पादपूरण
pādapūraṇaIn 6 kośas: 0 synonym verses, 19 as a meaning of another word.
पादपूरण as a meaning in nānārtha verses
- धरणिकोश तुतु पादपूरणे मेदे समुच्चयेऽवधारणे । अस्तु स्यादभ्यनुज्ञाने ईर्ष्यापी[111]डार्थयोरपि ॥ Dharaṇikośa 34.7.3
- धरणिकोश वैवि श्रेष्ठातीतनानार्थो बिः स्यात्पक्षी त्वनव्ययम् । वै स्यात्संबोधने पादपूरणेऽनुनयेऽपि च ॥ Dharaṇikośa 34.13.2
- धरणिकोश स्मस्म पादपूरणेऽतीते उं प्रश्नेऽङ्गीकृतौ रुषि ॥ Dharaṇikośa 34.15.1
- धरणिकोश हह स्यात्संबोधने पादपूरणेऽनव्ययं शिवे । हा शोके [च] विषादे च दुःखार्थे च स्मृतो बुधैः ॥ Dharaṇikośa 34.21.2
- शब्दरत्नावली उउ पादपूरणे रोषे सम्बोधनविषादयोः ॥ Śabdaratnāvalī 8.1.6
- शब्दरत्नावली चचात्योन्यार्थे समाहारेऽन्वाचये पादपूरणे । समुच्चये च निर्द्वन्द्वे पक्षान्तरेऽवधारणे ॥ किञ्च पक्षान्तरारम्भसाकल्यपूर्वदूषणे । प्राक् पूर्वानन्तराग्रेषु प्रभावातीतयोरपि ॥ दिग्देशकालभेदेषु क्रमप्राप्तावपि स्मृतम् । तिर्यक् तिरोऽर्थे वक्रार्थे विरुद्धार्थेऽपि दृश्यते ॥ ननु च प्रश्नदुष्टोक्तयोः सम्यग्दृढप्रतिज्ञयोः ॥ Śabdaratnāvalī 8.1.18
- शब्दरत्नावली तुतु पादपूरणे भेदे समुच्चयेऽवधारणे ॥ Śabdaratnāvalī 8.1.22
- शब्दरत्नावली उतनिदर्शनसमाप्त्योश्च प्रकारे च प्रकाशने । उत प्रश्ने वितर्के च विकल्पे पादपूरणे ॥ Śabdaratnāvalī 8.1.24
- शब्दरत्नावली स्वित्अस्ति सम्भाषणे सत्ये विद्यमानेऽन्तिकेऽपि च । स्वित्पादपूरणे तर्के दूषणाख्यानयोरपि ॥ Śabdaratnāvalī 8.1.27
- शब्दरत्नावली वैवि स्याद्विगतनानार्थश्रेष्ठार्थेषु समुच्चये । वै पादपूरणे सत्यानुनयामन्त्रणेषु च ॥ Śabdaratnāvalī 8.1.46
- शब्दरत्नावली स्ममा विकल्पे वारणे स्यात्स्मातीते पादपूरणे ॥ मा स्म स्यान्मङ्गले तथ्ये वारणेऽन्यकृतावपि । अमासहार्थे रश्म्यर्थे निकरार्थे रसार्थके ॥ अज्ञाते विस्मये स्मृत्यामुद्यमार्थे निगद्यते । उं प्रश्ने चाभ्युपगमे क्रोधे च कोपगर्जिते ॥ ऊं पृच्छायामपक्रोशे रोषोक्तौ दम्भभाषिते । उमङ्गीकारकल्याणप्रणवोपक्रताह्वये ॥ Śabdaratnāvalī 8.1.48
- शब्दरत्नावली कम्कं पादपूरणे नीरे मस्तके मङ्गले सुखे । किं निषेधे वितर्के च सन्देहे प्रश्नकृत्स्न्योः ॥ Śabdaratnāvalī 8.1.49
- शब्दरत्नावली हह पादपूरणे कुत्सानियोगक्षेपनिग्रहे । हा विषादे शोककुत्सादुःखार्थेषु निगद्यते । हि सम्भ्रमासूययोः स्यात्पादपूरणशोकयोः ॥ Śabdaratnāvalī 8.1.61
- शब्दरत्नावली अहोअह कोपे प्रशंसायां नियोगे च विनिग्रहे । अहो धिगर्थे शोके च करुणार्थविषादयोः ॥ सम्बोधने प्रशंसायामाश्चर्ये पादपूरणे । असूयायां वितर्के च खेदाख्याने निगद्यते ॥ Śabdaratnāvalī 8.1.64
- शब्दरत्नाकर हतद्धेतौ त्रिष्वमुष्मिन् स्याद् यद्धेतौ प्रकृते त्रिषु । ह हि तु स्म च वै पादपूरणेऽपि प्रयुज्यते ॥ २२५९ ॥ Śabdaratnākara 5.1.2259
- तन्त्राभिधान हलक्ष्मीर्ब्रह्मा हरिः शम्भुः प्राणशक्तिर्ललाटजः । ----------------------------------- स्व(स)कोपवारणः शूली चैतन्यं पादपूरणः ॥ १६५ ॥ Tantrābhidhāna 2.50.165
- त्रिकाण्डशेष अङ्गपुनरर्थेऽङ्ग भोर्थे च दुष्ट्यर्थप्रशंसयोः । पादपूरणे पक्षान्तरे हेतौ विनिश्चये ॥ ४६५ ॥ Trikāṇḍaśeṣa 3.3.465
- वैजयन्ती हतद्धेतौ त्रिष्वमुष्मिन् स्याद्यद्धेतौ प्रगते त्रिषु । ह ह्यु तु स्म च वै पादपूरणेऽपि प्रयुंजते ॥ ११ ॥ Vaijayantī 8.7.11
- वैजयन्ती एवपादपूरणकृच्चायमेवं साम्याभ्यनुज्ञयोः । कच्चित् प्रश्ने कामवादे वार्तासंभाव्ययोः किल ॥ १९ ॥ Vaijayantī 8.7.19