अङ्ग
aṅgaक्ली · neut.In 18 kośas: 46 synonym verses, 13 as a nānārtha head word, 15 as a meaning of another word.
दोहदं दौर्हृदं श्रद्धा लालसा सूतिमासि तु ।वैजननो विजननं प्रसवो नन्दनः पुनः ॥ ५४१ ॥उद्वहोऽङ्गात्मजः सूनुस्तनयो दारकः सुतः ।पुत्रे दुहितरि स्त्रीत्वे तोकापत्यप्रसूतयः ॥ ५४२ ॥तुक्प्रजोभयोर्भ्रात्रीयो भ्रातृव्यो भ्रातुरात्मजे ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 न (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 5 यो (wrong syllable)
genderक्लीneut.doubtful
इन्द्रियायतनमङ्गविग्रहौ क्षेत्रगात्रतनुभूघनास्तनूः ।मूर्तिमत्करणकायमूर्तयो वेरसंहननदेहसंचराः ॥ ५६३ ॥घनो बन्धः पुरं पिण्डो वपुः पुद्गलवर्ष्मणी ।कलेवरं शरीरेऽस्मिन्नजीवे कुणपं शवः ॥ ५६४ ॥मृतकं रुण्डकबन्धौ त्वपशीर्षे क्रियायुजि ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 क (wrong syllable)
genderक्लीneut.
genderक्लीneut.doubtful
genderपुंmasc.
संबोधनेऽङ्ग भोः पाट् प्याट् हे है हंहोऽरे रेऽयि च ॥ १५३७ ॥
metre not recognised
genderअindecl.
genderक्लीneut.
अङ्गं प्रतीकोऽवयवोऽपघनोऽथ कलेवरम् ।गात्रं वपुः संहननं शरीरं वर्ष्म विग्रहः ॥ ७० ॥कायो देहः क्लीबपुंसोः स्त्रियां मूर्तिस्तनुस्तनूः ।
अनुष्टुप्
genderक्लीneut.
तिर्यगर्थे साचि तिरोऽप्यथ सम्बोधनार्थकाः ॥ ६ ॥स्युः प्याट्पाडङ्ग हे है भोः समया निकषा हिरुक् ।
अनुष्टुप्metre not read in every line
genderअindecl.
genderअindecl.
तनुस्तनूः संहननं शरीरं,कलेवरं विग्रहदेहकायाः ।अङ्गं वपुर्वर्ष्म पुरं च पिण्डं,क्षेत्रं च गात्रं च घनश्च मूर्तिः ॥ ५१० ॥
उपजातिः
genderक्लीneut.
आहुः प्रतीकमवयवमपघनमङ्गं तथैकदेशं च ।उल्वणमुद्धतमुद्भटमुत्कटमिति नातिनानार्थाः ॥ ७४४ ॥
आर्या
genderक्लीneut.
रुद्राक्षास्तन्नेत्राण्यङ्गोपाङ्गानि जिनमतोक्तानि ।एकादश ध्रुवं स्युस्तथा जिनोपासकप्रतिमाः ॥ २१ ॥
metre not recognised
genderक्लीneut.
अङ्गं क्लीबे तनुः सान्तं गात्रं पञ्जरमस्त्रियाम् ।स्कन्धश्च संचरो न स्त्री शरीरं कायमस्त्रियाम् ॥ १३० ॥
अनुष्टुप्
genderक्लीneut.
देहोऽस्त्री स्थानकं बेरं पुंस्यात्मा चाथ न द्वयोः ।गात्राङ्गे पुंस्यवयवः प्रतीकोपघनोऽपि च ॥ १३१ ॥
अनुष्टुप्
genderक्लीneut.doubtful
सामीप्येऽथान्तरे साचि तिर्यगर्थे विवादिते ।सहसाऽथाङ्ग हे है भोः प्याट् पाडथ पुरोग्रतः ॥ १० ॥
अनुष्टुप्
genderअindecl.
तद्वच्चित्तकरुचककुलकानां स्फिगस्य च ।स्वलिङ्गाङ्गप्रगानां च तद्वत्स्याच्चोचपिञ्जयोः ॥ ९१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 त्त (wrong syllable)
genderक्लीneut.
प्राग्ज्योतिषाः कामरूपा अङ्गार्श्वयो(श्चम्पो)पलक्षिताः ।वङ्गाः स्युर्हरिकेलीयास्त्रैपुरा डाहलाः स्मृताः ॥ ३२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्श्व (wrong syllable)
genderपुंmasc.
पिण्डोऽस्त्री विग्रहः कायः सरः (संचरः) स्कन्धपञ्चरः (रौ) ।अप्तुर्घनो भूघनोऽङ्गमिन्द्रियायतनं पुरम् ॥ ४४ ॥
metre not recognisednearly अनुष्टुप्
genderक्लीneut.
देहार्द्धमर्द्धदेहं च देहादेः स्यात्समेंऽशके ।अङ्गं प्रतीकोऽवयवोऽपघनोऽस्यैकदेशकः ।प्राणस्थानं मर्म चान्ते पीडनाद्यत्र रुग्भवेत् ।अङ्घ्रि[83b]रंह्रिः क्रमः पादः क्रमणश्चलनश्च पद् ॥ ४१ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
मौक्तिकं शौक्तिकं नाणकं नाटकंतोटकं खेटकं खं च लिङ्गं त्रिषु ।अङ्गपिङ्गप्रगं संप्रयोगं स्फिगंसर्वगं चोचवद्बीज-पिञ्जे द्विजम् ॥ ९५ ॥
स्रग्विणी
genderक्लीneut.
इष्टसंबोधनेऽङ्गेति हे है जाल्माभिमन्त्रणे ।हं हो अरे रे नीचानां कोमलामन्त्रणेत्यपि ॥ ३८ ॥
अनुष्टुप्
genderअindecl.doubtful
एतेषां तृतीयाप्रकृतिः तृतीया स्थाने नपुंसकस्य दृष्टत्वात् पातालादीनि तृतीयाप्रकृतीनि विद्धि जानीहि । यथा इदं पातालं रसातलम् । जालं मत्स्यबन्धनं गवाक्षश्च । मलं पापम् । खलं मर्दनस्थानं व्रीहीणाम् । कपालं मस्तकास्थि खण्डं च । शैवालं जलसम्भवम् । शीलं विनयः[य] । नालं पद्मादीनाम् । चीरं जीर्णवस्त्रम् । चीवरं भिक्षाप्रावरणम् । वियदाकाशम् ।मुण्डनितम्बक्षपगुल्मसान्वङ्कवंशपूगशङ्खरथाश्च पुंसि स्युः ।जघनाम्बरफलमूलाङ्गानि तु विमुच्य ॥ ३८ ॥
metre not recognised
genderक्लीneut.doubtful
सवित्री जननी माता जनकः सविता पिता ।देहापघनकायाङ्गं वपुः संहननं तनुः ॥ ३८ ॥
अनुष्टुप्
genderक्लीneut.
अङ्गाश्चम्पोपलक्ष्याः स्युर्मगधाः कीकटाः स्मृताः ।कुमालकाश्च सौवीराश्चेदयश्चैद्यसंज्ञकाः ॥ २४७ ॥
अनुष्टुप्
genderपुंmasc.
अपसव्यप्रतीपेऽपि प्रसव्यं तद्विशेषतः ।वपुरङ्गं तथा सव्यमपसव्यं च दक्षिणे ॥ ३४९ ॥
अनुष्टुप्
genderक्लीneut.
अनूकं कुतुकं तिन्तिडीकं कुलकचित्रके ।छत्राकं खं स्फिगं लिङ्गं प्रगमङ्गं नपुंसके ॥ ८७ ॥
अनुष्टुप्
genderक्लीneut.
अङ्गणे त्वङ्गमसलमजरं चाजिरं तथा ।द्वारे तु प्रतिहारः स्याद्वारिति प्रोच्यते बुधैः ॥ २१ ॥
अनुष्टुप्
genderक्लीneut.
शरीरं विग्रहो देहो गात्रं क्षेत्रं तनुस्तनूः ।अङ्गः कायो वपुर्वर्ष्म मूर्तिर्वेरं कलेवरम् ॥ १९ ॥
अनुष्टुप्
genderपुंmasc.
अङ्गं गात्रं तनुः क्षेत्रं तनूः संहननं सिनम् ।वपुश्च पुद्गलः पिण्डः कायः प्रजनुकः पुरम् ॥ ९०१ ॥
अनुष्टुप्
genderक्लीneut.
genderक्लीneut.doubtful
चम्पोपलक्षिता अङ्गाः ऊक्ता बिहारदेशके ।साल्वाश्च कारकुक्षीयाः साल्वदेशे हि कथ्यते ॥ १६३० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 बि (wrong syllable)
genderपुंmasc.
सम्बोधनेऽङ्ग रे रेरेऽररेऽरे भोस्तथाऽयि च ।हे है हंहो तथाऽहो च पाट् प्याट् पुन र्निगद्यते ॥ २८०० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 पु (wrong syllable)
genderअindecl.
हृन्मानसं मनः स्वान्तं चेतश्चित्तमनङ्गकम् ।अङ्गञ्च हृदयञ्चेति मनःपर्याय ईरितः ॥
अनुष्टुप्
genderक्लीneut.
तथाङ्गं स्यादपघनः प्रतीकावयवौ तथा ।शरीरं विग्रहं वर्ष्म गात्रं संहननं वपुः ॥
अनुष्टुप्
genderक्लीneut.
दोषा नक्तं रजन्यां स्यादहनीत्यर्थे भवेद्दिवा ।हं हो रे रेऽङ्ग पाट्प्याट् हे है भोः सम्बोधवाचकाः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 दह (syllable split)
genderअindecl.
पुनरर्थेऽङ्गरात्र्यन्ते स्यादुषांस्तमदर्शने ।सायं साये प्रशंसायां सुष्ठु स्यात् दुष्ठु निन्दिते ॥
अनुष्टुप्
genderअindecl.
काश्मीरावन्तिमद्रद्रमिडमगधसौवीरकर्णाटलाटाःपाञ्चालाङ्गत्रिगर्ताः कुरुमलदकलिङ्गोत्कलाः कामरूपाः ।लम्पाकाश्चीनगौडा मरुकुकुरमहाराष्ट्रसौराष्ट्रसाल्वाःवङ्गा भङ्गालसुह्माः शकमलभ(य?)विदेहान्ध्रनेपालपुण्ड्राः ॥ ३७६ ॥
स्रग्धरा
genderपुंmasc.
साल्वास्तु कालकुत्सीया अङ्गाश्चम्पोपलक्षणाः ।कुह्मालिकास्तु यौधेया मरवस्तु दशेरकाः ।लम्पाकास्तु मुरुण्डाः स्युर्मालवाः स्युरवन्तयः ॥ ३८५ ॥
अनुष्टुप्
genderपुंmasc.
शरीरमङ्गेऽवयवप्रतीकापघनास्त्रयः ।अस्त्रियामङ्घ्रिचरणौ पादः पत् पदमस्य तु ॥ १०६१ ॥
अनुष्टुप्
genderक्लीneut.
विवस्वान् सप्तगुः केतुः गोषूक्तयङ्गावुपस्तुतः ।अर्चनाना पूतदक्ष एकद्यूश्च महर्षयः ॥ १७७६ ॥
metre not recognisednearly अनुष्टुप्
genderपुंmasc.
संबोधने ननु प्याट् फाट् हे है हो अङ्ग हन्त च ।विरोधोक्तावपि ननु प्रेत्यामुत्र भवान्तरे ॥ २२८५ ॥
अनुष्टुप्
genderअindecl.
शस्तं वपुः पुद्गलं स्यादाङ्गमङ्गं तु कोमलम् ।पायुस्तनुह्रदो मार्ग उच्चारस्तु पुरीषणः ॥ २० ॥
अनुष्टुप्
genderक्लीneut.
आनापजननाडीभ्यो युगमङ्गं पदं व्रणम् ।अनक्षे दुन्दुभिरथ बहुत्वेऽप्यसवो ग्रहाः ।सक्तवो वल्कजालाजा दाराः प्राणा दशा इति ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
देहोऽस्त्री स्त्री तनुर्गात्रं क्षेत्रमङ्गं कलेबरम् ।चतुश्शाखं संहननं शरीरं करणं सिनम् ॥ ५२ ॥
अनुष्टुप्
genderक्लीneut.
गात्राण्यङ्गानि चास्यांशाः प्रतीकापघनावपि ।अंशस्त्ववयवो भाग एकदेशः कलेति च ॥ ५५ ॥
अनुष्टुप्
genderक्लीneut.
विकल्पे किमुताहोस्वित् किमुताहो किमूत च ।संबोधने ननु प्याट् पाट् हे है भो अङ्ग हंत च ॥ २ ॥
अनुष्टुप्
genderअindecl.
तूष्णीं जोषं भवेन्मौने स्म स्यात्संस्मरणादिषु ।अङ्गेत्यामन्त्रणे हं हो भो भो इति च कथ्यते ॥ ८८३ ॥
अनुष्टुप्
meaningsआमन्त्रण
वैयाकरणसंज्ञायां प्रदेशे च नपुंसकम् ।नीवृद्भेदे तु पुंभूम्नि तद्राजे तु पुमानयम् ॥ ३६ ॥
अनुष्टुप्
doubtful
अङ्गशालिनि तु त्रि स्यादथ सम्बोधनादिषु ।अङ्गेत्यव्ययमम्ब्लस्तु षण्णामन्यतमे रसे ॥ ३७ ॥
अनुष्टुप्
अङ्ग as a meaning in nānārtha verses
- धरणिकोश अरअरमङ्गे रथाङ्गस्य शीघ्रं स्याच्छीघ्रगोऽप्यरम् । करो राजप्रदो यः स्याद्रश्मौ हस्ते घनोपले ॥ Dharaṇikośa 26.2.1
- धरणिकोश गात्रगात्राणि विदुरङ्गानि गात्रमुक्तं कलेवरे । अग्रजङ्घाविभागे च गजानां गात्रमिष्यते ॥ Dharaṇikośa 26.3.11
- कोषकल्पतरु प्रतीककामे भोगे कुतुके कौतुकमच्छिन्नमङ्गले चापि । दीपाङ्गयोः प्रतीकः प्रतिकूलविलोमयोः परवत् । विश्वामित्रे वृत्रशत्रावुलूके व्यालग्राहे गुग्गुलौ कोशविज्ञे । पुंलिङ्गः स्यात्कौशिकः कौशिकी तु कात्यायन्यां स्यात्स्रवन्तीविशेषे ॥ ७७ ॥ Koṣakalpataru 6.1.77
- कोषकल्पतरु भोगरागोऽनुरागे नृप-भैरवादौ मात्सर्यदुःखादिषु चारुणिम्नि । भोगस्तु सर्पस्य फणाङ्गयोः स्या- त्सुखेऽशने रक्षणवित्तयोश्च ॥ ९६ ॥ Koṣakalpataru 6.3.96
- कोषकल्पतरु आकृतिजात्यङ्गरूपेषु मताकृतिः स्त्री सौस्थ्ये तथा*स्तमने च सौख्ये । स्यान्निर्वृतिः साधुनयध्रुवाम्बा- र्थिका सुनीतिर्गदिताथ वृत्तौ ॥ ३८ ॥ Koṣakalpataru 6.16.38
- नानार्थार्णवसंक्षेप शीर्णिवल्ल्यां शम्यां तथा शीर्णिस्त्वङ्गे विशरणे रुजि । शुण्डा सलीलहस्तिन्यां मदिराहस्तिहस्तयोः ॥ १०८ ॥ Nānārthārṇavasaṃkṣepa 2.1.108
- नानार्थार्णवसंक्षेप गेष्णअङ्गयोरुभयोः स्यात् तु त्रिषु रङ्गोपजीविनि । गोत्रो ना भूधरे मेघे क्ली तु नाम्नि कुले बले ॥ ३६८ ॥ Nānārthārṇavasaṃkṣepa 2.5.368
- नानार्थार्णवसंक्षेप लक्षणजानीयात् कार्षिके चिह्ने नाम्नि मुद्राङ्गसम्पदोः । क्लीबं स्याल्लक्षणा तु स्त्री भक्त्यां स्यादपुमान् पुनः ॥ १५५१ ॥ Nānārthārṇavasaṃkṣepa 4.1551
- परमानन्दीयनाममाला पिण्डपिङ्गा गोरोचनागौर्योः पिङ्गं बालकपीतयोः । पिण्डः सिह्ले जपापुष्पे वोलेऽपि कवलाङ्गयोः ॥ २९८ ॥ Paramānandīyanāmamālā 5.19.298
- परमानन्दीयनाममाला पुरआतपत्रे पुण्डरीकं कं शीर्षेऽथ द्रवे मधु । सद्माङ्गयोः पुरं क्लीबे घटार्थे खपुरं पुनः ॥ ७६ ॥ Paramānandīyanāmamālā 6.3.76
- शब्दरत्नावली नालीकनन्दको विष्णुखड्गे स्यात् हर्षके कुलपालके । नालीकः शरशल्याङ्गेष्वब्जषण्डे तु न द्वयोः ॥ Śabdaratnāvalī 7.1.94
- शब्दरत्नावली गात्रगात्रं गजाग्रजङ्घादिभागे देहाङ्गयोरपि । गीः स्त्रियामेव भाषायां सरस्वत्यां यशस्यपि । गुरुर्निषेकादिकरे पित्रादौ गीष्पतौ पुमान् ॥ Śabdaratnāvalī 7.27.9
- त्रिकाण्डशेष पिण्डपिण्डः सान्द्रे गृहांशेऽङ्गे पण्डः षण्डे मत स्त्रियाम् । स्तम्बे शस्ते प्रकाण्डोऽस्त्री वरण्डो वदनामये ॥ ११४ ॥ Trikāṇḍaśeṣa 3.3.114
- त्रिकाण्डशेष निमित्तनिमित्तं हेतुचिह्नाङ्गशकुनोद्देश्यपर्वसु । प्रस्तुतः कुब्जिते पाणौ जङ्घायां स्त्री गते त्रिषु ॥ १६३ ॥ Trikāṇḍaśeṣa 3.3.163
- त्रिकाण्डशेष बेरविकारो विकृतौ रोगे विश्वकद्रू श्वभित्खलौ । बेरोऽङ्गे कुङ्कुमे बेरं वठरः शठमन्दयोः ॥ ३७३ ॥ Trikāṇḍaśeṣa 3.3.373