All kośas › Vaijayantī
वैजयन्ती Vaijayantī
3,226 verses · 24,961 words tagged · 3,914 marked doubtful (dashed)
शेषकाण्डः · अनेकार्थाव्ययाध्यायः
इति भगवता यादवप्रकाशेन विरचिताय वैजयन्त्यां शेषकाण्डे पर्यायसंयोगन्यायप्रदर्शनाध्यायः
उक्ता लिंगान्विताः शब्दा निर्लिङ्गान्यव्ययान्यतः ।आङीषदर्थेऽभिविधौ सीम्नि कर्मविशेषणे ॥ १ ॥
8.7.1 · p. 284
अनुष्टुप्
आ प्रगृह्यः स्मृतौ वाक्य आस्तु सन्तापकोपयोः ।ऐ दुःखभावने कोपे प्रत्यक्षे सन्निधावपि ॥ २ ॥
8.7.2 · p. 284
अनुष्टुप्
ओं स्याद्ब्रह्मण्यनुज्ञायां के सुखेंऽभसि मूर्ध्नि च ।प्रश्ने क्षेपे विकल्पे किं कु पापेऽल्पार्थकुत्सयोः ॥ ३ ॥
8.7.3 · p. 284
अनुष्टुप्
चान्वाचये समाहारे मिथोयोगे समुच्चये ।तु भेदावधारणयोर्दुरशोभनदुःखयोः ॥ ४ ॥
8.7.4 · p. 284
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 व (wrong syllable)
धिक् भर्त्सने कुत्सने च नि न्यग्भावनिकामयोः ।नाभावान्यविरोधेषु निर्निर्णयनिषेधयोः ॥ ५ ॥
8.7.5 · p. 284
अनुष्टुप्
प्रश्ने विकल्पे नु स्विच्च प्रादौ यात्राप्रकृष्टयोः ।वि निषेधे पृथग्भावे वा विकल्पोपमानयोः ॥ ६ ॥
8.7.6 · p. 284
अनुष्टुप्
समुच्चये च वै पापे वाक्यारंभप्रसिद्धयोः ।स्मृतौ वृत्ते निषेधे स्म स्वः स्वर्गपरलोकयोः ॥ ७ ॥
8.7.7 · p. 284
अनुष्टुप्
समभेदे समीचीने सुष्ठुपूजासुखेषु सु ।प्रत्यारंभे प्रसिद्धौ ह हा विषादशुगार्तिषु ॥ ८ ॥
8.7.8 · p. 284
अनुष्टुप्
हिं स्याद्विशेषणे हेतौ हि हेताववधारणे ।आमन्त्रणे भर्त्सने हुं हूं संप्रश्नवितर्कयोः ॥ ९ ॥
8.7.9 · p. 284
अनुष्टुप्
उ तापेऽव्ययमीशे ना मा निषेधे श्रियां स्त्रियाम् ।अ निषेधे पुमान्विष्णावि विचित्रे स्मरे पुमान् ॥ १० ॥
8.7.10 · p. 284
अनुष्टुप्
तद्धेतौ त्रिष्वमुष्मिन् स्याद्यद्धेतौ प्रगते त्रिषु ।ह ह्यु तु स्म च वै पादपूरणेऽपि प्रयुंजते ॥ ११ ॥
8.7.11 · p. 284
अनुष्टुप्
इति एकाक्षराः
अमा सहार्थे सामीप्येऽप्यद्धा प्रत्यक्षसत्ययोः ।अयि प्रश्ने सानुनये विनियोगे क्रियास्वह ॥ १२ ॥
8.7.12 · p. 285
अनुष्टुप्
पीडेर्ष्यानुमतिष्वस्तु स्यादध्यधिक ईश्वरे ।अलं तु भूषणे शक्तौ पर्याप्तौ विनिवारणे ॥ १३ ॥
8.7.13 · p. 285
अनुष्टुप्
अपि संभावनाप्रश्नगर्हाशङ्कासमुच्चये ।अथाथोऽनन्तराप्यर्थविकल्पारंभमंगले ॥ १४ ॥
8.7.14 · p. 285
अनुष्टुप्
अति स्यादधिकार्थोक्तौ प्रशंसायामतिक्रमे ।पश्चाद्धेतूनसाम्येषु भागे वीप्साप्रकारयोः ॥ १५ ॥
8.7.15 · p. 285
अनुष्टुप्
लक्षणेऽप्यनु वीप्सादित्रयेऽप्यभिमुखेप्यभि ।अतो निन्दाहेतुचित्रेष्वाराद्दूरसमीपयोः ॥ १६ ॥
8.7.16 · p. 285
अनुष्टुप्
इति हेतुप्रकरणप्रकारादिसमाप्तिषु ।विस्तारेंऽगीकृतावूरी स्यादुरर्यूररी यथा ॥ १७ ॥
8.7.17 · p. 285
अनुष्टुप्
उपाधिकेऽन्तिके हीनेऽप्युत प्रश्नविकल्पयोः ।समुच्चयेऽनुमत्यां चाप्येव साम्येऽवधारणे ॥ १८ ॥
8.7.18 · p. 285
अनुष्टुप्
पादपूरणकृच्चायमेवं साम्याभ्यनुज्ञयोः ।कच्चित् प्रश्ने कामवादे वार्तासंभाव्ययोः किल ॥ १९ ॥
8.7.19 · p. 285
अनुष्टुप्
निषेधे वागलंकारे ज्ञीप्सनेऽनुनये खलु ।तूष्णीमर्थे सुखे जोषं तर्हि स्यात्प्रश्न उत्तरे ॥ २० ॥
8.7.20 · p. 285
अनुष्टुप्
तथा समुच्चये साम्ये परमार्थाभ्यनुज्ञयोः ।तिरोऽन्तर्धौ तिरश्चीने दिष्ट्या स्यान्मङ्गलादिषु ॥ २१ ॥
8.7.21 · p. 285
अनुष्टुप्
तर्कनिश्चितयोर्नूनं नानानेकोभयार्थयोः ।प्रश्नावधारणैतिह्यसमीहानुमते ननु ॥ २२ ॥
8.7.22 · p. 285
अनुष्टुप्
नाम प्रकाश्यसंभाव्यक्रोधोपगमकुत्सने ।प्रबन्धे निकटेऽतीते पुराणेऽनागते पुरा ॥ २३ ॥
8.7.23 · p. 285
अनुष्टुप्
पुनरप्रथमे प्रश्ने व्यावृत्ताववधारणे ।प्रतिदाने प्रतिनिधौ तुल्ये मात्राभिमुख्ययोः ॥ २४ ॥
8.7.24 · p. 285
अनुष्टुप्
भागे प्रकारकथने वीप्सायां लक्षणे प्रति ।भागादिष्वेषु परि च वर्जनेऽप्यपवत् परि ॥ २५ ॥
8.7.25 · p. 286
अनुष्टुप्
परा निहीनेऽनावृत्तौ बत त्वामन्त्रणेऽद्भुते ।तोषे खेदे कृपायां च बाढं त्वनुमते भृशे ॥ २६ ॥
8.7.26 · p. 286
अनुष्टुप्
मुहुः क्षणेऽनुक्षणे च मिथोऽन्योन्यरहस्ययोः ।यथा सादृश्ययोग्यत्ववीप्सास्वर्थानतिक्रमे ॥ २७ ॥
8.7.27 · p. 286
अनुष्टुप्
यावत्तावच्च साकल्यमानावध्यवधारणे ।वृथा निष्कारणाविध्योः शश्वद्भूः सदेति च ॥ २८ ॥
8.7.28 · p. 286
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
सकृत् सदैकवारे च सामि स्यादर्धनिन्दयोः ।स्वस्ति मङ्गलनिष्पापक्षेमेष्वाशीर्वचस्यपि ॥ २९ ॥
8.7.29 · p. 286
अनुष्टुप्
साक्षात्प्रत्यक्षसदृशोः पृथगर्थेऽन्तिके हिरुक् ।वाक्यारंभेऽनुकंपायां हन्त हर्षविषादयोः ॥ ३० ॥
8.7.30 · p. 286
अनुष्टुप्
इति द्व्यक्षराः
अञ्जसा त्वरिते तत्वेऽप्यहहाद्भुतखेदयोः ।समीपोभयतः शीघ्रसाकल्याभिमुखेऽभितः ॥ ३१ ॥
8.7.31 · p. 286
अनुष्टुप्
रहस्येऽर्थ उपांशु स्यादश्रुतोच्चारणेऽपि च ।परितोऽन्तिके सर्वतोऽर्थे पूर्वेद्युः प्रत्युषेऽपि च ॥ ३२ ॥
8.7.32 · p. 286
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पुरस्तात्पूर्वदिश्यग्रे पुराप्रथमयोरपि ।शीघ्रे सपदि सद्योऽर्थे समयान्तिकमध्ययोः ॥ ३३ ॥
8.7.33 · p. 286
अनुष्टुप्
सद्योऽर्थे सहसा हेतुशून्ये युक्तेऽपि सांप्रतम् ।
8.7.34 · p. 286