्याद्भाण्डे चाऽथ निशापतौ ।पृथक्चारिगजे यूथभ्रष्टे पक्षवरः स्मृतः ॥ ३६३ ॥
3.3.363 · p. 219
अनुष्टुप्
स्थाल्यो मन्थेऽपि पिठरं पवित्रं कुशमेध्ययोः ।देहे पाटलिपुत्रे च पुरं स्यागुग्गुलौ पुरः ॥ ३६४ ॥
3.3.364 · p. 219
अनुष्टुप्
वरो जामातरि वृतौ कुङ्कुमे च नपुंसकम् ।वक्रः शनैश्चरे क्रूरे पुटभेदे तथा नृजौ ॥ ३६५ ॥
3.3.365 · p. 219
अनुष्टुप्
कुब्जवृक्षे हरे वारो बन्धुरं रम्यनम्रयोः ।भ्रमरः कामुके भृङ्गे भरोऽतिशयभारयोः ॥ ३६६ ॥
3.3.366 · p. 220
अनुष्टुप्
विषे स्वादौ च मधुरं मल्लिकायाञ्च माधुरम् ।मखाग्नौ च महावीरो मक्षिकायाञ्च मत्सरः ॥ ३६७ ॥
3.3.367 · p. 220
अनुष्टुप्
महेन्द्रो भूधरे शक्रे मन्दे वक्रे च मन्थरः ।विघ्नमन्मथयोर्मारो मकरो राशिथादसोः ॥ ३६८ ॥
3.3.368 · p. 221
अनुष्टुप्
गमनोत्सवयोर्यात्रा रुधिरं कुङ्कुमेऽपि च ।वृक्षभित्पापयो रोध्रो दैत्यभेदे मृगे रुरुः ॥ ३६९ ॥
3.3.369 · p. 221
अनुष्टुप्
लम्बोदरः स्यादुद्धाने गणानामधिपेऽपि च ।लक्ष्मीपुत्रौ स्मरहयौ विस्तारौ स्तम्बविस्तृती ॥ ३७० ॥
3.3.370 · p. 221
अनुष्टुप्
वप्रस्तातेऽस्त्रियां क्षेत्रे चये रेणौ च रोधसि ।स्यादूषरे वनक्षेत्रे वल्लुरं गहनेऽपि च ॥ ३७१ ॥
3.3.371 · p. 222
अनुष्टुप्
वल्लूरा त्रिषु संशुष्कमांससूकरमांसयोः ।वैकल्येऽपि च विश्लेषे विधुरं विकले त्रिषु ॥ ३७२ ॥
3.3.372 · p. 222
अनुष्टुप्
विकारो विकृतौ रोगे विश्वकद्रू श्वभित्खलौ ।बेरोऽङ्गे कुङ्कुमे बेरं वठरः शठमन्दयोः ॥ ३७३ ॥
3.3.373 · p. 222
अनुष्टुप्
(२२३ ) अथ व्यतिकरः पुंसि व्यसनव्यतिषङ्गयोः ।पर्याणेऽक्षोपकरणे शारिः शकुनिकान्तरे ॥ ३७४ ॥
3.3.374 · p. 223
अनुष्टुप्
श्रीलक्ष्मीवेशसम्पत्सु भारतीशोभयोरपि ।शिखरं शैलवृक्षाग्रकक्षापुलककोटिषु ॥ ३७५ ॥
3.3.375 · p. 223
अनुष्टुप्
पक्वदाडिमबीजाभमाणिक्यशकलेऽपि च ।शुक्रं रेतोक्षिरुक्शुक्रो ना काव्यज्यैष्ठवह्निषु ॥ ३७६ ॥
3.3.376 · p. 223
अनुष्टुप्
गजभूषा च शृङ्गारः शुषिरं गर्तवाद्ययोः ।कुटजे वासवे शक्रो वरीशच्योः शतावरी ॥ ३७७ ॥
3.3.377 · p. 223
अनुष्टुप्
शक्करी मेखलाछन्दः शवरः सलिले शिवे ।स्थिरा महीशालपर्ण्योः शम्बरं संयमे जले ॥ ३७८ ॥
3.3.378 · p. 224
अनुष्टुप्
शम्बरौ दैत्यहरिणौ सत्त्रं स्यात्कैतवे वने ।स्रोतोञ्जने च सौवीरं काञ्जिके बदरेऽपि च ॥ ३७९ ॥
3.3.379 · p. 224
अनुष्टुप्
हलतिग्मकरौ सीरौ सान्द्रं मृदौ घने वने ।तन्वादिग्रन्थयोः सूत्रं कारणेऽपि च दृश्यते ॥ ३८० ॥
3.3.380 · p. 225
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 मृ (wrong syllable)
इति रान्ताः ।
शैलेऽचलोऽचला भूमावरालः सर्जवक्रयोः ।अलिः सुरापुष्पलिहोः कल्लोलेऽप्याकुलं त्रिषु ॥
3.3.395 · p. 225
अनुष्टुप्
आलिः सेतुः सखी यज्वा शौण्डिकश्चाऽसुतीवलः ।आभीलं भीषणे कृच्छ्रे इला भूवाग्बुधाङ्गनाः ॥ ३८२ ॥
3.3.382 · p. 226
अनुष्टुप्
आर्द्रशूरणयो रोलः कालः स्यान्मृत्युकृष्णयोः ।अंशे वृद्धावपि कला कदली ध्वजरम्भयोः ॥ ३८३ ॥
3.3.383 · p. 226
अनुष्टुप्
कफोणिघाते ज्वाले च कीलावत्कील इष्यते ।शिरसोऽस्थ्नि कपालोऽस्त्री घटादेः शकले व्रजे ॥ ३८४ ॥
3.3.384 · p. 226
अनुष्टुप्
काको विषञ्च काकोलौ सास्नायामपि कम्बलः ।धूनकेऽपि कलकलः कामलः कामुके मधौ ॥ ३८५ ॥
3.3.385 · p. 227
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 पि (wrong syllable)
कुलं गोत्रे गणे देहे न ना ज्ञाने च केवलम् ।कपिला शिंशपाकौन्त्योः कपिलोऽग्नौ मुनौ शुनि ॥ ३८६ ॥
3.3.386 · p. 227
अनुष्टुप्
कोलोऽङ्कपालावुत्सङ्गे वराहे भेलकेऽपि च ।पिप्पल्यपि च कोला स्यात्कोलञ्च बदरीफले ॥ ३८७ ॥
3.3.387 · p. 228
अनुष्टुप्
मृगे जले च कमलं कुवले बदरोत्पले ।कल्लोलौ शात्रवोल्लोलौ पर्कट्याञ्च कमण्डलुः ॥ ३८८ ॥
3.3.388 · p. 228
अनुष्टुप्
कर्म्मरङ्गतरौ कर्म्मफलं दुःखे सुखेऽपि च ।करालो धूनतैलेऽपि देशे केशे च कुन्तलः ॥ ३८९ ॥
3.3.389 · p. 228
अनुष्टुप्
कुतूहलं प्रशस्तेऽपि खलश्चर्म्मणि चातके ।वस्त्रे निम्ने चाथ खल्लं सस्यस्थाने शठे त्रिषु ॥ ३९० ॥
3.3.390 · p. 229
अनुष्टुप्
मण्डले मणिके गोला गोलं गोदावरी सखी ।गोपो भूपश्च गोपालो चपलः पारदेऽपि च ॥ ३९१ ॥
3.3.391 · p. 229
अनुष्टुप्
चपला पिप्पलीलक्ष्मीपुंश्चलीविद्युतः स्मृताः ।छलं छद्मस्खलितयोर्जम्बालौ पङ्कशैवलौ ॥ ३९२ ॥
3.3.392 · p. 229
अनुष्टुप्
जङ्गलो निर्ज्जने देशे त्रिलिङ्गः पिशितेऽस्त्रियाम् ।जालं दम्भेऽपि जम्बीरे देवभेदेऽपि जम्भलः ॥ ३९३ ॥
3.3.393 · p. 230
अनुष्टुप्
झलाऽऽतपोर्मिर्दुहिता तलं मूलचपेटयोः ।तालो गीतक्रियामाने हरिताले द्रुमान्तरे ॥ ३९४ ॥
3.3.394 · p. 230
अनुष्टुप्
लोहे हारमणौ पुंसि यवाग्वां तरला स्त्रियाम् ।ब्रह्मदारौ पिचौ तूलं स्थूणासादृश्ययोस्तुला ॥ ३९५ ॥
3.3.395 · p. 231
अनुष्टुप्
तमालो वरुणे खड्गे तापिच्छे तिलकेऽपि च ।गुवाकेऽपि च ताम्बूलं विडङ्गेऽपि च तण्डुलः ॥ ३९६ ॥
3.3.396 · p. 231
अनुष्टुप्
दुकूलं श्लक्ष्णवस्त्रेऽपि चार्द्धे पत्रे छदे दलम् ।धवला गवि ना शण्डे शुक्लसुन्दरयोस्त्रिषु ॥ ३९७ ॥
3.3.397 · p. 232
अनुष्टुप्
परमाणौ च पीलुः स्याद्देहे चात्मनि पुद्गलः ।शस्ताकारेऽप्यथ तरौ पिप्पलः पिप्पलं जले ॥ ३९८ ॥
3.3.398 · p. 232
अनुष्टुप्
शाल्मली शिंशपा चैव पोतिका चाऽपि पिच्छिला ।सश्मश्रुयुवती पालिः पङ्क्तिः कर्णलताऽपि च ॥ ३९९ ॥
3.3.399 · p. 232
अनुष्टुप्
वीणादण्डे प्रबालोऽत्री विद्रुमे नवपल्लवे ।नले काशे पोटगलः पित्तत्युक्ते च पित्तलः ॥ ४०० ॥
3.3.400 · p. 233
अनुष्टुप्
पिङ्गलः यत् कपावग्नावाशुव्रीहिश्च पाटलः ।फलं जातिफले लाभे बाणाग्रे फलकेऽपि च ॥ ४०१ ॥
3.3.401 · p. 233
अनुष्टुप्
फेणिलं बदरेऽरिष्टे बालो ह्रीवेरकेशयोः ।बलिर्जराश्लथत्वे स्त्री गृहदार्वमुरौ बली ॥ ४०२ ॥
3.3.402 · p. 234
अनुष्टुप्
बलं गन्धरसे रूपे क्लीबं वाट्यालके स्त्रियाम् ।बहुलः कृष्णपक्षेऽपि मेलानन्द्यपि वार्दलः ॥ ४०३ ॥
3.3.403 · p. 234
अनुष्टुप्
दुर्दिनेऽप्यथ वेला स्यात्सिन्धोः कूले च भोजने ।ऋषिभदे प्लवे पुंसि भेलं भीरुहृदि त्रिषु ॥ ४०४ ॥
3.3.404 · p. 235
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 भ (wrong syllable)
मेखलाद्रिनितम्बेऽपि ग्रहे ना मङ्गलं शुभे ।निकटेऽपि च मूलं स्याद्धुस्तूरेऽपि च मातुलः ॥ ४०५ ॥
3.3.405 · p. 235
अनुष्टुप्
मौलिः कङ्केलिवृक्षेऽपि मल्लः पात्रे कपालिनि ।बलीयसि च मत्स्ये च मण्डूलं परिधौ गणे ॥ ४०६ ॥
3.3.406 · p. 236
अनुष्टुप्
बिम्बे देशे ना च शुनि रसालत्विक्षुचूतयोः ।जिह्वाकमलयोर्लाला शाला स्याद्गृहशाखयोः ॥ ४०७ ॥
3.3.407 · p. 236
अनुष्टुप्
तरुजातौ मत्स्यभेदे शालो हाले नृपेऽपि च ।निगडे पुंकटीबद्धवस्त्रे च शृङ्खलं त्रिषु ॥ ४०८ ॥
3.3.408 · p. 236
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 च (wrong syllable)
शालिर्गन्धमृगे धान्ये शयालुः कुक्कुरेऽलसे ।शकलं वल्कले खण्डे शीतलः शिशिरेऽनिले ॥ ४०९ ॥
3.3.409 · p. 237
अनुष्टुप्
षण्डाली तैलमाने स्यात्स्मारसीकामुकस्त्रियोः ।सिध्मला शुष्कमीने स्त्री त्रिलिङ्ग्यान्तु किलासिनि ॥ ४१० ॥
3.3.410 · p. 237
अनुष्टुप्
ऋजौ वृक्षे च सरलः सालो वरणसर्जयोः ।हस्तिमल्लो गजास्ये च हेलाऽवज्ञाविलासयोः ॥ ४११ ॥
3.3.411 · p. 237
अनुष्टुप्
इति लान्ताः ।
यागे च मद्यसन्धाने स्नाने चाभिषवः पुमान् ।मृतावसत्त्वे चाभावः स्याद्रजः पुष्पमार्तवम् ॥ ४१२ ॥
3.3.412 · p. 238
अनुष्टुप्
आश्रवोऽङ्गीकृतौ वश्ये आहवौ यागसङ्गरौ ।उपप्लवौ राहूत्पातौ कितवौ मत्तवञ्चकौ ॥ ४१३ ॥
3.3.413 · p. 238
अनुष्टुप्
खलीने स्त्री कविः पुंसि काव्यकृच्छुक्रसूरिषु ।कैतवन्तु छले द्यूते राजिकायां क्षुते क्षवः ॥ ४१४ ॥
3.3.414 · p. 238
अनुष्टुप्
केशवः केशवी विष्णुर्गालवो मुनिलोध्रयोः ।जीवोऽस्त्री जीविते पुंसि गुरुजन्त्वोः स्त्रियां गुणे ॥ ४१५ ॥
3.3.415 · p. 239
अनुष्टुप्
तत्त्वं विलम्बिते नृत्ये स्वरूपे परमात्मनि ।मेघे राज्ञि सुरे देवो द्विजिह्वो व्यालसूचकौ ॥ ४१६ ॥
3.3.416 · p. 239
अनुष्टुप्
ध्रुवो वटे स्मरारौ च गीतिस्रुग्भेदयोर्ध्रुवा ।धवो धूर्त्तेऽप्यथ नवो नूतने वासवे स्तुतौ ॥ ४१७ ॥
3.3.417 · p. 240
अनुष्टुप्
प्लवो निषादे पर्कट्यां भेके भेले गतौ कपौ ।पल्लवो विस्तरे षिड्गे किसले विटपे वने ॥ ४१८ ॥
3.3.418 · p. 240
अनुष्टुप्
घटादौ पार्थिवो राज्ञि वल्लवः सूदगोपयोः ।गजे धन्विनि शुक्रे पर्शुरामे च भार्गवः ॥ ४१९ ॥
3.3.419 · p. 240
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
दूर्वा गौरी च भार्गव्यौ सत्तासंसारयोर्भवः ।भावो गौरविते जन्तौ पदार्थेऽभिनयान्तरे ॥ ४२० ॥
3.3.420 · p. 241
अनुष्टुप्
करञ्जभित्फले लट्वा वाद्यपक्षिप्रभेदयोः ।विश्वं शुण्ठ्यां समस्ते च निर्वाणे विभवो धने ॥ ४२२ ॥
3.3.422 · p. 242
अनुष्टुप्
अश्वौघे वाडवं न स्त्री पाताले ना द्विजौर्वयोः ।वडवाऽश्वाकुम्भदास्योर्योगे कील हरे शिवः ॥ ४२३ ॥
3.3.423 · p. 242
अनुष्टुप्
सुखं क्षेमं शिवं शम्यामलकी चाभया शिवा ।षाडवस्तु रसे रागे सैन्धको लवणाश्वयोः ॥ ४२४ ॥
3.3.424 · p. 243
अनुष्टुप्
स्वोऽस्त्रियां ज्ञातिधनयोः स्वमात्मनि नपुंसकम् ।आधेयधारणे सत्त्वे मेलकेऽपि च सम्भवः ॥ ४२५ ॥
3.3.425 · p. 243
अनुष्टुप्
इति वान्ताः ।
अपभ्रंशो दुष्पतने भाषाभेदापशब्दयोः ।टीकादर्पणावादर्शावाशा तृष्णादिशोः स्त्रियाम् ॥ ४२६ ॥
3.3.426 · p. 243
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 णा (wrong syllable)
प्रभुशङ्करयोरीशः स्त्रियां लाङ्गलदण्डके ।दिगम्बरे कपै कीशः केशो वालप्रचेतसोः ॥ ४२७ ॥
3.3.427 · p. 243
अनुष्टुप्
जीवितेशो यमे नाथे दंशः संहननेऽपि च ।सर्पक्षतेऽथ ज्ञाने व लोचने दर्शने च दृक् ॥ ४२८ ॥
3.3.428 · p. 244
अनुष्टुप्
नाशः पलायने मृत्यौ निस्त्रिंशौ खड्गनिर्दशौ ।निशा रात्रिर्हरिद्रा च मृगादौ प्रमथे पशुः ॥ ४२९ ॥
3.3.429 · p. 244
अनुष्टुप्
पुरोडाशो हविर्भेदे चमस्यां पिष्टकस्य च ।रसे सोमलतायाञ्च हुतशेषे च कीर्त्यते ॥ ४३० ॥
3.3.430 · p. 245
अनुष्टुप्
पाशः कचान्ते संघार्थः कर्णान्ते शोभनार्थकः ।छात्राद्यन्ते च निन्दार्थः पाशः पक्ष्यादिबन्धने ॥ ४३१ ॥
3.3.431 · p. 245
अनुष्टुप्
वार्त्ताहरे पुरोगे च सहाये च प्रतिस्पशः ।लोमशो मेढ्रकेऽपि स्याद्विवशाववशविह्वलौ ॥ ४३२ ॥
3.3.432 · p. 245
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 द्विव (syllable split)
वंशो वर्गे च पृष्ठांशे वेशो वेश्यागृहेऽपि च ।आयत्तत्वाप्रभुत्वे द्वे वशः परवशे त्रिषु ॥ ४३३ ॥
3.3.433 · p. 246
अनुष्टुप्
इति शान्ताः ।
अभिलाषेऽनुतर्षः स्यात्पानेच्छायामथामिषम् ।सम्भोगोत्कोचमांसेषु उषा बाणात्मजा निशा ॥ ४३५ ॥
3.3.435 · p. 246
अनुष्टुप्
भल्लूके शोणके चक्षो नक्षत्रे पुंनपुंसकम् ।ऋषिर्वेदेऽपि कक्षस्तु दोर्मूले शुष्ककानने ॥ ४३६ ॥
3.3.436 · p. 247
अनुष्टुप्
कक्षा वरत्रा प्रकोष्टस्पर्द्धोद्ग्रहणिकासु च ।कुल्माषं काञ्जिके ना तु यवके स्यादथाऽबिले ॥ ४३७ ॥
3.3.437 · p. 247
अनुष्टुप्
पापे च कलुषं घोषः शब्दाभीरनिवासयोः ।शुचौ दक्षे च चोक्षः स्यात्तर्षो लिप्सापिपासयोः ॥ ४३८ ॥
3.3.438 · p. 248
अनुष्टुप्
दक्षः प्रजापतौ ताम्रचूडे हरवृषे पटौ ।पौरुषं मानभेदे च पुन्नागे पुरुषो नरे ॥ ४३९ ॥
3.3.439 · p. 248
अनुष्टुप्
पक्षौ मासार्द्धपार्श्वौ च महिषी राजपत्न्यपि ।मूर्खे माने फले माषो मेषौ राश्यन्तरोरणौ ॥ ४४० ॥
3.3.440 · p. 248
अनुष्टुप्
सङ्ख्यायान्तु न ना लक्षा क्लीबं व्याजशरव्ययोः ।हरतार्क्ष्यौ विशालाक्षौ शेषो नानन्तसीरिणोः ॥ ४४१ ॥
3.3.441 · p. 249
अनुष्टुप्
उपयुक्तेतरे त्वस्त्री शैलुषो नटबिल्वयोः ।शुश्रूषा परिचर्य्या च संहर्षः स्पर्द्धने मुदि ॥ ४४२ ॥
3.3.442 · p. 249
अनुष्टुप्
इति षान्ताः ।
योग्यायामन्तिकेऽभ्यासोऽधिवासौ स्थानसंस्क्रिये ।आख्यायिका परिच्छेदे चाऽश्वासो निर्वृताऽवपि ॥ ४४३ ॥
3.3.443 · p. 249
अनुष्टुप्
उदर्च्चिरुत्प्रभे वह्नावेनः पापपराधयोः ।कनीयाननुजेऽल्पे च कंसो मानेसुरान्तरे ॥ ४४४ ॥
3.3.444 · p. 250
अनुष्टुप्
तैजसे कंस्यपात्रे च गुत्सः स्तबकहारयोः ।छन्दः पद्यश्रुतीच्छासु तरो वेगे बलेऽपि च ॥ ४४५ ॥
3.3.445 · p. 250
अनुष्टुप्
तमः शोकेऽप्यथ हिमर्त्तौ ना धर्म्मे व्रते तपः ।पद्मे स्वर्णे तामरसं निशा दुर्गा च तामसी ॥ ४४६ ॥
3.3.446 · p. 251
अनुष्टुप्
मणिदोषे दरे त्रासो दासो वित्तात्मचेटयोः ।झिण्ट्याञ्च दासी दीर्घायुरृषिः काकश्च शाल्मलिः ॥ ४४७ ॥
3.3.447 · p. 251
अनुष्टुप्
योक्त्रे च वसुराख्याने स्वान्ते सरसि मानसम् ।माश्चन्द्रमासयोः पुंसि खर्जूरेक्ष्वोर्महारसः ॥ ४४८ ॥
3.3.448 · p. 252
अनुष्टुप्
राजहंसो नृपाग्र्ये च जिह्वाभूः शल्लकी सा ।जले शरीरधातौ च पारदस्वादयोः रसः ॥ ४४९ ॥
3.3.449 · p. 252
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
भाषाशृङ्खलके रासः क्रीडायामपि गोदुहाम् ।रहो रते च गुह्ये च रभसो हर्षवेगयोः ॥ ४५० ॥
3.3.450 · p. 252
अनुष्टुप्
विहायाः शकुने पुंसि विहायः खे नपुंसकम् ।पुत्रादौ तर्णके वर्षे वत्सः क्लीबन्तु वक्षसि ॥ ४५१ ॥
3.3.451 · p. 253
अनुष्टुप्
रसे क्रूरे च विकृतौ बीभत्सस्त्रिषु नाऽर्ज्जुने ।व्यासो मुनौ च विस्तारे बर्हिर्ना कुशशुष्मणोः ॥ ४५२ ॥
3.3.452 · p. 253
अनुष्टुप्
अग्रे प्रधाने च शिरः श्रीवासो विष्णुधूपयोः ।सुमनाः पुष्पमालत्योः स्त्रियां ना देवधीरयोः ॥ ४५३ ॥
3.3.453 · p. 253
अनुष्टुप्
वीणाभेदे सर्जरसो धूनकेऽप्यथ सारसम् ।पद्मे ना पक्षिणीन्दौ च सरो नीरतडागयोः ॥ ४५४ ॥
3.3.454 · p. 254
अनुष्टुप्
हविः सर्पिषि हव्ये च हंसस्तु खगसूर्ययोः ।निर्लोभे नृपतौ विष्णान्तरात्मनि चेष्यते ॥ ४५५ ॥
3.3.455 · p. 254
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
इति सान्ताः ।
अवग्रहः स्यात्प्रकृतिभाववृष्टिविबन्धयोः ।अवरोहोऽवतरणे त्रिदिवे च लतोद्गमे ॥ ४५६ ॥
3.3.456 · p. 254
अनुष्टुप्
आरोहस्तु नितम्बे स्याद्दीर्घत्वे च समुच्छ्रये ।शक्तौ स्नेहे चाग्रहः स्यादीहातूद्यमाञ्छयोः ॥ ४५७ ॥
3.3.457 · p. 255
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 चा (syllables merged)
सूपे च पाकपात्रे या कटाहो महिषीशिशौ ।खड्गकोषे व कलहो दात्यूहश्चातकेऽपि च ॥ ४५८ ॥
3.3.458 · p. 255
अनुष्टुप्
समारम्भे च पटहो ब्रह्मण्यपि पितामहः ।प्रवाहो व्यवहारे च बहुर्विपुलसङ्ख्ययोः ॥ ४५९ ॥
3.3.459 · p. 255
अनुष्टुप्
वराहः सूकरे मेघे मुस्तकेऽप्यथ मूर्च्छने ।अविद्यायाञ्च मोहः स्याद्वृषस्कन्धेऽनिले वहः ॥ ४६० ॥
3.3.460 · p. 256
अनुष्टुप्
देहनिर्माणसैन्येषु व्यूहः स्यादथ विग्रहः ।सङ्ग्रामे प्रविभागे च देहावतारयोरपि ॥ ४६१ ॥
3.3.461 · p. 256
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
वैदेही पिप्पलीसीतावणिक्स्त्रीरोचनास्वपि ।संक्षेपेऽपि सङ्ग्रहः स्यात् सिंह्यौ वार्त्ताकवासकौ ॥ ४६२ ॥
3.3.462 · p. 256
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 पि (wrong syllable)
राशिभेदे हरौ सिंहः श्रेष्ठार्थे चोत्तरस्थितः ।सौहृदै घृततैलादौ स्यात्स्नेहोऽप्यव्ययाः परे ॥ ४६३ ॥
3.3.463 · p. 257
अनुष्टुप्
इति हान्ताः ।