कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Dharaṇikośa

धरणिकोश Dharaṇikośa

1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)

अव्ययवर्गः · मान्ताः

॥ मपादः ॥

स्म पादपूरणेऽतीते उं प्रश्नेऽङ्गीकृतौ रुषि ॥
34.15.1 · p. 240
हुं वितर्के परिप्रश्ने किंशब्दः प्रश्नतर्कयोः ।कामं प्रकामेऽनुमतौ प्राध्वं नर्मानुकूलयोः ॥
34.15.2 · p. 240
अनुष्टुप्

॥ मार्धश्लोकः ॥

ओमित्यनुमतौ प्रोक्तं परमे चाप्यनुक्रमे ।सं सङ्गार्थः प्रकृष्टार्थो आरम्भः शोभनार्थकः ॥
34.15.3 · p. 240
अनुष्टुप्
अलं भूषणपर्याप्तिवारणेषु स्मृत[मलम्] ।एवं प्रकारोपमयोरङ्गीकारेऽवधारणे ॥
34.15.4 · p. 240
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 त (wrong syllable)
जोषं सुखे प्रशंसायां तूष्णींलङ्घनयोरपि ।साम्प्रतं तु द्वयोरेव [स्याद्यु]क्तार्थाधुनार्थयोः ॥
34.15.5 · p. 241
अनुष्टुप्

॥ मश्लोकः ॥

अभीक्ष्णमनिशं प्रोक्तमभीक्ष्णं स्या… ।पौनःपौन्यमभीक्ष्णं [स्यादभीक्ष्णं] च भृशार्थकम् ॥
34.15.6 · p. 241
अनुष्टुप्metre not read in every line
तूष्णीकं तु स्मृतं मौने मौनशीलं त्वनव्ययम् ।… ॥
34.15.7 · p. 241
अनुष्टुप्metre not read in every line