All kośas › Dharaṇikośa
धरणिकोश Dharaṇikośa
1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)
अव्ययवर्गः · तान्ताः
॥ तपादः ॥
स्वित्प्रश्ने च वितर्के स्यादाराद्दूरसमीपयोः ।सकृत्सहैकवारे स्यात्साक्षात्प्रत्यक्षतुल्ययोः ॥
34.7.1 · p. 236
अनुष्टुप्
स्वस्त्याशीःक्षेमपुण्यादौ शश्वत्पुनःसदार्थयोः ।किमुतातिशये प्रश्ने यद्वत्प्रश्नवितर्कयोः ॥
34.7.2 · p. 236
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त्पु (wrong syllable)
॥ तार्धश्लोकः ॥
तु पादपूरणे मेदे समुच्चयेऽवधारणे ।अस्तु स्यादभ्यनुज्ञाने ईर्ष्यापी[111]डार्थयोरपि ॥
34.7.3 · p. 236
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च्च (wrong syllable)
हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः ।बत मन्त्रणसंतोषखेदानुक्रोशविस्मये ॥
34.7.4 · p. 236
अनुष्टुप्
उत्प्रश्ने च वितर्के स्यादुताप्यर्थविकल्पयोः ।पश्चादनन्तरार्थे स्यात्प्रतीच्यां चरमेऽपि च ॥
34.7.5 · p. 236
अनुष्टुप्
यावत्तावत्परिच्छेदे कार्त्स्न्ये मानेऽवधारणे ।पुरस्ताच्चतुर्षु प्राच्यां पुरार्थे प्रथमेऽग्रतः ॥
34.7.6 · p. 237
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 तु (wrong syllable)
॥ तश्लोकः ॥
प्रति प्रतिनिधौ वीप्सालक्षणादौ प्रयोगतः ।मात्रार्थे चाभिमुख्ये च प्रतिदानादिषु प्रति ॥
34.7.7 · p. 237
अनुष्टुप्
अतिशब्दः प्रशंसायां प्रकर्षे लङ्घनेऽप्यति ।नितान्तासंप्रतिक्षेपवाक्येऽप्येष सुसम्मतः ॥
34.7.8 · p. 237
अनुष्टुप्