All kośas › Śabdaratnākara
शब्दरत्नाकर Śabdaratnākara
2,335 verses · 19,015 words tagged · 2,063 marked doubtful (dashed)
अव्ययाध्यायः · अव्ययैकाक्षराध्यायः
इति वत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरे अनेकार्थाधिकारे एकाक्षराध्यायः ॥
अव्ययैकाक्षराध्यायः
एकाक्षराननेकार्थानुक्तवा लिङ्गसमन्वितान् ।निर्लिङ्गानव्ययानत्र प्रोच्यन्तेऽथ यथाक्रमम् ॥ २२४९ ॥
5.1.2249 · p. 273
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
आङ् ईषदर्थेऽभिविधौ सीम्नि कर्मविशेषणे ।आ प्रगृह्ये स्मृतौ वाक्येऽप्यास्तु संतापकोपयोः ॥ २२५० ॥
5.1.2250 · p. 273
अनुष्टुप्
ए दुःखभावने कोपे प्रत्यक्षे सन्निधावपि ।ॐ स्याद्ब्रह्मण्यनुज्ञायां कं सुखेऽम्भसि मूर्धनि ॥ २२५१ ॥
5.1.2251 · p. 273
अनुष्टुप्
प्रश्ने क्षेपे विकल्पे किं कुः पापेऽल्पार्थकुत्सयोः ।चान्वाचये समाहारे मिथोयोगे समुच्चये ॥ २२५२ ॥
5.1.2252 · p. 273
अनुष्टुप्
तुर्भेदावधारणयोर्दुरशोभनदुःखयोः ।धिग्भर्त्सने कुत्सने च नि न्यग्भावनिषेधयोः ॥ २२५३ ॥
5.1.2253 · p. 273
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 व (wrong syllable)
नाभावान्यविरोधेषु निर्निश्चयनिषेधयोः ।प्रश्ने विकल्प नु स्विच्च प्रादौ यात्राप्रकृष्टयोः ॥ २२५४ ॥
5.1.2254 · p. 273
अनुष्टुप्
वि निषेधे पृथग्भावे वा विकल्पोपमानयोः ।समुच्चये च वै पापे वाक्यारम्भप्रसिद्धयोः ॥ २२५५ ॥
5.1.2255 · p. 273
अनुष्टुप्
समभेदे समीचीने सुष्ठुपूजासुखेषु सु ।स्मृतौ वृत्ते निषेधे स्म स्वः स्वर्गपरलोकयोः ।हि स्याद्विशेषणे हेतौ हिं हेताववधारणे ॥ २२५६ ॥
5.1.2256 · p. 273
अनुष्टुप्
आमन्त्रणे भर्त्सने हुं हुं संप्रश्नवितर्कयोः ।ही विषादे विस्मये च हा विषादशुगर्तिषु ॥ २२५७ ॥
5.1.2257 · p. 274
अनुष्टुप्
उ तापेऽव्ययमीशे ना मा निषेधे श्रियां स्त्रियाम् ।अ निषेधे पुमान्विष्णौ वि विचित्रे स्मरे पुमान् ॥ २२५८ ॥
5.1.2258 · p. 274
अनुष्टुप्