All kośas › Śivakoṣa
शिवकोष Śivakoṣa
587 verses · 4,629 words tagged · 786 marked doubtful (dashed)
रान्ताः · रत्रिः
गुडायामस्थिसंहारेऽप्यवरं तु सुगन्धिके ।कर्पासेऽप्यगुरु क्लीबं शिंशपायां च जोङ्गके ॥ ३९३ ॥
22.3.393 · p. 36
अनुष्टुप्
करीरे गूढपत्रे च न स्त्री वंशस्य कन्दले ।कच्छुरा शुकशिम्बायां शटीद्रुस्पर्शयोरपि ॥ ३९४ ॥
22.3.394 · p. 36
अनुष्टुप्
कर्चूरो गन्धमूले स्यात्कर्चूरं नटमण्डने ।कबरी बर्बरापृथ्व्योः कलिद्रुः श्रीनिवासिके ॥ ३९५ ॥
22.3.395 · p. 36
अनुष्टुप्
भूतावसे च काश्मीरं कुङ्कुमे पुण्यसागरे ।कुमारी तरणीवन्ध्यावनमाल्यसहासु च ॥ ३९६ ॥
22.3.396 · p. 36
अनुष्टुप्
श्वेतस्पन्दामहाजम्ब्वोः कुमारो वरुणे नरि ।कुञ्जरा मदनीयायां पाटलायां च केसरः ॥ ३९७ ॥
22.3.397 · p. 36
अनुष्टुप्
किञ्जल्के स्त्री पुमान् तुङ्गे मुकुरे पुष्पकेसरे ।सूपधूपनके क्लीबं खपुरः पूगमुस्तयोः ॥ ३९८ ॥
22.3.398 · p. 36
अनुष्टुप्
खर्जूरस्तु द्वयोः सिन्द्यां तालपत्र्यां तु सा स्त्रियाम् ।खदिरा शाकभेदे स्यात्खदिरो दन्तधावने ॥ ३९९ ॥
22.3.399 · p. 36
अनुष्टुप्
गण्डीरी मत्स्यगन्धायां शाकभिद्वज्रयोः पुमान् ।जम्बीरः प्रस्थपुष्पे च जम्भले शाकभिद्यपि ॥ ४०० ॥
22.3.400 · p. 36
अनुष्टुप्
त्वक्पत्री हिङ्गुपत्र्यां च त्वक्पत्रं तु गुडत्वचि ।त्वक्सारस्तु शणे वंशे तुवर्यन्नमृदोर्भिदि ॥ ४०१ ॥
22.3.401 · p. 36
अनुष्टुप्
द्रुभेदे नागरं विश्वे मुस्ते देव्यां तु नागरी ।निर्जरा तालपर्ण्यां च वत्सादन्यां शिवाफले ॥ ४०२ ॥
22.3.402 · p. 37
अनुष्टुप्
पवित्रः खदिरे दर्भे पत्तूरे लोहमारके ।रक्तकाष्टेऽपि पङ्कारः शैवले जलकुब्जके ॥ ४०३ ॥
22.3.403 · p. 37
अनुष्टुप्
पापीरो भक्तसिक्थे स्यात् कदम्बस्य च केसरे ।पीतद्रुः पुंसि गौराभपीतचन्दनयोरपि ॥ ४०४ ॥
22.3.404 · p. 37
अनुष्टुप्
पुष्करं न द्वयोः पुण्यसागरे पङ्कजेऽपि च ।पौष्करं पद्मबीजे स्यान्मूले पुष्करकस्य च ॥ ४०५ ॥
22.3.405 · p. 37
अनुष्टुप्
भक्षरः स्वर्जिकाक्षारे गण्डाख्यलवणेऽपि च ।मसूरा मसुरा चापि त्रिविद्धान्यविशेषयोः ॥ ४०६ ॥
22.3.406 · p. 37
अनुष्टुप्
मसूरमसुरौ पुंसि द्वावेतावपि चैतयोः ।मधुरं विषे स्त्रियां द्राक्षामिश्रेयामागधीषु च ॥ ४०७ ॥
22.3.407 · p. 37
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
महाशतावरीमेदामधूलीयष्टिकास्वपि ।मधुवल्यामथो पुंसि जीवन्तचिरजीवयोः ॥ ४०८ ॥
22.3.408 · p. 37
अनुष्टुप्
मन्दारः पारिभद्रेऽर्कपर्णे देवमहीरुहे ।रुधिरा रोचनायां च रुधिरं कुङ्कुमेऽसृजि ॥ ४०९ ॥
22.3.409 · p. 37
अनुष्टुप्
बदरः कुन्तलीशाकतिलपर्ण्याह्वशाकयोः ।बदरी कौल्यकर्पास्योर्बदरं तु फले तयोः ॥ ४१० ॥
22.3.410 · p. 37
अनुष्टुप्
बदरा तूलबदरीविष्णुक्रान्तारसासु च ।बर्बरस्त्वजगन्धायां फञ्ज्यां वोले तु बर्बरम् ॥ ४११ ॥
22.3.411 · p. 37
अनुष्टुप्
वल्लूरा त्रिषु संशुष्कमांसशूकरमांसयोः ।वशिरं सिन्धुलवणे ना त्वाघाटगजाह्वयोः ॥ ४१२ ॥
22.3.412 · p. 37
अनुष्टुप्
वानीरः कपिचूते रथे विदारीक्षुगन्धायाम् ।सौम्यायां च विचित्रो वरचित्रे चित्रशोके च ॥ ४१३ ॥
22.3.413 · p. 37
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 7 न्धा (wrong syllable); pāda 4, syllable 7 के (wrong syllable)
शम्बरी स्यादाखुकर्ण्यां शम्बर्यां वालके जले ।शाबरी शुकशिम्बायां शाबरः शबरोद्भवे ॥ ४१४ ॥
22.3.414 · p. 38
अनुष्टुप्
शिलीन्ध्रं कवके क्लीबं कदल्याः कुसुमेऽपि च ।शिशिरं चन्दने चन्द्रे सङ्गरस्तु हलाहले ॥ ४१५ ॥
22.3.415 · p. 38
अनुष्टुप्
शमीफले तु क्लीबं स्यात्सामुद्रं लवणाब्धिजे ।अम्बरोऽट्टविलासिन्यां सिन्दूरं नागसम्भवे ॥ ४१६ ॥
22.3.416 · p. 38
अनुष्टुप्
सिन्दूरी रोचनारक्तबीजिकाधातुकीषु च ।सौवीरं काञ्जिके स्त्रोतोञ्जने च बदरीफले ॥ ४१७ ॥
22.3.417 · p. 38
अनुष्टुप्
हरिद्रा स्यान्निशादार्व्योः पुंसि धूलीकदम्बके ।हिण्डीरं दाडिमे नाब्धिकफे वङ्गे तु न स्त्रियाम् ॥ ४१८ ॥
22.3.418 · p. 38
अनुष्टुप्