कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कम्

kamअ · indecl.

In 6 kośas: 6 synonym verses, 5 as a nānārtha head word.

कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.12 · p. 345
दैव्यं सलं विषं यादः पर्यायेभ्यो गृहार्थकम् ।ऋतमापो बन्धकं षण् न ना वारि कमव्ययम् ॥ १२ ॥
अनुष्टुप्
genderअindecl.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ परमात्मवर्गः Koṣakalpataru 1.1.45 · p. 6
रिष्टं हितं शर्म सुखं प्रियं चजोषं च कं शं मतमव्ययाह्वम् ।त्रिष्वानु[5a]कूल्येन सुखादिकारीप्रियाकरोऽसौ च सुखाकरश्च ॥ ४५ ॥
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 2, syllable 1 प्रि (wrong syllable)
genderअindecl.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ अव्ययवर्गः Koṣakalpataru 5.1.17 · p. 121
आनुकूल्ये प्राध्वमथ प्रसह्यार्यहलं हठे ।निःषमं दुःषमं दुष्ठु दुर्दुरोऽपष्ठु निन्दिते ।क्व धिगादह हुं कु अवकीक्र(?)च कुत्सन[238a]वाचिनः ।रुषोक्तौ कुं मुं च रोषे त्वा आं स्यात्तुंकृतौ तु तुम् ।चटु चाटु प्रिये ********** ।तु-पुनर्वैवमेवाद्धा षण्निर्द्धारणवाचकाः ।शङ्के मन्ये तु कं हुं स्वित्किं किमूतापि च ध्रुवम् ।आहो उताहो आहोस्वित्किमुतोत तथा किमु ॥ १७ ॥
अनुष्टुप्metre not read in every line
genderअindecl.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ अव्ययवर्गः Koṣakalpataru 5.1.34 · p. 123
पादपूर्तौ चापि तथा तु हि च स्महवैद्यकम् ।यथा कथा च रै एतदनादरसमार्थकम् ॥ ३४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 चा (wrong syllable)
genderअindecl.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.321 · p. 103
उत्तमाङ्गं कं शिरञ्च कञ्चापि मान्तव्ययम् ।चिकुरः कचवालौ च केशकुन्तलकुञ्जराः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 4 मा (syllables merged)
genderअindecl.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पातालाध्यायः Śabdaratnākara 1.10.318 · p. 43
अम्भःपुष्करवारितोयजलवाःपाथोवनार्णःपयः-पनीयोदकमेघपुष्पसलिलक्षीराम्बुनीरामृतम् ।कीलालं भुवनं कबन्धकमले तज्जीवनं शम्बरंनारः पुंसि कमव्यये धनरसो नापस्तु भूम्नि स्त्रियाम् ॥ ३१८ ॥
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्: pāda 2, syllable 1 प (wrong syllable)
genderअindecl.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.488
अमा सह समीपे च कं वारिणि च मूर्धनि ।
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ अव्ययवर्गः Koṣakalpataru 5.1.6 · p. 131
कं कल्याणशिरोम्बुरुक्पुनरु[245a]रीकारानुयोगार्थयोःपृच्छा-गर्हणयोस्तु किं स्म तु गते कालेऽङ्घ्रिपूर्तावपि ।स्वाच्छन्द्येऽनुमतौ च काममुदितं स्यात्सामि निन्दा-र्धयो-र्नूनं निश्चित-तर्कयोरनुनय-क्रोधोक्तितर्केषु हूम् ॥ ६ ॥
शार्दूलविक्रीडितम्metre not read in every line
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 1.5.2 · p. 7
अजयस्तु शरीरेऽपि पुंस्येवैनमभाषत ।कं नाम्न्यप्सु सुखे मूर्ध्नि गूर्ना यत्ने गुदे स्त्रियाम् ॥ २ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नानार्थवर्गः Śabdaratnāvalī 8.1.49 · p. 303
कं पादपूरणे नीरे मस्तके मङ्गले सुखे ।किं निषेधे वितर्के च सन्देहे प्रश्नकृत्स्न्योः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अव्ययैकाक्षराध्यायः Śabdaratnākara 5.1.2251 · p. 273
ए दुःखभावने कोपे प्रत्यक्षे सन्निधावपि ।ॐ स्याद्ब्रह्मण्यनुज्ञायां कं सुखेऽम्भसि मूर्धनि ॥ २२५१ ॥
अनुष्टुप्